चर्म्मकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्म्मकारः, पुं, (चर्म्म चर्म्मनिर्म्मितद्रव्यादिकं करोतीति । कृ + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) वर्णसङ्करजातिविशेषः । चामार इति मुचि इति च भाषा ॥ स तु चण्डाल्यां तीवरा- ज्जातः । इति पराशरपद्धतिः ॥ तत्पर्य्यायः । पादू- कृत् २ । इत्यमरः । २ । १ । ७ ॥ पादुकृत् ३ चर्म्मारः ४ । इति तट्टीका ॥ चर्म्मकृत् ५ पादुकाकारः ६ । इति हलायुधः ॥ चर्म्मरुः ७ कुरटः ८ । इति त्रिकाण्डशेषः ॥ (यथां, मनुः । १० । ३६ । “कारावरो निषादात्तु चर्म्मकारः प्रसूयते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्म्मकार¦ त्रि॰ चर्म्म तन्निर्म्मितं पादुकादि करोति कृ--अण्उप॰ स॰।

१ पादुकादिकारके
“चाण्डाल्यां तीव-[Page2903-a+ 38] राज्जातश्चर्म्मकार इति स्मतः” पराशरोक्ते,

२ सङ्कीर्ण्ण-जातिभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष्।
“चर्म्म-कारस्य द्वौ पुत्रौ गणकोवाद्यपूरकः”।
“मनुना तु वैदेह्यांनिषादाज्जातस्य कारावराख्यचर्म्मकारसंज्ञोक्ता यथा
“कारावरो निषादात्तु चर्म्मकारः प्रसूयते” उत्तरत्रवैदेह्यामेवेत्युक्तेः अत्रापि तस्यामेवेत्यन्वयः। उश-नसा तु
“सूताद्विप्रप्रसूतायां सूतोवेणुक उच्यते। नृपायामेव तस्यैव जातोयश्चर्म्मकारकः” इत्युक्तम्। एवञ्च मुनित्रयप्रामाण्यात् त्रिविधैव चर्मकारजातिः।
“धिग्वर्ण्णानां चर्म्म कार्य्यम्” मनुना तेषां वृत्तिरुक्ता। चर्म्मकरोति क्विप् चर्म्मकृदप्यत्र। ण्वुल् चर्म्मकारकतत्रार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्म्मकार¦ mfn. (-रः-रा-रं) The shoe-maker, a currier or worker in leather, the offspring of the Chandala woman by a man of the fisherman caste, or of a Vaideha female by a Nishadha. f. (-री)
1. The plant Char- maghas: see the preceding.
3. The wife of a Chamar. E. चर्म्म skin or leather, and कार who does or makes. चर्म तन्निमित्तं पादुकादि करोति कृ-अण् उपमित समासः |

"https://sa.wiktionary.org/w/index.php?title=चर्म्मकार&oldid=360530" इत्यस्माद् प्रतिप्राप्तम्