चमत्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमत्कारः, पुं, (चमत्करोतीति । कृ + अण् ।) अपामार्गः । इति शब्दरत्नावली ॥ (चमत् + कृ + भावे घञ् ।) चित्तविस्ताररूपः । तत्- पर्य्यायः । विस्मयः २ । इति साहित्यदर्पणम् ॥ डमरुः ३ । इति त्रिकाण्डशेषः ॥ लोकातीतार्था- कलनेन किमेतदिति ज्ञानधाराजनने चित्तस्य दीर्घप्रायत्वं चित्तविस्तारः । दृष्टहेतुभ्योऽसम्भ- वित्वज्ञानेन हेत्वन्तरानुसन्धाने मनोव्यापार एव चित्तविस्तार इत्यपरे । इति साहित्यदर्पणटीका ॥ (यथा, कथासरित्सागरे । २२ । २५७ । “एवं सकलजगत्त्रयहृदयचमत्कारकारि- चरितानाम् । स्वयमनुधावन्ति सदा कल्याणपरम्पराः पदवीम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमत्कार¦ पु॰ चमदित्यव्यक्तं क्रियते कृ--भावे घञ्। लोका-तीतंवस्तु दृष्ट्या चित्तस्य आनन्दहेतौ

१ प्रकाशे विस्मये,
“लीकोत्तरचमत्कारप्राणदश्च प्रमातृभिः”।
“चमत्कारश्चचित्तविस्ताररूपो विस्मयापरपर्य्याय” सा॰ द॰।
“रसेसारश्चमत्कारः सर्वत्राप्यनुभूयते” तद्धृतधर्म्मदत्तवाक्यम्।
“चमत्कारश्च लोकातीतार्थाकलनेन किमेतदितिज्ञानधाराजननेन चित्तवृत्तेः दीर्घविस्तारः। दृष्टहेतुभ्योऽसम्भावितत्वज्ञानेन हेत्वन्तरानुसन्धानाय मनसो-व्यापारभेद एव चित्तविस्तार इत्यन्ये। सुखविशेष एवचमत्कार इत्यपरे। चमत्कारत्वञ्च आह्लादगतो जाति-विशेषः यथाह रसगङ्गाधरे
“रमणीयार्थप्रतिपादकःशब्दः काव्यं रमणोयता च लोकोत्तराह्लादजनकज्ञान-गोचरता लोकोत्तरत्वञ्च आह्लादगतश्चमत्कारत्वापरपर्य्या-योऽनुभवसाक्षिकोजातिविशेषः” इति।
“इत्थं च चमत्-कारजनकभावनाविषयार्थप्रतिपादक शब्दत्वं यत्प्रतिपा-द्यार्थविषयकभावनात्व चमत्कार जनकतावच्छेदकं तत्त्वं,स्वविशिष्टजनकतावच्छेदकार्थ प्रतिपादकतासंसर्गेण चम-त्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्” इति च। कर्त्तरि अण्।

२ अपामार्गे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमत्कार¦ m. (-रः)
1. Astonishment, surprise.
2. Show, spectacle.
3. Row, riot, festive or angry turbulence.
4. Elaborate style or high poeti- cal composition.
5. The name of a tree: see अपामार्ग E. चमत् a sound of surprise, and कार making. चमदित्यव्यक्तं क्रियते कृभावे घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमत्कार/ चमत्--कार m. astonishment , surprise Katha1s. xxii , 257 Prab. etc.

चमत्कार/ चमत्--कार m. show , spectacle W.

चमत्कार/ चमत्--कार m. riot , festive turbulence W.

चमत्कार/ चमत्--कार m. high poetical composition W.

चमत्कार/ चमत्--कार m. Achyranthes aspera L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAMATKĀRA : (See PATTU).


_______________________________
*6th word in left half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चमत्कार&oldid=429460" इत्यस्माद् प्रतिप्राप्तम्