चन्द्रापीड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रापीडः, पुं, (चन्द्रः आपीडे शेखरे यद्वा आपीडः शिरोभूषणं यस्य ।) शिवः । इति त्रिकाण्डशेषः ॥ (काश्मीरस्य राजविशेषः । यथा, राजतरङ्गिण्याम् । ४ । ४५ । “राजचूडामणिः श्रीमांश्चन्द्रापीडस्ततोऽभवत् । पीडितेन्दुत्विषा कीर्त्त्या कलेः पीडा ञ्चकार यः ॥” कादम्बरीवर्णितनायकविशेषः । स तु राज्ञस्तारा- पीडस्य पुत्त्रः । यथा, कादम्बर्य्याम् । १३७ । “अतिक्रान्ते च षष्ठीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्त्ते गाः सुवर्णञ्च कोटिशो ब्राह्मण- सात् कृत्वा ‘मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन् दृष्टः’ इति स्वप्नानुरूप- मेव राजा सूनोश्चन्द्रापीड इति नाम चकार ।” अयं हि एकदा मृगयां गच्छन् किन्नरमिथुन- मनुधावन् हिमालयशिखरमधिरुह्य अच्छोद- सरोवरसमीपं गतवान् । तत्रस्थश्च महाश्वेतां गन्धर्व्वकुमारीमवलोक्य तन्मुखात् तस्याः सर्व्व- वृत्तान्तमाकर्ण्य च तया सह गन्धर्व्वलोकं गत वान् । तत्र गत एव गन्धर्व्वराजस्य चित्ररथस्य कादम्बरीं नाम कन्यां ददर्श । दृष्ट्वा च तां कन्दर्पबाणपीडितो बभूव । ततोऽतिकष्टेन तस्मात् स्थानात् प्रत्यागत्य स्वसहचरं वैशम्पायनं स्कन्धावाररक्षकत्वेन परिकलय्य पित्राहूतः खभवनमाजगाम । अथ गच्छति काले वैशम्पा- यनानयनाय गतोऽसौ चिरबन्धोर्वैशम्पायनस्य मृत्युवार्त्तामाकलय्य छिन्नतरुरिव भूतले पतित्वा महाश्वेतासन्निकर्ष एव विदीर्णहृदयो गतासु- रासीत् । ततो दैवादेशेन रक्षितशरीरोऽसौ पुनर्जीवितश्च कादम्बरीं परिणीतवान् । इत्येषा- तीवाश्चर्य्यजनिका कथा कादम्बरीग्रन्थत एव विशेषतो विज्ञेया ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रापीड¦ m. (-डः) A name of SIVA. E. चन्द्र the moon, and आपीड a chaplet; who has the moon like a chaplet amidst his hair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रापीड/ चन्द्रा m. = द्र-मुकुटBa1lar. x , 28

चन्द्रापीड/ चन्द्रा m. N. of a son of जनमेजयHariv. 11065 f.

चन्द्रापीड/ चन्द्रा m. of a king of Kashmir (brother of तारापीड) Ra1jat. iv , 45 ; v , 277

चन्द्रापीड/ चन्द्रा m. of a prince of कान्यकुब्जKatha1s. lxi , 219

चन्द्रापीड/ चन्द्रा m. of a hero of कालिकाVi1rac. xxx.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CANDRĀPĪḌA : A son of Janamejaya. Parīkṣit was the son of Abhimanyu (Arjuna's son). Janamejaya was Parīkṣit's son. Janamejaya married princess Vapuṣṭamā of Kāśi. Two sons called Candrāpīḍa and Sūryāpīḍa were born to the couple. Candrāpīḍa had hundred sons, who distinguished themselves as great heroes in archery. Satyakarṇa was the eldest among the sons. Śvetakarṇa, son of Satyakarṇa, married Yādavī, the daughter of Sucāru. (Bhaviṣya Purāṇa).


_______________________________
*1st word in left half of page 174 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रापीड&oldid=429445" इत्यस्माद् प्रतिप्राप्तम्