चतुष्पथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथम्, क्ली, (चतुर्णां पथां समाहारः । “तद्धि- तार्थेति ।” २ । १ । ५१ । इति समासः । “ऋक्पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अः । “इद्दुपधस्येति ।” ८ । ३ । ४१ । इति षत्वम् । यद्वा, चत्वारः पन्थानो यत्र इति ।) एकत्र मिलितपथचतुष्टयम् । चौमाता पथ इति भाषा ॥ तत्पर्य्यायः । शृङ्गाटकम् २ । इत्य- मरः । २ । १ । १७ ॥ (यथा, मनुः । ४ । ३९ । “मृदङ्गान् दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्व्वीत प्रज्ञातांश्च वनस्पतीन् ॥”)

चतुष्पथः, पुं, (चत्वारः पन्थानो ब्रह्मचर्य्यादय आश्रमा यस्य । “ऋक्पूरिति ।” ५ । ४ । ७४ । इति अः ।) ब्राह्मणः । इति मेदिनी । थे २७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ नपुं।

चतुष्पथम्

समानार्थक:शृङ्गाटक,चतुष्पथ,प्रवण,संस्थान

2।1।17।1।4

अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे। प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ¦ पु॰ चत्वारः पन्थानः ब्रह्मचर्य्यादयः आश्रमा यस्यअच् समा॰।

१ ब्राह्मणे अमरः ब्राह्मणानां हि
“एषवोऽभिहितो धर्म्मो ब्राह्मणस्य चतुर्विधः” मनुना चातु-राश्रम्यस्य उक्तत्वात् तथात्वम्। चतुर्णां पथां समाहारःअच्।

२ चतुर्मुखे (चौमाथा) पथि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ¦ m. (-थः) A Brahman. n. (-थं) A place where four roads meet. E. चतुर् four, and पथि a road, अच् aff. चत्वारः पन्थानः ब्रह्मचर्य्यादयः आश्रमा यस्य अच् समासः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ/ चतुष्--पथ mn. a place where 4 roads meet , cross-way TBr. i S3Br. ii Kaus3. etc.

चतुष्पथ/ चतुष्--पथ m. " walking the 4 paths( i.e. आश्रमs See. चतुर्-आश्रमिन्)" , a Brahman L.

चतुष्पथ/ चतुष्--पथ n. one of the 18 ceremonies performed with कुण्डs , Tantr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ पु.
(चतुर्णां पथां समाहारः) वह स्थान जहाँ चार सड़कें मिलती हैं (चौराहा); चौराहा, जहाँ रुद्र को एक आहुति दी जाती है, भा.श्रौ.सू. 8.22.7 (महापितृयज्ञ, चातुर्मास्य); ‘स्विष्टकृत्’ भी देखें। चतुर्थीकर्मन् चतुष्पथ 226

"https://sa.wiktionary.org/w/index.php?title=चतुष्पथ&oldid=478310" इत्यस्माद् प्रतिप्राप्तम्