चाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटः, पुं, (चट्यते भिद्यते यस्मात् । चट + घञ् । यद्वा चटतिभिनत्तिभित्त्यादिकम् । चट + णः ।) चौरः । इति मिताक्षरा ॥ प्रतारकः । यथा, -- “चाटतस्करदुर्व्वृत्तमहासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः ॥ चाटाःप्रतारकाः विश्वास्य ये परधनमपहरन्ति । प्रच्छन्नापहारिणस्तस्कराः । दुर्व्वृत्ता इन्द्रजालिक- कितवादयः । सहो बलं सहसा बलेन कृतं साहसं महच्च तत् साहसञ्च महासाहसं तेन वर्त्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान्मौलिककुहकवृत्तयः । एतैः पीड्य- माना बाध्यमानाः प्रजा रक्षेत् । कायस्था गणका लेखकाश्च तैः पीड्यमाना विशेषतो रक्षेत् । तेषां राजवल्लभतया अतिमायावितया च दुर्निवारत्वात् ।” इति मिताक्षरायां आचारा- ध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाट¦ पु॰ चु॰ चट--भेदे अच्। आदौ विश्वासमुत्पाद्यपश्चात् धनापहर्त्तरि चौरे
“चाटचारणदासेषु दत्तंभवति निष्फलम्” स्मृतिः।
“चाटतस्करदुर्वृत्तमहा-साहसिकादिभिः। पीड्यमानाः प्रजारक्षात् कायस्थैश्चविशेवतः” याज्ञ॰।
“चाटाः प्रतारकाः विश्वास्थ येपरधनमपहरन्ति” मिताक्षरा

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाट¦ m. (-टः) A cheat, a rogue, a peculator, one who makes away with money &c. entrusted to him. E. चट् to injure, affix अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटः [cāṭḥ], [चट्-भेदे अच्] A rogue or cheat, swindler, one who wins the confidence of the person he wishes to deceive; Y.1.336; (चाटा = प्रतारकाः विश्वास्य ये परधनमपहरन्ति Mitā.); Pt.1.343.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाट m. a cheat , rogue Ya1jn5. i , 335 ( Pan5cat. ) Mr2icch. (Prakrit) VarYogay. Hcat. BhavP.

"https://sa.wiktionary.org/w/index.php?title=चाट&oldid=499542" इत्यस्माद् प्रतिप्राप्तम्