चतुर्भद्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुर्भद्रम्, क्ली, (चत्वारि भद्राणि यत्र वृन्दे । यद्वा, चतुर्णां धर्म्मार्थकाममोक्षसंज्ञकानां भद्राणां श्रेयसां समाहारः ।) सबलधर्म्मार्थकाममोक्षम् । इत्यमरः । २ । ७ । ५८ ॥ अन्यूनाधिकशक्ति- धर्म्मार्थकाममोक्षम् । इति तट्टीकासारसुन्दरी ॥ (तत्तन्मङ्गलमयगुणयुक्ते त्रि । यथा, महा- भारते । ७ । ६२ । १७ । “स चेन्ममार सृञ्जय ! चतुर्भद्रतरस्त्वया । पुत्त्रात् पुण्यतरस्तुभ्यं मा पुत्त्रमनुतप्यथाः ॥”)