सामग्री पर जाएँ

चतुर्दशभुवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्दशभुवन¦ न॰ समा॰ द्विगुः पात्रादि न ङीप् स्त्रीत्वे। भूलोकादिषु चतुर्दशसु लोकेषु।
“झूर्लोकाख्योंदक्षिणो व्यक्षदेशात् तस्मात् सौम्योऽयं भुवः स्वश्च मेरुः। लभ्यः पुण्यैः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्या-त्तपः सत्यमन्त्यः”
“सि॰ शि॰ भुवनकोषे भूलोकादिसप्तकमुक्तम्
“अवनेरप्यधस्तात् सप्त भूविवरा एकैकशोयोजनायुतान्तरेणायामविस्तारेणोपकॢप्ताः। अतलंवितलं सुतलं तलातलं महातलं रसातलं पातालमिति” भाग॰

५ ।

२४ ।

११ श्लोके अतलादिसप्तकमुक्तम्तद्विवरणं तत्राध्याये दृश्यम्। भूलोकादिविवरणंकाशीख॰

२३ अ॰।
“पादगम्यं हि यत् किञ्चि-द्वस्त्वस्ति धरणीतले। तद्भूर्लोक इति ख्यातं साब्धिद्वीपाद्रिकाननम्। भूर्लोकाच्च भुवर्लोक आब्रध्नात्समुदाहृतः। आदित्यादाध्रुवं विप्र! स्वर्लोक इतिगीयते। महर्लोकः क्षितेरूर्द्धमेककोटिप्रमाणतः। कोटिद्वयोत्तरः ख्यातो जनो भूर्लोकयोजनैः। चतुः-कोटिप्रमाणस्तु तपोलोकोहि भूतलात्। उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम्”। योगिनां तनुमध्ये ध्येयानि स्थानभेदे चतुर्दश भुव-नादीनि योगस्वरोदये उक्तानि यथा।
“व्रह्माण्डे सन्ति ये अण्डाः पिण्डमध्येऽपि संस्थिताः। तलं पादाङ्गुष्ठतले तस्योपरि तलातलम्। महातलं गुल्-फमध्ये गुल्फोपरि रसातलम्। सुतलं जङ्घयोर्म्म-ध्ये वितलं जानुमध्यगम्। ऊर्वोर्म्भध्ये तलंप्रोक्तं सप्त-पातालमारितम्। तलातलञ्चातलञ्च महातलरसा-तलम्। सप्तपातालमेतत्तु सुतलं वितलं तलम्। इदानींपिण्डमध्येतु सप्तलोकं शृणु प्रिये!। मूलाधारे तु भूर्लोकोलिङ्गाग्रे तु भुवस्ततः। स्वर्लोको लिङ्गमूले तु मेरुमूलेमहस्तथा। मेरुच्छिद्रे जनोलोको मेरुनाड्यां तप-स्तथा। कमले सत्यलोकस्तु इति लोकाः पृथक् पृथक्[Page2875-a+ 38] भूभुवः स्वर्महश्चेति जनश्चैव तपस्तथा। सप्तमासत्यलोकस्तुसप्त लोका इति स्मृताः। सप्तलोकैस्तु पातालैभु वनानिचतुर्दश। अथ ब्रह्माण्डमध्यस्थाश्चत्वारो लोकपालकाः। पिण्डमध्ये तु तान् ज्ञात्वा सर्वसिद्धीश्वरोभवेत्। इन्द्रो-ब्रह्मा विष्णुरीशश्चत्वारश्चात्मदेवताः। मूलाधारे चतुःपत्रेगजारूढो महानिति। सृष्टिकर्त्ता च तत्रैव स्वाधिष्ठानेमहान् हरिः। मणिपूरे शूलपाणिरष्टसिद्धीश्वरो-महान्। तालुद्वारे तालुमध्ये ललाटे वक्षःकण्ठकेशृङ्गाटिकाकपाले च लम्बिकाब्रह्मरन्ध्रके। नवचक्र-मूर्द्ध्वचक्रं

९ त्निकूटेत्येकविंशतिः। ब्रह्माण्डानि वसन्तीति ज्ञातव्यानि प्रयत्नतः। सप्त द्वीपानि कथ्यन्तेऽधुना-तानि शृणु प्रिये!। जभ्वुद्वीपन्तु मज्जायां शाकद्वीपन्तुमध्यमे। शाल्मद्वीपः शिरोमध्ये मांसमध्ये कुशस्तथा। त्वचि क्रौञ्चोलोममध्ये गोमेदद्वीप ईरितः। नखमध्येतथा श्वेतः सप्तद्वीपा वसुन्धरा। जम्बुःशाकस्तथा शा-ल्मःकुशःक्रौञ्चश्च गोमयः। श्वेतः सप्तेति खण्डानिसप्तखण्डैर्वसुन्धरा। सप्तान्येतानि रूपाणि देहमध्येस्थितानि च। समुद्राःसप्त कथ्यन्ते पिण्डमध्येव्यपस्थिताः। लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः। लवणः स्वेदमध्ये तु इक्षूरक्ते मधुत्वचि। सर्पिर्मेदोवसा-मध्ये दधिक्षीरं ललाटके। वीर्य्यमध्येऽमृतोज्ञेयः पादेकूर्म्मः स्थितोमहान्। इदानीन्तु नवद्वारे नवखण्डा-नि संशृणु। पाय्वादौ भारतं खण्डं काश्मीरं त्रिकम-ण्डलु। द्विजखण्डमेकपादं खण्डं वक्ष्ये समण्डलम्। कैवर्त्तगर्त्तगान्धारं नवखण्डमिति स्थितम्। इदानींपर्वताष्टौ च कथ्यन्ते शृणु यत्नतः। मेरुदण्डे सुमेरुस्तुपीठमध्ये हिमालयः। वामस्कन्दे तथा दक्षे मलयोमन्द-राचलः। विन्ध्यस्तु दक्षिणे कर्णे वामे मैनाक ईश्वरि!। लन्ताटे मध्यदेशे तु श्रीशैलः परमेश्वरि!। तथा व्रह्मकपा-लस्थः कैलाशःपर्वतोमहान्। सुमेरुर्हिमवान् विन्ध्योमलयो-मन्दरस्तथा। श्नीशैलः मैनाकश्चेति कैलाशोऽष्टौ च पर्वताः। अपरे पर्वताःसर्वे अङ्गुलीमध्यवासिनः। शरीरे नव-नाडीस्था नर्म्मदा च महेश्वरि!। इडायां यमुना देवि!पिङ्गलायां सरस्वती। सुषुम्णायां वहेद्गङ्गा चान्याऽन्यासु च नांडिषु। गङ्गासरस्वतीगोदानर्म्मदायमुना-तथा। कावेरी चन्द्रभागा च वितस्ता च इरावती। द्विसप्ततिसहस्रेषु नदीनदपरिस्रवः। इतस्ततोदेहमध्येऋक्षाणि सप्तविंशतिः। योगाश्च राशयश्चैव ग्रहाश्च तिथ-[Page2875-b+ 38] यस्तथा। लहरीषु मीनमणी वाहनं स्थापनं तथा। सर्वाङ्गेषुच देवेशि! समग्रमृक्षमण्डलम्। त्रयस्त्रिंशत्-कोटयस्तु निवसन्ति च देवताः। तथा पीठानि सर्वाणिदेहमध्ये स्थितानि च। हृदये व्योममध्ये तु अनन्ताद्या-स्तु वासुकिः। उदये व्योममध्ये तु परे नागा व सन्ति हि। गन्धर्वकिन्नराःशूरा विद्याधराप्सरादयः। अनेकतीर्थ-वर्णाश्च गुह्यकाश्च वसन्ति हि। अनन्तसिद्धये वुद्ध्या प्रका-शोवर्त्तते हृदि। मेघस्य मण्डलं ज्ञेयमश्रुपाते तथैव च। चन्द्रार्कौ नेत्रयोर्म्मध्ये जङ्घलोमसु साक्षिणः। तृणगु-ल्मादिकञ्चापि विश्वरूपंस्मरेत्ततः। समग्रदर्शनान्मुक्तःस्वर्गभोगञ्च सत्सुखम। तदेतच्चिन्तया याति रोगशोक-विवर्ज्यताम्”।

"https://sa.wiktionary.org/w/index.php?title=चतुर्दशभुवन&oldid=355353" इत्यस्माद् प्रतिप्राप्तम्