चल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल, क भृतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, चालयति । दन्त्यवकारादि- रयमिति दुर्गसिंहजुमरनन्दी । भृतिरिह पोष- णम् । इति दुर्गादासः ॥

चल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ज, चालः चलः । मिच्चले इति वक्ष्यमाणं न पठित्वा इममेव मानुबन्धं भ्रान्ताः पठन्ति तद्धेयम् । तेनास्य चालयति हस्तिनं यन्ता । चलमानोऽनिल इत्यत्र ताच्छील्ये शतुः शानः । मिच्चले । पूर्ब्बेणान्वयः । चलधातुः कम्पने मानुबन्धः स्यादित्यर्थः । म, चलयति लतां वायुः । चलयन् भृङ्गरुचस्तवालकानिति रघुः । चालयन् सकलां पृथ्वीमिति घञन्तात् चालं करोतीति ञौ शत्रन्तम् । इति दुर्गादासः ॥

चल, श विलासे । इति कविकल्पद्रुमः ॥ (तुदां- परं-अकं-सेट् ।) श, चलती चलन्ती । विलासः क्रीडनम् । इति दुर्गादासः ॥

चलम्, त्रि, (चलति गच्छतीति । चल + पचाद्यच् ।) चञ्चलम् । इत्यमरः । ३ । १ । ७४ ॥ (यथा, रघुः । ११ । १५ । “ताडका चलकपालकुण्डला कालिकेव निविडा बलाकिनी ॥” पारदः । इति हेमचन्द्रः । ४ । ११६ ॥ अष्टा- दशाक्षरवृत्तभेदः । यथा, वृत्तरत्नाकरे । “म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः ॥”)

चलः, पुं, (चल + पचाद्यच् ।) कम्पः । तद्युक्ते त्रि । इति मेदिनी । ले, १५ ॥ (शिवः । यथा, महाभारते । १३ । १७ । ११६ । “महाकेतुर्महाधातुर्नैकसानुचरश्चलः ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । ९२ । “वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥” “वायुरूपेण चलः ।” इति भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।74।2।4

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। चलति अचालीत्। चचाल। चेलतुः। चलन् चलितः ज्वलादि॰ चालः पचा॰ चलः।
“कृष्णेन निहते चैद्ये चचाल च वसुन्धरा” भा॰ सा॰

४४ अ॰।
“चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्” चाण॰।
“तिलमात्रमपि चलितुं न शक्नोति” पञ्चत॰। आर्षे आत्म॰।
“न धर्माच्चलते वुद्धिर्धर्मराजस्य धीमतः” भा॰ स॰

७८ अ॰। णिचि। चलयति चालयति।
“चाल-यन् वसुवां चेमां बलेन चतुरङ्गिणा” भा॰ आ॰

९४ अ॰कम्पने अक॰ मिच्च। चलयति ते। अचीचलत्
“चलयन्भृङ्गरुचस्तवालकान्” रघुः
“तां प्राविशत् कपिव्याघ्र-स्तरूनचलयन् शनैः” भट्टिः।
“यूनां मनश्चलयति प्रसभंनभस्वान्” ऋ॰ स॰ गत्यर्थस्य न मित्त्वम्
“मिच्चले” इतिकविकल्पद्रुमे कम्पार्थएव तस्य मित्त्वोक्तेः
“आचालयेयुःशैलांस्ते क्रुद्धाभिन्द्युर्महीतले” हरिव॰

५४ अ॰। पर्वतानाञ्च शिखराण्याचालयति वेगवान्” भा॰ शा॰

१५

४ अ॰। उद् + ऊर्द्ध्वगमने उत्कम्य गतौ
“पुष्पोच्चलितषट्पदम्” रघुःउत्थाय गतौ च।
“उच्चलितः प्रयाताम्” रघुः। वि + विशेषेण चलने।
“व्यचालीदम्भसां पतिः” भट्टिः।

चल¦ विलासे तु॰ प॰ अ॰ सेट्। चलति अचालीत् चचाल।

चल¦ मृतौ पोषणे चु॰ सक॰ उभ॰ सेट्। चालयति तेअचिचलत्।

चल¦ त्रि॰ चल वा पचा॰ अच्।

१ तरले, चञ्चले,

२ कम्ब-युक्ते अमरः।

३ परमेश्वरे पु॰।
“धूताशीरचलश्चलः” विष्णु स॰।
“न स्वरूपान्न सामर्थ्यात् नच ज्ञानादि-कात् गुणात्। चलनं विद्यते यस्मादचलः कीर्त्तितो-ऽच्युतः” स्मृतेः। वायुरूपेण चलतीति चलः” भा॰। कम्पार्थकचलतेः स्वार्थे णिचि भावे अच्।

४ कम्पनेमेदि॰।
“मिच्चले” कविकल्प॰। चलनं च रजसः कार्य्यंयथाह सा॰ का॰
“सत्वं लघु प्रकाशकमिष्टमुपष्टम्मकंचलञ्च रजः”।
“सत्वतमसी स्वयमक्रियतया खखकार्य्यप्रवृत्तिं प्रत्यवसी-दन्ती रजसोपष्टभ्येते अवसादात् प्रच्याव्य स्यकार्य्ये तेउत्साहं प्रयत्नं कार्य्येते। तदिदमुक्तमुपष्टम्भकम्इति। कस्मादित्यत उक्तं चलमिति। तदनेन रजसः[Page2906-b+ 38] प्रवृत्त्यर्थत्वं दर्शितम्। रजस्तु चलत् परितस्त्रैगुण्यैचालयद्गुरुणावृण्वता च तमसा तत्र तत्र प्रवृत्ति-प्रतिबन्धेन क्वचिदेव प्रवर्त्त्यते”। सा॰ त॰ कौ॰।
“म्भौन्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः” वृ॰ र॰ उक्ते अष्टादशाक्षरपादके

५ वर्णवृत्तभेदे न॰
“स वृत्तचूलश्चलकाकपक्षकैः” रघुः।
“यथाम्भसा प्रच-लता तरवोऽपि चला इव” भाग॰

७ ।

१ ।

२३ ।
“न खलुप्रेम चलं सुहृज्जने”
“प्रायश्चलं गौरवमाश्रितेषु” कुमा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल¦ r. 1st. cl. (चलति) To tremble, to shake or totter. r. 6th cl. (चलति) To sport, to play. to frolic or wanton. r. 10th cl. (चालयति-ते) To cherish, to foster, (चालयति चालयते) To shake to cause to shake. With प्र, To fall as from a seat. भ्वा-पर-सक-सेट् | तुदा-पर-अक-सेट् | चुरा-सक-उभ-सेट् |

चल¦ mfn. (-लः-ला-लं) Trembling tremulous, unfixed or unsteady. m. (-लः) Trembling, shaking. f. (-ला)
1. The goddess of fortune, LAKSHMI.
2. Lightning.
3. Incense. E. चल् to go, affix अच् fem. affix टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल [cala], a. [चल्-अच्]

(a) Moving trembling, shaking, tremulous, rolling (as eyes &c.); चलापाङ्गां दृष्टिं स्पृशसि Ś.1.24; चलकाकपक्षकैरमात्यपुत्रैः R.3.28 waving; Bh.1.16. (b) Movable (opp. स्थिर), moving; चले लक्ष्ये Ś.2.5; परिचयं चललक्ष्यनिपातने R.9.49.

Unsteady, fickle, inconstant, loose, unfixed; दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने Ku.4.28; प्रायश्चलं गौरवमाश्रितेषु 3.1.

Frail, transitory, perishable; चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम् Bh.3.128.

Confused.

लः Trembling, shaking, agitation.

Wind.

Quicksilver.

The supreme being.

ला Lakṣmī, the goddess of wealth.

Lightning.

A kind of perfume. -Comp. -अचल a.

movable and immovable.

fickle, unsteady, very transitory (= अतिचल); चलाचले च संसारे धर्म एको हि निश्चलः Bh.3.128; लक्ष्मीमिव चलाचलाम् Ki.11.3 (चलाचला = चञ्चला Malli.); कस्य न भवति चलाचलं धनम् Mk.2.14; N.1.6; चलाचलैरनुपदमाहताः खुरैः Śi. (-लः) a crow. -आतङ्कः rheumatism. -आत्मन्a. inconstant, fickle-minded. -इन्द्रिय a.

sensitive.

sensual. -इषुः one whose arrow flies unsteadily or misses the mark, a bad archer. -कर्णः the true distance of a planet from the earth. -चञ्चुः the Chakora bird. -चित्तa. fickle-minded. -दलः, -पत्रः the Aśvattha tree; बिल्वै- श्चलदलैरपि Parṇāl.4.62; लीलाचलाचलं भाले हैमं चलदलच्छदम् (Mar. पिंपळपान) Śiva. B.6.83. ˚च्छदः An ornament worn on the forehead, having the shape of the leaf of the Aśvattha tree. -सन्धिः movable articulation of the bones.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल mf( आ)n. ( g. पचा-दि)moving , trembling , shaking , loose MBh. etc.

चल mf( आ)n. unsteady , fluctuating , perishable ib.

चल mf( आ)n. disturbed , confused ib.

चल m. " agitation , shaking "See. भूमि-

चल m. wind L.

चल m. wind (in med.) Asht2a7n3g. i , 11 , 1

चल m. quicksilver L.

चल m. a sprout , shoot Gal.

चल n. water Gal.

चल n. incense L.

चल n. the goddess of fortune Katha1s. lx , 119

चल n. a metre of 4 x 18 syllables(See. अ-, निश्-, पुंश्चली, चाल.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मदीरा. वा. ९६. १६९.

"https://sa.wiktionary.org/w/index.php?title=चल&oldid=499537" इत्यस्माद् प्रतिप्राप्तम्