चतुराश्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुराश्रम¦ न॰ चतुर्णामाश्रमाणां समाहारः।
“चत्वार-आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः” वसि-ष्ठोक्तेषु ब्रह्मचार्य्यादिषु। तेषां विशेषधर्म्मास्तत्तच्छब्देदृश्याः। तेषां साषारणधर्म्मा मनुनोक्ता यथा
“चतुर्भिरपि चैवैतैर्निंत्यमाश्रमिभिर्द्विजैः। दशलक्षणको-धर्म्मः सेवितव्यः प्रयत्नतः। धृतिः क्षमा दमोऽस्तेयंशौचमिन्द्रियनिग्रहः! धीर्विद्या सत्यमक्रोधो दशकंधर्म्मलक्षणम्। दश लक्षणानि धर्म्मस्य ये विप्राः सम-धीयते। अधीत्य चानुवर्त्तन्ते ते यान्ति परमाङ्गतिम्। दशलक्षणकं धर्म्ममनुतिष्ठन् समाहितः। वेदान्तंविधिवच्छ्रुत्वा संन्यसेदनृणोद्विजः”। तस्य भावः ष्यञ्, स्वार्थे वा ष्यञ्। चातुराश्रन्य तद्धर्म्मेचतुर्ष्वाश्रमेषु च न॰।
“चातुराश्रम्यधर्म्माश्च वेदधर्म्माश्चपार्थिवः” भा॰ शा॰

६५ अ॰।

"https://sa.wiktionary.org/w/index.php?title=चतुराश्रम&oldid=355056" इत्यस्माद् प्रतिप्राप्तम्