घण्टापथः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टापथः, पुं, (घण्टानां उपलक्षणात् घण्टादि- वादित्राणां पन्थाः । “ऋक्पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अः ।) घण्टोपलक्षितानां हस्त्यादीनां पन्थाः । इति भरतः ॥ ग्रामादौ प्रधानमार्गः । यथा, -- “दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः ॥” इति चाणक्यम् । तत्पर्य्यायः । संसरणम् २ । तत् संसरणं यदि पुरसम्बन्धि स्यात्तदा उपनिष्करमिति ख्यातम् । इत्यमरः । २ । १ । १८ ॥

"https://sa.wiktionary.org/w/index.php?title=घण्टापथः&oldid=133105" इत्यस्माद् प्रतिप्राप्तम्