चमसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमसः, पुं, क्ली, (चम्यते भक्ष्यते पीयते इति यावत् सोमोऽस्मिन्निति । चमु भक्षणे + “अत्यवि- चमीति ।” उणां । ३ । ११७ । इति असच् ।) यज्ञपात्रभेदः । इति मेदिनी । से, २१ ॥ चमच्- इति भाषा ॥ (एतल्लक्षणादिकमुक्तं यथा, -- “चमसानां तु वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः । त्र्यङ्गुलस्तु भवेत् स्कन्धो विस्तारश्चतुरङ्गुलः ॥ विकङ्कतमयाः श्लक्ष्णार्वाग्विलाश्चमसाः स्मृताः । अन्येभ्यो वापि वा कार्य्यास्तेषां दण्डेषु लक्षणम् ॥ होतुर्मण्डल एव स्यात् ब्रह्मणश्चतुरस्रकः । उद्गातणाञ्च त्र्यस्रिः स्याद् याजमानः पृथुः स्मृतः ॥ प्रशास्तुरवतष्टः स्यादुत्तोष्टो ब्रह्मशंसिनः । पोतुरग्रे विशाखी स्यान्नेष्टुः स्याद्विगृहीतकः ॥ अच्छावाकस्य रास्नाव आग्नीध्रस्य मयूखकः । इत्येते चमसाः प्रोक्ता ऋत्विजां यज्ञकर्म्मणि । पलाशाद्बा वटाद्बान्यवृक्षाद्बा चमसाः स्मृताः ॥”)

चमसः, पुं, (चम्यते भक्ष्यते इति । चम + असच् ।) पर्पटः । पिष्टभेदः । लड्डुकः । इत्यजयपालः ॥ (ऋषभदेवस्य पुत्त्राणामन्यतमः । यथा, भाग- वते । ५ । ४ । ११ । “कविर्हविरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ एते भागवतधर्म्मदर्शना नव महाभागवताः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमसः [camasḥ] सम् [sam], सम् [चमत्यस्मिन्, चम्-असच् Tv.]

A vessel (can, ladle &c.) used at sacrifices for drinking the Soma juice; Y.1.183 (also चमसी); इडोदरे चमसाः कर्ण- रन्ध्रे Bhāg.3.13.36.

A cake made of barley, rice &c. -Comp. -अध्वर्युः the priest who manages the drinking vessels. -उद्भेदः, -दनम् N. of place of pilgrimage where the river Sarasvatī is said to have burst forth.

"https://sa.wiktionary.org/w/index.php?title=चमसः&oldid=499520" इत्यस्माद् प्रतिप्राप्तम्