चान्द्रायणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायणम्, क्ली, (चान्द्रस्य चन्द्रलोकस्य अयनं प्राप्तिर्यस्मात् । “धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ।” इति याज्ञवल्क्यवचनादेव तथात्वम् । यद्वा चन्द्रः अमृतानन्दमयपुरुषः अयनं आश्रयोऽधिष्ठातृदेवो यस्य व्रतस्य यत्र व्रते वा ।) व्रतविशेषः । तत्पर्य्यायः । इन्दु- व्रतम् २ । इति त्रिकाण्डशेषः ॥ तत्तु चतुर्व्विधं पिपीलिकामध्याख्यम् १ यवमध्याख्यम् २ यति- चान्द्रायणम् ३ शिशुचान्द्रायणम् ४ । यथा, -- “एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्द्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥” “एतदेव पिपीलिकामध्याख्यम् ।” इति कुल्लूक- भट्टः ॥ “एवमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ अष्टावष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम् ॥” इति मनुः ॥ तद्विधानं यथा, गारुडे १०५ अध्याये । “तिथिपिण्डांश्चरेद्बुद्ध्वा शुक्ले शिख्यण्डसंमितान् । एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरेत् ॥ यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपयुञ्जीत चान्द्रायणमथापरम् ॥ कुर्य्यात्त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् । पवित्राणि जपेत् पिण्डान् गायत्त्र्या चाभि- मन्त्रयेत् ॥ अनादिष्टेषु सर्व्वेषु शुद्धिश्चान्द्रायणेन च । धर्म्मार्थी यश्चरेदेतत् चन्द्रस्यैति सलोकताम् ॥ कृच्छ्रकृद्धर्म्मकामस्तु महतीं श्रियमश्नुते ॥” अपि च । “एकैकं वर्द्धयेत् पिण्डं शुक्ले कृष्णे च ह्रासयेत् । उपस्पृश्य त्रिषवणं विपरीताघमर्द्दनम् ॥” इति तत्रैव २२६ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायणम् [cāndrāyaṇam], [चन्द्रस्यायनमिवायनमत्र पूर्वपदात् संज्ञायां णत्वम् संज्ञायां दीर्घः स्वार्थे अण् वा Tv.] A religious observance or expiatory penance regulated by the moon's age (the period of its waxing and waning); (in it the daily quantity of food, which consists of fifteen mouthfuls at the full moon, is diminished by one mouthful every day during the dark fortnight till it is reduced to zero at the new moon, and is increased in like manner during the bright fortnight); cf. Y.3.324 et seq. and Ms.11.217.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ritual lasting for a month to be prac- tised once, twice, thrice or four times according to one's capacity; फलकम्:F1: वा. १६. १६-7; १८. १३.फलकम्:/F an expiatory ceremony for a Brahmana taking liquor in मोहा; फलकम्:F2: Br. IV. 7. ६९, ७९; M. 7. 4; १०१. ७५; १८८. ८८.फलकम्:/F very efficacious if performed in सोमतीर्थ; penance for certain thefts, incestuous unions, etc. फलकम्:F3: M. १८९. १८; १९१. ९६; २२७. ४२-56.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=चान्द्रायणम्&oldid=429523" इत्यस्माद् प्रतिप्राप्तम्