चन्द्रमाः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमाः, [स्] पुं, (चन्द्रमानन्दं मिमीते यद्वा चन्द्रं कर्पूरं सादृश्येन माति परिमातीति । मा + “चन्द्रे मो डित् ।” उणां । ४ । २२८ । इति असिः स च डित् । चन्द्रं रजतं अमृतञ्च तदिव मीयते चन्द्र इति वा मीयते इति दासी- भारादिव्युत्पादने हरदत्तः ।) चन्द्रः । इत्य- मरः । १ । ३ । १३ ॥ (यथा, पञ्चतन्त्रे । ३ । ६८ । “एकोपि कोपि सेव्यो यः क्षीणं क्षीणं पुनर्नवम् । अनुद्विग्नः करोत्येव सूर्य्यश्चन्द्रमसं यथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=चन्द्रमाः&oldid=133800" इत्यस्माद् प्रतिप्राप्तम्