चषक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषकः, पुं, क्ली, (चषति भक्षयति पिबत्यनेनेत्यर्थः । चष + “क्वुन् शिल्पिसंज्ञयोरपूर्ब्बस्यापि ।” उणां । २ । ३२ । इति क्वुन् ।) मद्यपानपात्रम् । तत्- पर्य्यायः । गल्वर्कः २ सरकः ३ अनुतर्षणम् ४ । इति हेमचन्द्रः । ४ । १०२४ ॥ * ॥ अथ चषकोद्देशः । “यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः । कानकं राजतञ्चैव स्फाटिकं काचमेव च ॥ वृत्तं स्वराष्टदिक्कोणं चतुर्णां पृथिवीभुजाम् । इत्यन्यसम्मतं तेषां निर्णयः पाठसम्मतः ॥ स्वमुष्टिसम्मितं रत्नैश्चतुर्व्वर्णैः समन्वितम् । मार्त्तिकं वाथ फालं वा सर्व्वेषामुपयुज्यते ॥ काष्ठजं धातुजं शैलं जाङ्गलादि महीभुजाम् । यदन्यत्तोयपानादि पात्रं पृथ्वीभुजां भवेत् ॥” एवं तत्रापि नियम इति भोजस्य निश्चयः । इति युक्तिकल्पतरुः ॥ * ॥ सुरापात्रम् । मधु । मद्य- प्रभेदः । इति मेदिनी । के, ८६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक पुं-नपुं।

मद्यपात्रम्

समानार्थक:चषक,पानपात्र

2।10।43।1।1

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्. धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक¦ पु॰ न॰ चष--करणे क्वुन् अर्द्धर्चादि।

१ मद्यपानपात्रेअमरः। तल्लक्षणादिकं युक्तिकल्यतरावुक्तम् यथा[Page2907-b+ 38]
“यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधेः। कानकंराजतं चैव स्फाटिकं काचमेव च। वृत्तं स्वराष्टदिक्वंच चतुर्णां पृथिवीभुजाम्। इत्यन्यसम्मतं तेषां निर्णयःपाठसम्मतः। स्वमुष्टिसम्मितं रत्नैश्चतुर्वर्णैः सम-न्वितम्। मार्त्तिकं वाथ फालं वा सर्वेषामुपयुज्यते। काष्ठजं धातुजं शैलं जाङ्गलादिमहीभुजाम्। यद-न्यत्तोयपानादिपात्रं पृय्वीभुजां भवेत्। एवं तत्रापिनियम इति भोजस्य सम्मतः”
“आननैः परिहृतं चष-कान्तः” माघः। कर्मणि क्वुन्।

२ मधुनि,

३ मद्यभेदेच न॰ मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक¦ mn. (-कः-कं)
1. A vessel for drinking spirits with, a wine glass, &c.
2. Any drinking vessel.
3. Spirituous liquor.
4. Honey. E. चष् to eat, करणे क्वुन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषकः [caṣakḥ] कम् [kam], कम् [चष्-करणे क्वुन्] A vessel used for drinking spirits, a goblet, a wine-glass; च्युतैः शिरस्त्रैश्चषकोत्त- रेव R.7.49; मुखं लालाक्लिन्नं पिबति चषकं सासवमिव Śānti.1.29; Ki.9.56,57; Māl.5.18.

कम् A kind of spirituous liquor.

Honey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक mn. ( g. अर्धर्चा-दि)a cup , wineglass Ragh. vii , 46 Hcar. viii S3is3. x etc. ( ifc. f( आ). Katha1s. xxi , 10 )

चषक m. spirituous liquor (" honey " W. ) L.

चषक m. a second Sch. on VarBr2. vii , 1 and 12 and xxiv.

"https://sa.wiktionary.org/w/index.php?title=चषक&oldid=499539" इत्यस्माद् प्रतिप्राप्तम्