सामग्री पर जाएँ

चतुरङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरङ्गम्, क्ली, (चत्वारि अङ्गानि यस्य ।) हस्त्यश्व- रथपदातिरूपं सैन्यम् । यथा, रामायणे । “चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ।” अक्षक्रीडाविशेषः । चौरंखेला इति भाषा ॥ यथा, -- युधिष्ठिर उवाच । “अष्टकोष्ठ्याञ्च या क्रीडा तां मे ब्रूहि तपोधन ! । प्रकर्षेणैव मे नाथ चतूराजी यतो भवेत् ॥ व्यास उवाच । अष्टो कोष्ठान् समालिख्य प्रदक्षिणक्रमेण तु । अरुणं पूर्ब्बतः कृत्वा दक्षिणे हरितं बलम् ॥ पार्थ ! पश्चिमतः पीतमुत्तरे श्यामलं बलम् । राज्ञो वामे गजं कुर्य्यात् तस्मादश्वं ततस्तरिम् ॥ कुर्य्यात् कौन्तेय ! पुरतो युद्धे पत्तिचतुष्टयम् । कोणे नौका द्वितीयेऽश्वस्तृतीये तु गजो वसेत् ॥ तुरीये च वसेद्राजा वटिकाः पुरतः स्थिताः ॥ पञ्चकेन वटी राजा चतुष्केणैव कुञ्जरः ॥ त्रिकेण तु चलत्यश्वः पार्थ ! नौकाद्वयेन तु ॥ कोष्ठमेकं विलङ्घ्याथ सर्व्वतो याति भूपतिः । नौकैका वटिका यस्य विद्यते खेलने यदि । गाढावटीति विख्याता पदं तस्य न दुष्यति ॥ गाढाघात्यापदं राजपदं कोणपदञ्च तत् । हस्ते रङ्गे बलं नास्ति काककाष्ठं तदा भवेत् ॥ वदन्ति राक्षसाः सर्व्वे तस्य न स्तो जयाजयौ । प्रार्थिते पञ्चमे राज्ञि मृतवट्याञ्च षट्पदे ॥ अशौचं स्यात्तदा राजन् ! चलित्वा चालितं पदम् । द्बिरावृत्त्या गतौ तस्माद्धन्यात् परबलं जयी ॥ सिंहासनं भवत्येव काककाष्ठं न भण्यते ॥ उपविष्टञ्च यत् स्थानं तस्योपरिचतुष्टये । नौकाचतुष्टयं यत्र क्रियते यस्य नौकया ॥ नौकाचतुष्टयं तत्र बृहन्नौकेति भण्यते । न कुर्य्यादेकदा राजन् ! गजस्याभिमुखं गजम् ॥ यदि कुर्व्वीत धर्म्मज्ञ ! पापग्रस्तो भविष्यति । स्थानाभावे यदा पार्थ ! हस्तिनं हस्तिसम्मुखम् ॥ करिष्यति तदा राजन्निति गोतमभाषितम् । प्राप्ते गजद्वये राजन् ! हन्तव्यो वामतो गजः ॥” इति तिथ्यादितत्त्वे चतुरङ्गक्रीडनम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरङ्ग¦ न॰ चत्वारि अङ्गानि यस्य।

१ हस्त्यश्वरथपदातिरूपा-ङ्गचतुष्टययुते सैन्ये।
“प्रयातेऽस्मिन्नरव्याघ्र! बलेन म-हतावृतः। कॢप्तेन चतुरङ्गेण यत्तेन जितकासिना” भा॰ व॰

२० अ॰। रक्तहरितपीतश्यामलरूपाणि चत्वारिबलस्वरूपाणि क्रीडासधनान्यङ्गान्यस्य। (चतूराजी)

२ क्रीडाभेदे। तत्क्रीडाप्रकारः ति॰ त॰ व्यासयुधिष्ठिरसंवादे
“युधिष्ठिर उवाच। अष्टकोष्ठ्याञ्च या क्रीडा तां मेव्रूहि तपोधन!। प्रकर्षेणेव मे नाथ! चतुराजी यथाभवेत्। व्यास उवाच। अष्टौ कोष्ठान् समालिख्यप्रदक्षिणक्रमेण तु। अरुणं पूर्वतः कृत्वा दक्षिणे हरितंबलम्। पार्थ! पश्चिमतः पोतमुत्तरे श्यामलं बलम्। राज्ञोवामे गजं कुर्य्यात् तस्मादश्वं ततस्तरिम्। कुर्य्यात्कौन्तेय! पुरतो युद्धे पत्तिचतुष्टयम्। कोणे नौका-द्वितीयेऽश्वस्तृतीये च गजोवसेत्। तुरीये च वसेद्राजा-वटिकाः पुरतः स्थिताः। पञ्चकेन वटी राजा, चतुष्के-णैव कुञ्जरः। त्रिकेणैव चलत्यश्वः पार्थ! नौका द्वयेन तु। कोष्ठमेकं विलङ्घ्याथ सर्वतोयाति भूपतिः। अग्रएववटी याति बलं हन्त्यग्रकोणगम्। यथेष्टं कुञ्जरोयातिचतुर्दिक्षु महीपते!। तिर्य्यक् तुरङ्गमो याति लङ्घ-यित्वा त्रिकोष्ठकम्। कोणकोष्ठद्वयं लङ्घ्य व्रजेन्नैका युधि-ष्ठिर। सिंहासनं चतूराजी नृपाकृष्टञ्च षट्पदम्। काक-काष्ठं वृहन्नौका नौकाकृष्टप्रकारकम्। धाताघाते वटींनौका बलं हन्ति युधिष्ठिर!। राजा गजोहयश्चापित्यक्त्वा घातम् निहन्ति च। अत्यन्तं स्वबलं रक्षेत् स्वराजवलमुत्तमम् अल्पस्य रक्षया पार्थ! हन्तव्यं बलमुत्त-मम्”। नौकायाश्चत्वारि पदानि अश्वस्याष्टौ पदानि इत्या-धिक्यमश्वस्य।
“मतङ्गजस्य गर्वेण राजा क्रीडति निर्भ-रम्। तस्मात् सर्वबलं दत्त्वा रक्ष कौन्तेय! कुञ्जरम्। सिंहासनं चतूराजी यदवस्थानतो भवेत्। सर्वसैन्यै-र्गजैर्व्वापि रक्षितव्योमहीपतिः। अन्यराजपदे गत्वायदा धातो युधिष्ठिर। तदा सिंहासनं तस्य भण्यतेनृपसत्तम। राजा च नृपतिं हत्वा कुर्य्यात् सिंहासनंयदा। द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्”। द्विगुणं पणं दातव्यत्वेन प्रापयेत्।
“मित्रसिंहासनंपार्थ! यदारोहति भूपतिः। तदा सिंहासनं नाम सर्वंनयति तद्बलम्। यदा सिंहासनं कर्त्तं राजा षह-[Page2864-a+ 38] पदाश्रितः। तदा घातेऽपि हन्तव्यो बलेनापि सुरक्षितः। विद्यमाने नृपे यश्च स्वकीये च नृपत्रयम्। प्राप्नोति तुयदा तस्य चतूराजी तदा भवेत्। नृपेणैव नृपं हत्वाचतूराजी यदा भवेत्। द्विगुणं वाहयेत् पण्यमन्यथै-कगुणं भवेत्। स्वपदस्थं यदा राजा राजानं हन्तिपार्थिव!। चतुरङ्गे तदा भूप! बाहयेच्च चतुर्गुणम्। यदा सिंहासने काले चतूराजी समुत्थिता। चतूराजीभवत्यत्र नतु सिंहासनं नृप!”। अत्रेदं वीजम् उभयथाजयेऽपि परसिंहासनाधिकारात् परराजबधे शौर्य्याधिक्यनिष्कण्टकत्वदर्शनात् क्रीडायामपि तथा कल्प्यते।
“राजद्वयं यदा हस्ते आत्मनोराज्ञि संस्थिते। परेणसंहृतश्चैको बलेनाप्यपहार्य्यते। राजद्वयं यदा हस्तेन स्यादन्यकरे परः। तदा राजा हि राजानं घातेऽपि तंहनिष्यति। नृपाकृष्टो यदा राजा गमिष्यति युधि-ष्ठिर!। घाताघाते पि हन्तव्यो राजा तत्र न रक्षकः। कोणे राजपदं त्यक्त्वा वटिकान्तं यदा व्रजेत्। वटी चषटपदं नाम तदा कोष्ठबलं नयेत्। यदा तस्य भवेत्पार्थ! चतूराजी च षट्पदम्। तदापि च चतूराजीभवत्येव न संशयः। पदातेः षट्पदे विद्धे राज्ञा वाहस्तिना तथा। षट्पदं न भवेत्तस्य अवश्यं शृणुपार्थिव!। सप्तमे कीष्ठके यत् स्याद्वटिका दशमेन वै। तदान्योन्यञ्च हन्तव्यं सुखाय दुर्बलं बलम्। त्रिवटीकस्यकौन्तेय! पुरुषस्य कदाचन। षट्पदं न भवत्येव इतिगोतमभाषितम्। नौकैका वटिका वस्य विद्यते खेलनेयदि। गाढावटीति विख्याता पदं तस्य न दुष्यति”। पदं राजपदं कोणपदञ्च।
“हस्ते रङ्गे बलं नास्तिकाककाष्ठं तदा भवेत्। वदन्ति राक्षा{??} सर्वे तस्य शस्तौजयाजयौ। प्रोत्थिते पञ्चमे राज्ञि मृते वट्याञ्च षट्-पदे। अशौचं स्यात्तदा हन्ति चलित्वा चालितं बलम्। द्विरावृत्त्यागते तस्मात् हन्यात् परबलं जयी। पार्थ!सिंहासने काले काककाष्ठं यदा भवेत्। सिंहासनंभवत्येव काककाष्ठं न भण्यते। उपरिष्ठाच्चयत्स्थानं तस्योप्ररि चतुष्टये। नौकाचतुष्टयं यत्रक्रियते तस्य नौकया। नौकाचतुष्टयं तस्य वृहन्नौ-केति भण्यते। न कुर्य्यादेकदा राजन्! गजस्याभिमुखंगजम्। यदि कुर्वीत धर्म्मज्ञः पापग्रस्तो भविष्यति। स्थानाभावे यदा पार्थ! हस्तिनं हस्तिसंमुखम्। करिष्यति तदा राजन्! इति गोतमभाषितम्। प्राप्ते[Page2864-b+ 38] गजद्वये राजन्। हन्तव्योवामतोगजः”। इति चतु-रङ्गक्रीडनम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरङ्ग¦ n. (-ङ्गं)
1. An entire army, comprising elephants, cars, horse and foot.
2. A sort of chess. E. चतुर्, and अङ्ग a member. चत्वारि अङ्गानि यस्य।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरङ्ग/ चतुर्--अङ्ग mfn. ( चत्)having 4 limbs (or extremities) RV. x , 92 , 11 S3Br. xii

चतुरङ्ग/ चतुर्--अङ्ग mfn. (with बल, an army) comprising (4 parts , viz.) elephants , chariots , cavalry , and infantry MBh. iii , 790 R. ii , 51 , 7

चतुरङ्ग/ चतुर्--अङ्ग m. Cucumis utilissimus (?) L.

चतुरङ्ग/ चतुर्--अङ्ग m. N. of a son of रोम-or लोम-पादHariv. 1697 f. BhP. ix , 23 , 10

चतुरङ्ग/ चतुर्--अङ्ग n. ( scil. बल)= ङ्ग-बलAV. Paris3. MBh. ix , 446

चतुरङ्ग/ चतुर्--अङ्ग n. a kind of chess (played by 4 parties) Tithya1d.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CATURAṄGA : A king of the Aṅga dynasty. He was the son of Hemapāda and father of Pṛthulākṣa. (Agni Purāṇa, Chapter 277).


_______________________________
*8th word in right half of page 178 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चतुरङ्ग&oldid=499494" इत्यस्माद् प्रतिप्राप्तम्