सामग्री पर जाएँ

चणक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चणकः, पुं, (चणति वेदोच्चारणादिध्वनिना शब्दा- यते इति । चण शब्दे + क्वुन् ।) मुनिविशेषः । इति शब्दरत्नावली ॥ (चण्यते दीयते इति । चण दाने + क्वुन् ।) शस्यविशेषः । चणा युट छोला इति च भाषा ॥ तत्पर्य्यायः । हरि- मन्थकः २ । इत्यमरः । २ । ९ । १८ ॥ हरि- मन्थजः ३ । इति तट्टीका ॥ चणः ४ हरिमन्थः ५ सुगन्धः ६ कृष्णचञ्चुकः ७ बालभोज्यः ८ वाजि- भक्ष्यः ९ कञ्चुकी १० । अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । मेहवान्त्यस्रपित्तनाशित्वम् । दीप- नत्वम् । वर्णबलरुच्याध्मानकारित्वञ्च ॥ * ॥ आमस्य तस्य गुणाः । शीतलत्वम् । रुच्यत्वम् । सन्त- र्पणत्वम् । दाहतृष्णाश्मरीशोषनाशित्वम् । गौल्य- त्वम् । कषायत्वम् । इषत्कफवीर्य्यकारित्वञ्च ॥ * ॥ भृष्टस्य तस्य गुणाः । रुच्यत्वम् । वातनाशित्वम् । रक्तदोषकारित्वम् । उष्णवीर्य्यत्वम् । लघुत्वम् । स्वेदशैत्यहरत्वञ्च ॥ * ॥ तस्य यूषस्य गुणाः । मधुरत्वम् । कषायत्वम् । कफवातविकार- श्वासोर्द्ध्वकासक्लमपीनसनाशित्वम् । बलदीपन- त्वञ्च ॥ * ॥ प्रातस्तज्जलपानगुणाः । चन्द्रमरी- चिवत् शीतलत्वम् । पित्तरोगनाशित्वम् । पुष्टि- प्रदत्वम् । पाके नैजगुणत्वम् । सन्तर्पणत्वम् । मञ्जुलत्वम् । मधुरत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तस्य आर्द्रभृष्टस्य गुणः । बलकारित्वम् । रोचन- त्वञ्च ॥ * ॥ स्विन्नस्य तस्य गुणः । पित्तकफ- नाशित्वम् ॥ * ॥ तत्सूपः क्षोभकरः ॥ * ॥ तस्य शाकस्य गुणाः । रुच्यत्वम् । दुर्ज्जरत्वम् । कफवातकारित्वम् । अम्लत्वम् । विष्टम्भजनक- त्वम् । पित्तदन्तशोथनाशित्वञ्च । इति भाव- प्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चणक पुं।

चणकः

समानार्थक:चणक,हरिमन्थक

2।9।18।2।3

सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ। स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॥

वैशिष्ट्य : चणकधान्योद्भवक्षेत्रम्

 : चणभेदः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चणक¦ पु॰ चण--दाने क्वुन्।

१ शस्यभेदे (वुट्) (छोला) अमरः

२ मुनिभेदे च तस्य गोत्रापत्यं गर्गा॰ यञ् चाणक्यः।
“चणकःशीतलोरूक्षः पित्तरक्तकफापहः। लघुः कषायो विष्टम्भीवातलो ज्वरनाशनः। सचाङ्गारेण सम्भृष्टस्तैलभृष्टश्चतद्गुणः। आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्त्तितः। शुष्कभृष्टोऽतिरूक्षः स्याद्वातकुष्ठप्रकोपनः। स्विन्नः पित्त-कफं हन्यात् सूपः क्षोभकरोऽहितः। आर्द्रोऽतिकोमलोरुच्यः रक्तपित्तहरो हिमः”। हरितार्द्रचणकरन्धनन्तु।
“सुहरित हरिमन्थः क्षोदभिन्नो नखाग्रैः प्रथममुदक-सिक्तो वेसवारेण सिद्धः। लवणमरिंचसङ्गात् तैलहिङ्गु-प्रसिक्तः शिखरयति विभोक्तुर्जाठरं मन्दवह्निम्। छोला-भिधायकफलं परिगृह्य शुद्धं तप्ते घृते सुललितक्वथितो-षणाभ्याम्। संसाधितम् सुरभितं शुचिरामठेन जिह्वा-तले विशति नित्यमतिप्रकामम्” शब्दार्थ॰ चि॰ धृतवेद्यकम्। ( तस्य शाकगुणपाकादि तत्रैव दर्शित यथा
“रुच्यंचणकशाकं स्याद् दुर्जरं कफवातकृत्। अम्लं विष्टम्भ-जनकं पित्तनुद्दन्तशोथहृत्। सकृत्तु चाणकं शाकमम्ल-तक्रेण साधितम्। सहिङ्गुलवणे तप्ते भर्जितं रामठा-न्वितम्। क्षाराम्लभावसहजाश्चणकप्रबालाः सम्मर्दितामरिचसैन्धवशृङ्गवेरैः। संचूर्णिताः कटुकतैलयुतैःसुपक्वेर्भृष्टैः सुहिङ्गुचणकैः परिदत्तवासाः। ”

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चणक¦ m. (-कः)
1. Chick-pea, (Cicer arietinum.)
2. The name of a sage. f. (-का) Linseed. E. चण् to be given, affix अच् and कन् added; what is given to horses, &c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चणकः [caṇakḥ], 1 Chick-pea; उत्पतितो$पि हि चणकः शक्तः किं भ्राष्ट्रकं भक्तुम् Pt.1.132.

N. of a gotra. -Comp. -अम्लम् sour pease. ˚वारि Water mixed with sour pease. -आत्मजः the sage चाणक्य.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चणक m. the chick-pea Sus3r. VarBr2S. xv f. Pan5cat. Katha1s.

चणक m. N. of चाणक्य's father L.

चणक m. of a village HParis3. viii , 194

"https://sa.wiktionary.org/w/index.php?title=चणक&oldid=353763" इत्यस्माद् प्रतिप्राप्तम्