घण्टापाटलिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टापाटलिः, पुं, (घण्टा चासौ पाटलिश्चेति कर्म्मधारयः ।) वृक्षविशेषः । घण्टापारुल इति भाषा ॥ तत्पर्य्यायः । गोलीडः २ झाटलः ३ मोक्षः ४ मुष्ककः ५ । इत्यमरः । २ । ४ । ३९ ॥ गोलिहः ६ घण्टा ७ पाटलिः ८ इति तट्टीका ॥ क्षारद्रुः ९ कालमुष्ककः १० । इति रत्नमाला ॥ पाटली ११ घण्टाकः १२ झाटः १३ । इति शब्दरत्नावली ॥ तीक्ष्णः १४ घण्टकः १५ । इति रत्नकोषः ॥ मोक्षकः १६ काष्ठपाटली १७ कालास्याली १८ काचस्थली १८ । इति भाव- प्रकाशः ॥ राजनिंर्घण्टोक्तगुणपर्य्यायौ मुष्कक- शब्दे द्रष्टव्यौ ॥

"https://sa.wiktionary.org/w/index.php?title=घण्टापाटलिः&oldid=133107" इत्यस्माद् प्रतिप्राप्तम्