चक्षुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुः, [स्] क्ली, (चष्टे पश्यत्यनेनेति । चक्ष + “चक्षेः शिच्च ।” उणां । २ । १२० । इति उसिः स च शित् । शित्वात् ख्याञादेशाभावः ।) दर्शनेन्द्रियम् । तस्य ग्राह्यं उद्भूतरूपम् १ तद्बद्- द्रव्यम् २ पृथक्त्वम् ३ संख्या ४ विभागः ५ संयोगः ६ परत्वम् ७ अपरत्वम् ८ स्नेहः ९ द्रवत्वम् १० संख्यापरिमाणम् ११ योग्यवृत्ति- क्रिया १२ योग्यवृत्तिजातिः १३ योग्यवृत्तिसम- वायः १४ । अस्येन्द्रियसहकारिणः आलोकः उद्भूतरूपं महत्त्वम् । इति भाषापरिच्छेदः ॥ अस्याधिष्ठात्री देवता सूर्य्यः । इति श्रीभाग- वतम् । तत्पर्य्यायः । लोचनम् २ नयनम् ३ नेत्रम् ४ ईक्षणम् ५ अक्षि ६ दृक ७ दृष्टिः ८ । इत्यमरः । २ । ६ । ९३ ॥ अम्बकम् ९ दर्शनम् १० । इति हेमचन्द्रः ॥ तपनम् ११ । इति राजनिर्घण्टः ॥ विलोचनम् १२ दृशा १३ वीक्षणम् १४ प्रेक्षणम् १५ दैवदीपः १६ देव- दीपः १७ दृशिः १८ दृशी १९ । इति शब्द- रत्नावली ॥ * ॥ यथा, कर्म्मलोचने । “पाणिभ्यां न स्पृशेच्चक्षुश्चक्षुषी नैकपाणिना । चक्षुः परहिताकाङ्क्षी न स्पृशेदेकपाणिना ॥” मेषशृङ्गीवृक्षः । इति रत्नमाला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुः in comp. for क्षुस्.

"https://sa.wiktionary.org/w/index.php?title=चक्षुः&oldid=352862" इत्यस्माद् प्रतिप्राप्तम्