चर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चर, गमने । अदने । आचारे । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) चरति । इति दुर्गादासः ॥
चर, क संशीत्यसंशीत्योः । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् ।) संशीतिः संशयः । असं- शीतिरसंशयः । क, विचारयति यो धर्म्ममिति हलायुधः । चर असंशये । इति प्राञ्चः । केचित्तु संशये इति पठित्वा संशये हि विचा- रणा स्यादित्याहुः । इति दुर्गादासः ॥
चरः, पुं, (चरति स्वपरराष्ट्रस्य शुभाशुभज्ञानाय भ्राम्यतीति । चर + अच् ।) राष्ट्रादेः शुभा- शुभादिज्ञानार्थं राज्ञा सगोपनं नियुक्तः पुरुषः । परतत्त्वज्ञानार्थभ्रमणकर्त्ता । तत्पर्य्यायः । यथार्हवर्णः २ प्रणिधिः ३ अपसर्पः ४ चारः ५ स्पशः ६ गूढपुरुषः ७ । इत्यमरः । २ । ८ । १३ ॥ अपसर्पकः ८ प्रतिष्कः ९ प्रतिष्कसः १० गुप्त- गतिः ११ मन्त्रगूढः १२ हितप्रणीः १३ । इति शब्दरत्नावली ॥ उदास्थितः १४ । इति जटा- धरः ॥ तत्राद्यौ भिक्षुबणिगादिवेशेन नित्य- स्थायिनि चरे । पञ्च स्वदेशपरदेशभ्रमणशीले इत्यन्ये । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, -- “विवस्वानिव तेजोभिर्नभस्वानिव वेगतः । राजा चरैर्ज्जगत् सर्व्वं प्राप्नुयाल्लोकसम्मतैः ॥ तर्केङ्गितज्ञः स्मृतिमान् स्वीयभावाप्रकाशकः । क्लेशायाससहो दक्षः सर्व्वत्र भयवर्जितः ॥ सुभक्तो राजसु तथा कार्य्याणां प्रतिपत्तिमान् । नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः ॥ कालज्ञो मन्त्रकुशलान् संवत्सरचिकित्सकान् । तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः ॥ अक्रुद्धांश्च तथालुब्धान् दृष्टार्थान् तत्त्वभाषिणः । पाषण्डिनस्तापसादीन् परराष्ट्रे नियोजयेत् ॥ स्वदेशपरदेशज्ञान् सुशीलान् सुविचक्षणान् । वार्त्ताहर्य्यान् बहूंश्चैव चराणां विनियोजयेत् ॥ नैकस्य वचने राजा चारस्य प्रत्ययं वहेत् । द्वयोः सम्बन्धमाज्ञाय तद्युक्तं कार्य्यमारभेत् ॥ तस्माद्राजा प्रयुञ्जीत चरान् बहुमुखान् बहून् । नीरेतोवामनाः कुब्जास्तद्बिधा ये च कारवः ॥ भिक्षुक्यश्चारणा दास्यो मालाकार्य्यः कलाविदः । अन्तःपुरगतां वार्त्तां निर्हरेयुरलक्षिताम् ॥ प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधो मतः । अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः ॥” इति भोजराजकृतयुक्तिकल्पतरुः ॥ * ॥ अक्षद्यूतभेदः । भौमः । चलः । इति मेदिनी । रे, ३० ॥ खञ्जनपक्षी । इति शब्दमाला ॥ कपर्द्दकः । इति राजनिर्घण्टः ॥ मेषकर्कटतुला- मकरलग्नानि । इति ज्योतिषम् ॥ अस्थिर- विभूतिमित्रं चलमटनं स्खलितनियममपि चरभे । इति दीपिका ॥ (यथा, तिथितत्त्वे । “चरलग्ने चरांशे वा स्थापनञ्च विसर्ज्जनम् ॥” जङ्गमे, त्रि । यथा मनुः । ७ । १५ । “तस्य सर्व्वाणि भूतानि स्थावराणि चराणिच ॥” तथाच चरके सूत्रस्थाने २७ अध्याये । “चरः शरीरावयवाः स्वभावो धातवः क्रिया । लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ॥ चरोऽनूपजलाकाशधन्वाद्यो भक्षसंविधिः । जलजानूपजाश्चैव जलानूपचराश्च ये ॥ गुरुभक्ष्याश्च ये सत्त्वाः सर्व्वेते गुरवः स्मृताः ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चर पुं।
चारपुरुषः
समानार्थक:यथार्हवर्ण,प्रणिधि,अपसर्प,चर,स्पश,चार,गूढपुरुष,पेशल
2।8।13।1।4
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ॥
स्वामी : राजा
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
चर वि।
चरम्
समानार्थक:चरिष्णु,जङ्गम,चर,त्रस,इङ्ग,चराचर,जगत्
3।1।74।1।3
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चर¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। चरति अचारीत्। चचार चेरतुः।
“दिवा चरेयुः कार्य्यार्थं चिह्निताराजशासनैः” मनुः।
“चेरतुः खरदूषणौ” भट्टिः
“हंसं तनौसन्निहितं चरन्तम्” नैष॰। चरः चारः चरणम्चरितं चरित्रम्। चरन् चंचूर्य्यते
“ततश्चंचूर्य्यमाणा-सौ” भट्टिः। यङ्लुकि चंचुरीति चंचूर्त्ति। अति + अतिक्रंम्य गमने
“अतिचेरुर्वक्रगत्या युयुधुश्च पर-स्परम्” भाग॰
३ ।
१७ ।
१४ ।
“अयोगतश्चात्यचरत् योगंदिवि निशाकरः” हरिवं॰
२३
६ अ॰।
“पुत्राः पितॄनत्य-चरन्नार्य्यश्चात्यचरन् पतीन्” भा॰ शा॰
८३
८७ श्लो॰। अतिचारशब्दोक्तेऽर्थे अतिचारशब्दे
९९ पृ॰ दृश्यम्। वि + अति व्यतिक्रमे
“त्वामहं न व्यतिचरे मनसाऽपि कदा-चन” रामा॰ ल॰
१०
१ । अधि + आधिक्येन चरणे।
“यामुपरिष्टादधिचरसि” शत॰
१ ।
९ ।
१ ।
८ । अनु + अनुगमने पश्चाद्गमने सादृश्यकरणे। अनुचरः। अप + अपकारे अनिष्टसम्पादने।
“योयस्तेषामपचरेत् तमाचक्षीत वै द्विजः” भा॰ शा॰
९५
८६ ।
“पितृदेवर्षि-भृत्याश्च न चापचरिता मया” मार्क॰ पु॰। अभि + आभिमुख्येन चरणे अतिक्रमे व्यभिचारे च
“पतिंया नाभिचरति मनोवाग्देहसंयता” मनुः
“यथैवाहंनाभिचरे कदाचित” भा॰ वि॰
४५
७ अ॰। अनिष्टसम्पादने
“श्येनेनाभिचरन् यजेत” श्रुतिः। अभिचारश्च[Page2897-b+ 38] मारणोच्चाटनादीनि षट्कर्म्माणि
“प्रति तमभि-चर योऽस्मान् द्वेष्टि” अथ॰
२ ।
११ ।
३ । अभिचारशब्देदृश्यम्। वि + अभि + विशेषेण अतिक्रमे। यस्य यथात्वमुचितं तस्यतदतिक्रमे।
“उम्राणां व्यभिचरतीव सप्तसप्तौ” किरा॰।
“व्यभिचचार न तापकरोऽनलः” नैष॰। हेतोः साध्या-भाववद्वृत्तित्वं, साध्यस्य च हेतुसमानाधिकरणाभाबप्रतियोगित्वं व्यभिचारः।
“न तावदव्यभिचरितत्वंतद्धि न साध्याभाववदवृत्तित्वम्” अनुमानचिन्ता॰। स्त्री-णाञ्च पतिमतिक्रम अन्यपुंसि गमनं व्यभिचारः। अव + समन्तात् चरणे।
“कषायं अवचारितम्”।
“कफ-वातज्वरं हन्याच्छीघ्रं कालेऽवचारितम्”
“प्रमार्जनंधावनञ्च वीक्ष्य वीक्ष्यावचारयेत्”
“दूर्व्वां पुनर्णवाञ्चैवलेपे साध्ववचारयेत्” इति च सुश्रु॰। आ + अनुष्ठने।
“प्रस्थितायां प्रतिष्ठेथा स्थितायां स्थिति-माचरेः” रघुः।
“यद्यदाचरति श्रेष्ठः” गीता। प्रति-पाल्यत्वादिना सदृशीकरणे च
“संप्राप्ते षोडशे वर्षेपुत्रं मित्रवदाचरेत्” चाण॰। अधि + आ + आधिक्येनाचरणे
“शय्यासनेऽध्याचरिते श्रेयसान समाविशेत्” मनुः। अनु + आ + अनुगमने तुल्यरूपानुष्ठाने
“कोनु तत्कर्म्म रा-जर्षेर्नाभेरन्वाचरेत् पुमान्” भाग॰
४ ।
५ ।
७ । सम्--उद् + आ सम्यगाचरणे।
“बालानपि च मार्गस्थान्सान्त्रेन समुदाचरेत्” भा॰ शा॰
३३ अ॰। उप + आ + उपासने।
“उपाचरति तत्रस्म धनानामीश्वरम्प्रभुम्” भा॰ स॰
१० अ॰। सम् + आ + सम्यगाचारे।
“त्वया पापानि घोराणि समा-चीर्णानि पाण्डुषु” भा॰ क॰
३१ अ॰। उपधातैत्त्वम्।
“उच्छिष्टान्ननिषेकञ्च दूरादेव समाचरेत्” मनुः। उद् + उल्लङ्घ्य गतौ सक॰ आत्म॰। धर्म्ममुच्चरते
“धर्म्म-मुल्लङ्घ्य गच्छतीति” सि॰ कौ॰। उपरिष्टाद्गतौ अक॰प॰। वाष्प उच्चरति
“उपरिष्टाद्गच्छति” सि॰ कौ॰।
“सौदामनीमुच्चरन्तीं यथैव” भा॰ व॰
११
३ क॰।
“क्षीवा-वृन्दैरुदचरत्” भट्टिः
“दिव्यस्तूर्य्यध्वनिरुदचरत् व्यश्नु-वानोदिगन्तान्” रघुः। कण्ठताल्वाद्यभिघातेन उत्पा-दने
“सकृतच्चरितः शब्दः सकृदर्थं गमयतीति न्यायः।
“अन्यदा जगति राम इत्ययं शब्द उच्चरित एव माम-गात्” रघुः। [Page2898-a+ 38] वि + उद् + विशेषेण उत्थितौ।
“यथाऽग्नेः क्षुद्राविस्फुलिङ्गाव्युच्चरन्ति” शत॰ व्रा॰
४ ।
५ ।
१ ।
२३ । सम् + उद् + सम्यगुत्थितौ।
“समुच्चरन्त्यस्मादापः” निरु॰
६ ।
११ उप + उपासने
“गिरिशमुपचचार प्रत्यहं सा सुकेशी” कुमा॰। अन्यथास्थितस्य वस्तुनोऽन्यथात्वप्रतिपादनरूपे शब्दादि-व्यापारभेदे उपचारश्च लक्षणा छलं वा।
“यथा लोकेस्वशक्तिषु योधेषु वर्तमानौ जयपराजथौ राज्ञि उप-चर्य्येते” सा॰ द॰।
“तेनोपचर्य्यते राहुः”।
“याम्यो-त्तरा शशिगतिर्गणितेऽप्यु पचर्य्यते तेन” वृ॰ स॰
५ ।
१५ । दुस् + दुष्टाचरणे।
“कामवक्तव्यहृदया भर्त्तारं दुश्चरन्ति याः” रामा॰ आर॰
२ ।
२५ । निस् + निर्गमने
“इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः” हरिव॰
२२ अ॰।
“यतोयतोनिश्चरति मनश्चञ्चलमस्थि-रम्” गीता। परि + परितोगमने
“कङ्का श्येनास्तथा गृध्रा नीचैः परि-चरन्ति च” रामा॰ ल॰
१६ ।
११ । परितः सेवने
“गात्र-संवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु कालेषुदितिं परिचचार ह” रामा॰ बा॰
४६ अ॰
११ ।
“आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः” रा॰अयो॰
३५ ।
१४ । परिचर्य्या परिचारकः। प्र + प्रकाशेन गतौ।
“प्राणः प्रालीयत ततः पुनश्च प्रचचारह” भा॰ आश्व॰
२३ अ॰। प्रकर्षेण चरणे च।
“यैः कर्ममिःप्रचरितैः शुश्रूष्यन्ते द्विजातयः” मनुः। प्रचारः। सम् + प्र + सम्यग् प्रकाशके।
“अद्य प्रभृति चैवेह लोके संप्र-चरिष्यति” भा॰ आनु॰
९६ अ॰। वि + विशेषण गतौ
“विचरन्ति महीपाला यात्रार्थं विजि-गीषवः” रामा॰ आर॰
२२ ।
७ ।
“ततोद्रौणिर्महावीर्य्यःपार्थस्य विचरिष्यतः” भा॰ वि॰
५९ अ॰।
“रात्रौ नविचरेयुस्ते ग्रामेषु नगरेषु च”
“इन्द्रियाणां विच-रतां विषयेष्वपहारिषु” मनुः। वि + चु॰ चरपर्य्यालोचनया निर्णये।
“आयतिं सर्वकार्य्याणां तदा-त्वञ्च विचारयेत्” मनुः।
“मित्रामित्रं विचारयेत्” भा॰ पा॰
३८
२६ ।
“विचारदृक्चारदृगप्यवर्त्तत”
“भविता न विचारचारु चेत्” नैष॰। सम् + सम्यग्गतौ
“नैव वाताः प्रतायन्ते न मेघाः सञ्चरन्तिच” हरिव॰
१०
७५
८ ।
“आमेखलं सञ्चरतां घना-नाम्” कुमा॰
“सञ्चारोरतिमन्दिवावधि” रतिमञ्जरीकरणविभक्तिसहकारे आत्म॰।
“रथेन सञ्चरते” सि॰[Page2898-b+ 38] कौ॰।
“पद्भ्यां नृपः सञ्चरमाण एव” नैष॰।
चर¦ संशये असंशये च चुरा॰ उभ॰ सक॰ सेट्। चारयतितेअचीचरत् त विचारयति विचारणा विचारितः
चर¦ पु॰ चर--अच्। स्वपरराष्ट्रवृत्तान्तज्ञानार्थं राजनियोगेनइतस्ततो भ्रमणकर्त्तरि चारे
१ प्रणिधौ, अमरः
२ कप-र्द्दके, राजनि॰। ज्योतिषोक्तेषु
३ मेषकर्कटतुलामकर-राशिषु
४ स्वातिपुनर्वसुश्रवणादित्रिकरूपे नक्षत्रभेदे
५ भौमवारे
६ अक्षद्यूतभेदे।
७ चले अनवस्थिते त्रि॰ मेदि॰।
८ खञ्जनखगे पुंस्त्री शब्दमा॰। चरलक्षणादिकमुक्तंयुक्तिकल्पतरौ
“विवस्वानिव तेजोभिर्नभस्वानिव वेगतः। राजा चरैर्ज्जगत् सर्वं प्राप्नुयाल्लोकसन्मतैः। तर्केङ्गितज्ञःस्मृतिमान् स्वीयभावप्रकाशकः। क्लोशायाससहो दक्षःसर्वत्र भयबर्जितः। सुभक्तो राजसु तथा कार्य्याणांप्रतिपत्तिमान्। नृपोनिहन्याच्चारेण परराष्ट्रं विच-क्षणः। कालज्ञो मन्त्रकुशलान् सांवत्सरचिकित्सकान्। तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः। अक्रुद्धांश्चतथाऽलुब्धान् दृष्टार्थान् तथ्यभाषिणः। पाषण्डिनस्तापसादीन् परराष्ट्रे नियोजयेत्। स्वदेशपरदेशज्ञान् सुशीलान् सुविचक्षणान्। वार्त्ताहर्य्याण् बहूंश्चैवचराणां विनियोजयेत्। नैकस्य वचने राजा चारस्यप्रत्ययं वहेत्। द्वयोः संवादमाज्ञाय यद्युक्तं कार्य्यमार-भेत्। तस्माद्राजा प्रयुञ्जीत चरान् वहुमुखान बहून्। नीरेतोवामनाः कुब्जास्तद्विधा ये च कारवः। भिक्षुक्यश्चारणा दास्यो मालाकार्य्यः कलाविदः। अन्तःपुरगतांवार्त्तां निर्हरेयुरलक्षिताम्। प्रकाशश्चाप्रकाशश्च चरस्तुद्विविधो मतः। अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः”।
“शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये। ते गुह्यचाराःकर्त्तव्याः यथार्थश्रुतबोधकाः” शुक्रखिलनीतिशा॰।
“चरस्थिरद्व्यात्मकनामधेयामेषादयोऽमी क्रमशस्त्रिधा स्युः” ज्यो॰ त॰।
“वातादित्यहरित्रयं चरगणः” ज्यो॰ त॰
१५ ।
१३ ।
२२ ।
२३ ।
२४ संख्यकनक्षत्राणि चराणि।
“येऽनेनलङ्कोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः। देशा-न्तरं प्रागपरं तथान्यद् याम्योत्तरं तच्चरसंज्ञमुक्तम्” सि॰ शि॰
“यौदयान्तरकर्मणा लङ्कायामौदयिका ग्रहाजातास्ते देशान्तरकर्मणा स्वपुरौदयिकाः स्युः। तच्चदेशान्तरं द्विविधम्। एकं पूर्वापरमन्यद्याम्योत्तरम्। तच्चरसंज्ञसुक्तम्” प्रमि॰ उक्ते याम्योत्तरादौ देशान्तरे। चरानयनप्रकारादि सू॰ सि॰ र नारथाभ्यां दर्शितं यथा। [Page2899-a+ 38]
“अथ दिनरात्रिमानज्ञानार्थं चरानयनं विवक्षुः प्रथमंतदुपयुक्तां स्पष्टक्रान्तिमाह” र॰ ना॰
“विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता। दिग्भेदे वियुतास्पष्टा भास्करस्य यथागता” सू॰
“यस्य ग्रहस्य स्पष्टक्रान्तिरभीष्टा तस्य ग्रहस्यायनांशसंस्कृ-तस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रान्तिरयनांशसं-स्कृतग्रहगोलदिक्वा ज्ञेया। तस्य विक्षेपोऽपि पूर्वोक्तप्रकारेणपातोनगोलदिक्को ज्ञेयः। गोलस्तु मेषादिषट्कमुत्तर-स्तुलादिषट्कं दक्षिणः। अथ शरक्रान्त्योरेकदिक्त्वेनक्रान्तिः कलाद्या कलात्मकविक्षेपेण युता तयोर्दिगन्यत्वेक्रान्तिर्व्विक्षेपेण वियुतान्तरिता शेषदिक्वा स्पष्टा क्रान्तिःस्यात्। ननु सूर्य्यस्य विक्षेपाभावात् कथं स्पष्टा क्रान्ति-र्ज्ञेयेत्यत आह भास्करस्येति। सूर्य्यस्य यथागतापूर्वागता क्रान्तिरेव स्पष्टा क्रान्तिः। अत्रोपपत्तिः। विषुवद्वृत्ताद्ग्रहविम्बकेन्द्रपर्य्यन्तं याम्यमुत्तरं वान्तरंस्पष्टक्रान्तिरिति तयोरेकदिक्त्वे तद्योगतुल्यमन्तरं, भिन्न-दिक्त्वे तदन्तरमितमन्तरमिति। अत्र शरस्य क्रान्ति-संस्कारयोग्यत्वसम्पादिका क्रिया लोकश्रमभयात् स्वल्पा-न्तरत्वाच्चोपेक्षिता भगवता कृपावता। अन्यथा शरस्यध्रुवाभिमुखत्वे मगवदुक्तमायनदृक्वर्म्म कथमव्याहतं स्या-दित्यलम्। अथ दिनरात्रिमानज्ञानार्थमहोरात्रासून्साधयति” र॰ ना॰।
“ग्रहोदयप्राणहता खखाष्ट कोद्धृता गतिः। चक्रासवोलब्धयुताः स्राहोरात्रासवः स्मृताः” सू॰।
“ग्रहस्य येऽयनांशसंस्कृतराशेर्वक्ष्यमाणनिरक्षोदयासव-स्तैर्गुणिता निजस्फुटगतिः कलाद्यष्टादशशतभक्ता फलेनयुताश्चक्रासवः षष्टिघटिकानामसवः षट्शतयुतैकविंशति-सहस्रमिताः स्वस्वग्रहस्याहोरात्रासवः कालतत्त्वज्ञैःकथिताः। अत्रोपपत्तिः। ग्रहः पूर्व्वगत्या लम्बितःप्रवहेण गतिभोगकालेन भचक्रपरिवर्तानन्तरमुदेत्यतोभचक्रपरिवर्तकालः षष्टिघटिकासुमितो ग्रहगतिकलास-म्बद्धास्वात्मककालेनाधिको ग्रहाहोरात्रमस्वात्मकं नाक्षत्र-प्रमाणेन भवति। तत्रैकराशिकलाभिर्यदि ग्रहसम्बद्ध-राश्युदयप्राणास्तदा गतिकलाभिः क इत्यनुपातेन गत्यसवइत्युपपन्नं ग्रहोदयेत्यादि। अनेनैव श्लोकेन ग्रहाणा-मुदयान्तरकर्म्मापीत्युक्तं भगवता। तथाहि। अनु-पातानीतमध्यग्रहाणां नियताहोरात्रमानान्तरकालेग्रहाणां सिद्धिः रविमध्यगत्यसूनां प्रतिराशौ भिन्न-[Page2899-b+ 38] त्वेन मध्यमसूर्य्याहोरात्रमानस्य नियतत्वाभावादतस्त्रे-राशिकावगतग्रहा अनियतमध्यार्काहोरात्रकालान्तरेणार्ध॰रात्रे यत्संस्कारेण भवन्ति तदेवोदयान्तरं तत्साधनंभगवता स्रल्पान्तरत्वादुपेक्षितम्। कथमन्यथा गतिकलासूनां समत्वमुपेक्ष्य गतिकलानामसवो भगवदुक्ताःसङ्गच्छन्ते उदयान्तरस्य गतिकलासुभेदोत्पन्नत्वात्। अथ चरोपयुक्तां क्रान्तिज्यां द्युज्यां चाह” र॰ ना॰।
“क्रान्तेः क्रमोत्क्रमज्ये द्वे कृत्या तत्रोत्क्रमज्यया। हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्” सू॰।
“स्पष्टक्रान्तेः क्रमोत्क्रमज्ये क्रमज्योत्क्रमज्ये द्वे अपिप्रसाध्य तत्र तन्मध्ये क्रान्त्युत्क्रमज्यया त्रिज्या हीनादिनव्यासदलमहोरात्रवृत्तस्य व्यासार्धं द्युज्येत्यर्थः। त-द्दिनव्यासार्धं दक्षिणोत्तरं दक्षिणगोल उत्तरगोले चस्यात् क्रान्तेर्गोलद्वयेऽपि सत्त्वात्। अपरा क्रान्ति-ज्यैव। अत्रोपपत्तिः। क्रान्त्यंशानां क्रमज्या क्रान्ति-ज्या भुजो विषुवद्वृत्तानुकाराण्यहोरात्रवृत्तान्युभय-गोले तदुभयतस्तद्व्यासार्धं द्युज्या कोटिस्त्रिज्या कर्णइति गोले प्रत्यक्षम्। त्रिज्यावृत्त उन्मण्डले याम्योत्तरवृत्तेबा प्रत्यक्षम्। तत्र भुजकर्णयोर्वर्गान्तरपदं कोटिरितिक्रान्तिज्यावर्गोनात्त्रिज्यावर्गान्मूलं द्युज्या। तत्रापिमुजोत्क्रमज्यया हीना त्रिज्या कोटिक्रमज्या स्यादितिवृत्ते प्रत्यक्षदर्शनात् क्रान्त्युत्क्रमज्ययोना त्रिज्या द्युज्यास्यादिति लाघवेन वर्गमूलनिरासेनोक्तं भगवता क्रान्ते-रित्यादि। अथ चरानयनपूर्वकदिनरात्रिमानसाधनंश्लोकत्रयेणाह” र॰ ना॰
“क्रान्तिज्या विषुवद्भाघ्री क्षितिज्या द्वादशोद्धृता। त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः। तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक्स्थिते। स्वाहो-रात्रचतुर्भागे दिनरात्रिदले स्मृते। याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे। विक्षेपयुक्तो-नितया क्रान्त्या भानामपि स्वके” सू॰।
“क्रान्तिज्या विषुवद्गिनीयमध्याह्ने द्वादशाङ्गुलशङ्कोश्छा-यथा गुण्या द्वादशभक्ता फलं कुज्या स्यात्। सा त्रि-ज्यया गुणिताहोरात्रार्धकर्णाप्नाहोरात्रवृत्तस्यार्धकर्णेनव्यासदलेन द्युज्यया भक्ता फलं चरजा ज्या चरज्ये-त्यर्थः। अस्याश्चरज्याया धनुरसवश्चरासवो भवन्ति। स्वाहोरात्रचतुर्भागे स्वस्य चरसम्बन्धिनो ग्रहस्य प्रागुक्ता-होरात्रासवस्तेषां चतुर्थांशे पृथक्स्थिते स्थानद्वयस्थे सत्व-[Page2900-a+ 38] रक्रान्तौ सत्यां चरासू धनहानी युतहीनौ कार्यौ तौक्रमेण दिनरात्रिदले दिनार्धरात्र्यर्धे कालविद्भिरुक्ते। दक्षिणक्रान्तौ सत्यां विपर्यस्ते दिनरात्रिदले यत्र हीनंतद्दिनार्धं, यत्र युतं तद्रात्र्यर्धमित्यर्थः। तुकारात् तेदिनरात्र्यर्धे द्विगुणे दिनक्षपे दिनमानरात्रिमाने ग्रहस्यस्वः। उक्तरीत्या नक्षत्राणामपि दिनरात्रिमाने साध्येइत्याह। विक्षेपेत्यादि। नक्षत्रध्रुवाणामानीतयाक्रान्त्या नक्षत्रविक्षेपेणैकभिन्नदिक्क्रमेण युक्तयान्तरित-योक्तप्रकारेण सिद्धया स्वके नक्षत्रदिनरात्रिमाने साध्येइत्यर्थः। अत्रोपपत्तिः। द्वादशाङ्गुलशङ्कुः कोटिःफलभा भुजोऽक्षकर्णः कर्णः, क्रान्तिज्या कोटिः, कुज्याभुजोऽग्रा कर्ण इत्यक्षक्षेत्रद्वयं प्रसिद्धम्। तत्र यदि द्वादश-कोटौ फलभा भुजः, तदाक्रान्तिज्याकोटौ को भुज इ-त्यनुपातेन कुज्या। तत्स्वरूपं तु निरक्षदेशक्षितिजस्वदेश-क्षितिजान्तरालस्थिताहोरात्रवृत्तप्रदेशस्य द्युज्याप्रमाणेनज्येति त्रिज्याप्रमाणेन तज्ज्या चरज्येति द्युज्याप्रमा-णेन कुज्या त्रिज्याप्रमाणेन केत्यनुपातेन चरज्या तद्ध-नुश्चरासवोऽहोरात्रवृत्तखण्डप्रदेशे निरक्षस्वक्षितिजान्त-राल उत्तरगोले स्वक्षितिजस्य निरक्षक्षितिजादधःस्थत्वा-न्निरक्षक्षितिजयाम्योत्तरवृत्तान्तरालेऽहोरात्रवृत्तचतुर्थांश-त्वादहोरात्रासुचतुर्थांशे चरासवो युता दिनार्धं हीनारात्र्यर्धं दक्षिणगोले स्वक्षितिजस्य निरक्षक्षितिजादूर्ध्व-स्थत्वाद्धीना दिनार्धं, युता रात्र्यर्द्धमित्युपपन्नं सर्वंक्रान्तिज्येत्यादि”। तत्र प्रणिधौ।
“राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव” माघः।
“तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु तच्चरैः” मनुः। चले
“तस्य सर्वाणि भूतानि स्थावराणि चराणि च
“देवेभ्यश्च जगत्सर्वं चरं स्थाण्वनुपूर्वशः” मनुः। सुपिकर्म्मण्युप्रपदे
“चरेष्टः” पा॰ ट चरणकर्त्तरि त्रि॰। भूचरःखचरः।
“शठोमिथ्याविनीतश्च वकव्रतचरोद्विजः” मनुः। मेषादौ
“चरलग्ने चरांशे वा स्थापनं चविसर्ज्जनम्” ति॰ त॰। स्वार्थे अण्। चार प्रणिधौ
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चर¦ r. 1st cl. (चरति)
1. To go.
2. To eat.
3. To behave or act, (in this sense आङ् is usually prefixed;) With अति, and आङ् prefixed, To transgress, to go astray. With अभि,
1. To deceive, to betray.
2. To conjure.
3. To attend. With अनु,
1. To follow, to attend.
2. To imitate. With आङ् To practise. a duty. With उत्, (उच्चरते)
1. To [Page263-a+ 60] transgress.
2. To expel.
3. (उच्चरति) To go up, to rise. With उप,
1. To approach.
2. To worship With परि, To serve. With प्र,
1. To prevail as a custom.
2. To declare, to manifest. With वि and अभि, To go astray, to act wickedly. With सम् (सञ्चरते)
1. To ride upon.
2. (सञ्चरति) To accompany. With सम् and आङ्
1. To perform.
2. To announce. r. 10th cl. (चारयति)
1. To doubt
2. To be free from doubt. With वि prefixed, To discuss, to dispute, to reason upon or respecting any doubtful points. भ्वा-पर-सक-सेट् | चु-उभ-सक-सेट् |
चर¦ mfn. (-रः-रा or -री-रं)
1. Moveable, locomotive.
2. Trembling, shak- ing, unsteady. m. (-रः)
1. A spy, a secret emissary or agent.
2. The planet Mars.
3. A game played with dice and men, similar to backgammon.
4. A wagtail.
5. A cowri.
6. The seventh Karana, (in Astrology.)
7. The Karanas collectively. f. (-री) A young wo- man. E. चर् to go, affix अच् or टच् and in the latter case the fem. affix is ङीप्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चर [cara], a. (-री f.) [चर्-अच्]
Moving, going, walking, grazing &c.; धर्मारण्यचरेषु प्राणिषु Ś.5.9.
Following, practising (at the end of comp.).
Trembling, shaking.
Movable; see चराचर below; Ms.3.21; Bg. 13.15.
Animate; Ms.5.29;7.15.
(Used as an affix) formerly, late; आढ्यचर 'one who was formerly rich' so देवदत्तचर, अध्यापकचर late teacher &c.
रः A spy.
A wagtail.
A game played with dice and men.
A cowrie.
The planet Mars.
(Hence) Tuesday.
The seventh Karaṇa in astrology.
The Karaṇas taken collectively.
The difference of time between two meridians.
The first, fourth, seventh, and tenth signs of the zodiac.
The wind; क्वाहं तमो- महदहंखचराग्निवार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः Bhāg.1.14.11.-Comp. -अचर a.
movable and immovable; चरा- चराणां भूतानां कुक्षिराधारतां गतः Ku.6.67;2.5; Bg.11.43.
wished, desired.
shaking, trembling.
रम् the aggregate of all created things, the world; Ms.1.57, 63;3.75; Bg.11.7;9.1.
the sky, the atmosphere.
heaven. (-री) a young woman. -गृहम् the zodiacs of मेष, कर्क, तुला and मकर. -द्रव्यम् movables, goods and chattels. -पुष्टः a mediator. -भम्, -भवनम् a varying sign of the zodiac; i. e. the first, fourth, seventh and tenth. -मूर्तिः f. an idol which is carried about in procession.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चर mfn. ( g. पचा-दि)moving , locomotive (as animals opposed to plants , or as the करणs in astrol. ) VPra1t. S3vetUp. iii , 18 Mn. vii , 15 MBh. etc.
चर mfn. (= संचारिन्)forming the retinue of any one BhP. iv , 29 , 23
चर mfn. movable , shaking , unsteady W.
चर mfn. ifc. going , walking , wandering , being , living , practising( e.g. अधश्-, अन्त-, अन्तरिक्ष-, अप्-, आदाय-, उदके-, etc. ; See. Pa1n2. 3-2 , 16 )
चर mf( ई)n. ifc. ( Pa1n2. 5-3 , 53 f. ; vi , 3 , 35 f. )having been formerly( e.g. आढ्य-, देवदत्त-, qq. vv. ; अ-दृष्ट-or नदृष्ट-, " not seen before " Katha1s. [once f. irr. आ, lx , 58 ] Sarvad. iii , 16 ; vii , 19 ; अन्-आलोकित-id. Ba1lar. iv , 54/55 )
चर m. a spy , secret emissary or agent Mn. vii , 122 Hariv. 10316 R. etc.
चर m. = चरटL.
चर m. the small shell Cypraea moneta L.
चर m. the wind , air BhP. x , 14 , 11
चर m. the planet Mars L.
चर m. a game played with dice (similar to backgammon) L.
चर m. a cowrie W.
चर m. " passage "See. अ-, दुश्-
चर n. (in astron. ) ascensional difference Gol. vii
चर n. (in music) N. of a मूर्छना
चर n. = दिगम्बरप्रसिद्धाg. गौरा-दि
चर n. also ifc. See. अनु-and सहचरी.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of Devajani, a यक्ष. Br. III. 7. १२८.