चाटु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटुः, पुं, क्ली, (चटति भिनत्ति मनस्तोषामोद- वाक्येनेति । चट + “दृसनीति ।” उणां १ । ३ । इति ञुण् ।) प्रियवाक्यम् । तत्पर्य्यायः । चटुः २ प्रियप्रायम् ३ । इति हेमचन्द्रः ॥ स्फुटवादी । इति संक्षिप्तसारे उणादिवृत्तिः ॥ मिथ्याप्रिय- वाक्यम् । इति महाभारतम् ॥ खोशामदिया कथा इति भाषा ॥ (यथा, गीतगोविन्दे । २ । १२ । “प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ॥” चाटूक्त्यादौ त्रि । यथा, राजतरङ्गिण्याम् । १ । २१३ । “उपनिन्ये च संगृह्य पुटकैश्चाटुसीत्कृतैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु पुं।

प्रेम्णा_मिथ्याभाषणम्

समानार्थक:चाटु,चटु,श्लाघा

1।6।17।3।1

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु¦ पु॰ न॰ चट--ञुण्।

१ प्रियवाक्ये

२ मिथ्याप्रियवाक्ये(खोसामुदेरकथा) च।
“कुर्वन् चाटुसहस्राणि अव्यक्तक-लया गिरा” हरिवं॰

२० ।
“नो चाटुश्रवणं कृतं नच दृशा हारोऽन्तिके वीक्षितः” सा॰ द॰। स्वार्थे क। अत्रैवार्थे
“विश्रब्धचाटुकशतानि रतान्तरेषु” सा॰ द॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु¦ mn. (-टुः-टु)
1. Pleasing or grateful discourse.
2. Distinct speech.
3. Flattery. E. चट् to break, (anger,) Unadi affix ञुण्; also चटु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटुः [cāṭuḥ] टु [ṭu], टु n.

[चट्-उण्] Pleasing or agreeable words, sweet or coaxing speech, flattery (especially of a lover to his sweet-heart); प्रियः प्रियायाः प्रकरोति चाटुम् Ṛs.6.14; विरचितचाटुवचनरचनं चरणरचितप्रणिपातम् Gīt.11; Amaru.83; Pt.1.175; Śānti.3.14; Ch. P.2; (the greater part of the 1th canto of गीतगोविन्द consists of such coaxing)

Distinct or clear speech.

Endearing words or acts; Māl.1.1. -Comp. -उक्तिः f.

flattering or coaxing language.

service. -उल्लोल, -कार a. speaking agreeably or sweetly, flatterer; शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः Me.31; सो$भवद्विटबन्द्यादिचाटुकारविधेयधीः Rāj. T.5.352. -पटु a. skilful in using flattering or coaxing language, an accomplished flatterer. -बटुः a jester, buffoon. -लोल a. elegantly tremulous. -शतम् a hundred entreaties, repeated coaxing; पटुचाटुशतैरनुकूलम् Gīt. 2; गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते Bh.2.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु m. n. sg. and pl. (See. चटु)pleasing or graceful words or discourse , flattery Hariv. 1144 Pan5cat. Ka1d. Hcar. etc.

चाटु m. = पिचिण्डL.

चाटु mfn. pleasing (?) Ra1jat. i , 213

चाटु mfn. speaking distinctly L.

"https://sa.wiktionary.org/w/index.php?title=चाटु&oldid=361615" इत्यस्माद् प्रतिप्राप्तम्