चतुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरः, त्रि, (चत्यते याच्यते इति । चत + “मन्दि- वाशिमथिचतिचङ्क्यङ्किभ्य उरच् ।” उणां । १ । ३८ । इत्युरच् ।) कार्य्यक्षमः । निरालस्यः । तत्पर्य्यायः । दक्षः २ पेसलः ३ पटुः ४ सूत्था- नम् ५ उष्णः ६ । इत्यमरः । २ । १० । १९ । पेशलः ७ पेषलः ८ इति तट्टीका ॥ निपुणः । इति राजनिर्घण्टः ॥ (यथा, देवीभागवते । १ १७ । ४४ । “चतुरोनैव मुह्येत मूर्खः सर्व्वत्र मुह्यति ॥”) तस्य लक्षणं यथा । वाक्चेष्टाव्यङ्ग्यसमागमः । तत्र वचनव्यङ्ग्यसमागमो यथा, रसमञ्जर्य्याम् । “तमोजटाले हरिदन्तराले काले निशायास्तव निर्गतायाः । तटे नदीनां निकटे वनानां घटेत शातोदरिकः सहायः ॥” चेष्टाव्यङ्ग्यसमागमो यथा, -- “कान्ते कनकजम्बीरं करे कमपि कुर्व्वति ! अगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥” (उपभोगक्षमः । यथा, रघुः । ९ । ४७ । “त्यजत मानमलं वत विग्रहैः न पुनरैति गतं चतुरं वयः ॥” “चतुरं उपभोगक्षमम् ।” इति तट्टीकायांमल्लि- नाथः ॥) नेत्रगोचरः । इति हेमचन्द्रः ॥

चतुरः, पुं, (चत + उरच् ।) चक्रगण्डुः । हस्ति- शाला । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर पुं।

चतुरः

समानार्थक:दक्ष,चतुर,पेशल,पटु,सूत्थान,उष्ण

2।10।19।1।2

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर¦ पु॰ चत--उरच्।

१ वक्रगतौ

२ हस्तिशालायाञ्च हेमच॰।

३ कार्य्यदक्षे

४ आलस्यहीने

५ निपुणे च त्रि॰।

६ नायकभेदेपु॰ तल्लक्षणं रसमञ्जर्य्याम्
“वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः। तत्र वचनव्यङ्गसमागमो यथा
“तमोजटाले हारेदन्त-राले काले निशायास्तव निर्गतायाः। तटे नदीनांनिकटे वनानां घटेत शातोदरि! कः सहायः”। चेष्टाव्यङ्ग्यसमागमो यथा
“कान्ते कनकजम्बीरं करेकमपि कुर्व्वति। अपारनिश्चले भानौ विन्दुमिन्दुमुखी ददौ”। तां बीक्ष्य लीलाचतुरामनङ्गः
“तव प्रियंयश्चतुरावलोकिनः” कुमा॰।
“न पुनरैति गतं चतुरंवयः”।
“मृगया जहार चतुरेव कामिनी” रघुः। चतुर् + अर्श॰ अच्।

६ चतुर्विशिष्टे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर¦ mfn. (-रः-रा-रं)
1. Dexterous, ingenious, clever.
2. Visible, percepti- ble. m. (-रः)
1. A round pillow, one for the cheek.
3. An elephant stable. E. चत् to ask, Unadi affix उरच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर [catura], a. [चत्-उरच्]

Clever, skilful, ingenious, sharp-witted; सर्वात्मना रतिकथाचतुरेव दूती Mu.3.9; Amaru.15.44; मृगया जहार चतुरेव कामिनी R.9.69;18.15.

Quick, swift.

Charming, beautiful, lovely, agreeable; न पुनरेति गतं चतुरं वयः R.9.47; Ku.1.47; 3.5;5.49.

रः A round pillow.

Crooked gait.

रम् Cleverness, ingenuity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर mfn. ifc. = तुर्(See. उप-and त्रि-Pa1n2. 5-4 , 77 Va1rtt. ; अ-, वि-, सु-Vop. vi , 29 )

चतुर mf( आSee. g. अर्श-आदि)n. ( चत्Un2. )swift , quick Katha1s. x , 108 Ra1jat. iii , 176

चतुर mf( आSee. g. अर्श-आदि)n. dexterous , clever , ingenious , shrewd Ragh. Vikr. Kum. Pan5cat. etc.

चतुर mf( आSee. g. अर्श-आदि)n. charming , agreeable Ragh. Bhartr2.

चतुर mf( आSee. g. अर्श-आदि)n. visible L.

चतुर m. a round pillow(See. चात्) L.

चतुर m. the fish Cyprinus Rohita Gal.

चतुर m. ( scil. हस्त)a particular position of the hand PSarv.

चतुर n. = -ताg. अर्श-आदि

चतुर n. an elephant's stable L.

"https://sa.wiktionary.org/w/index.php?title=चतुर&oldid=499493" इत्यस्माद् प्रतिप्राप्तम्