चामर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामरम्, क्ली पुं, (चमरी मृगविशेषस्तस्या इदम् । चमरी + अण् ।) चमरीपुच्छलोमनिर्म्मित- व्यजनम् । चौरी । इति भाषा ॥ तत्पर्य्यायः । प्रकीर्णकम् २ । इत्यमरः । २ । ८ । ३१ ॥ चमरम् ३ चामरा ४ चामरी ५ । इति भरतः ॥ वालव्यजनम् ६ रोमगुच्छकम् ७ । इति रभसः ॥ (यथा, पञ्चतन्त्रे । ३ । २६६ । “गुणेषु रागो व्यसनेष्वनादरो रतिः सुभृत्येषु च यस्य भूपतेः । चिरं स भुङ्क्ते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥”) अस्य वायुगुणः । ओजःकारित्वम् । मक्षि- कादिव्यपोहनत्वञ्च । इति राजवल्लभः ॥ * ॥ अथ चामरोद्देशः । “हस्तद्वयोन्नतः शुक्लः सुवर्णबलिभूषितः । हीरेणालङ्कृतो राज्ञां भव्यमानसुखप्रदः ॥ बलेश्चामरदैर्घाद्वा आयामत्वं प्रकाशितम् । भव्यो भद्रो जयः शीलः सुखः सिद्धिश्चलः स्थिरः ॥ वितस्त्येकैकसंवृद्ध्या दिनेशादिदिशां भुवाम् । सौवर्णं राजतं युग्मं त्रैदेशानां महीभुजाम् ॥ योजयेदिति निश्चित्य बलिकल्पनकर्म्मणि । स्थलजं जाङ्गलो राजा अनूपो जलजं वहेत् ॥ हीरञ्च पद्मरागश्च वैदूर्य्यं नील एव च । मणिर्बलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् ॥ * ॥ नारिष्टं नेतयस्तस्य यस्येदं चामरं गृहे । क्षीरोदसम्भवं श्वेतं दीर्घं लघु घनं महत् ॥ अस्य चामरराजस्य विज्ञेयो गुणविस्तरः । नाल्पेन तपसा लभ्यो देवानामपि जायते ॥ ह्रियतेऽभ्यन्तरे सिन्धोर्नागैः सम्पत्तिलोलुपैः । एषां पूर्ब्बवदुन्नेयं जातिदोषगुणादिकम् ॥ * ॥ स्थलजे जलजे चैव भाव्यमेतद्विशेषणम् । स्थलजं सुखदह्यं हि दाहे मिषमिषायते ॥ जलजं वह्निदुर्दह्यं महान्तं धूममुद्गिरेत् । चामराणां समुद्दिष्टमित्येवं लक्षणद्वयम् ॥ एवं विमृष्य यो धत्ते स राजा सुखमश्नुते ॥ * ॥ जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः । तस्याचिरात् कुलं वीर्य्यं लक्ष्मीरायुश्च नश्यति ॥ अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा । तस्यैतानि विनश्यन्ति लक्ष्मीरायुर्यशो बलम् ॥ नालं वर्णद्वये तेर्षा विधेयं शिल्पिना क्रमात् । संस्कारो वालुकायन्त्रे मसूरसलिलादिभिः । तदुष्णसलिलक्वाथात् कृत्रिमत्वं विपद्यते ॥” इत्युपकरणयुक्तौ चामरोद्देशः । इति भोज- राजकृतयुक्तिकल्पतरुः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामर नपुं।

चामरम्

समानार्थक:चामर,प्रकीर्णक,औशीर

2।8।31।1।3

प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्. नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्.।

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्य : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामर¦ पुंन॰ चमर्य्याः विकारः तत्पुच्छनिर्म्मितत्वात्। चमरीपुच्छकृतव्यजने अमरः। चामरलक्षणादिकमुक्तंयुक्तिकल्पतरौ यथा
“अथ चामरोद्देशः।
“हस्तद्वयोन्नतः शुक्लः सुवर्णबलिभूषितः। हीरेणालङ्कृतो राज्ञां भव्यमानसुख॰प्रदः। बलेश्चामरदैर्घ्याद्वा आयामत्वं प्रकाशितम्। भव्योभद्रोजयः शीलः सुखः सिद्धश्चलः स्थिरः। वितस्त्येकैकसंवृद्ध्या दिनेशादिदिशां भुवाम्। सौवर्णं राजतंयुग्मं त्रैदेशानां महीभुजाम्। योजयेदिति निश्चित्य ब-लिकम्पनकर्मणि। स्थलजं जाङ्गलोराजा आनूपो जलजंवहेत्। हीरञ्च पद्मरागश्च वैदूर्य्यं नीलएव च। मणिर्वलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम्। शुक्लोरक्तोऽथ पीतश्च नानावर्णो यथाक्रमम। चामरो राज-[Page2916-b+ 38] केशस्य न सामान्यस्य भूपतेः। न भव्यमानतो नूनंचामरं गुणमावहेत्”। अथ चामरपरीक्षा।
“स्थलजंजलजं चेति चामरं द्विविधं विदुः। मेरौ हिमालयेविन्ध्ये कैलासे मलये तथा। उदयेऽस्तगिरौ चैवगन्धमादनपर्व्वते। एवमेतेषु शैलेषु याश्चमर्य्यो भव-न्ति हि। तासां बालस्य जायेत चामरेत्यभिधा भुवि। आपीताः कनकाद्रिजा हिमगिरेः शुभ्रा सता विन्ध्य-जाः कैलासादसिताः सिता मलयजाः शुक्लास्तथापिङ्गलाः। आरक्ता उदयोद्भवाश्चमरजा आनीलशुक्ल-त्विषः कृष्णाः केचन गन्धमादनभवाः पाण्डुत्विष-श्चामराः। अन्येषु प्रायशः कृष्णाश्चामराः सम्भवन्ति-हि। ब्रह्मक्षत्रियविट् शूद्रजातय स्ताश्चतुर्व्विधाः। चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः। दीर्घ-बालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः। विरलाःस्तनुपर्वाणश्चमर्य्यो ब्रह्मजातयः। विना संस्कारसप्यासां चामरं विमलं भवेत्। दीर्घबालाः सुगुरवःक्षत्रियास्तु भृशं घनाः। विज्ञेया स्थूलपर्वाणश्चमर्य्योवैश्यजातयः। संस्कारे चाप्यसंस्कारे न स्वभावं त्यजे-दिदम्। खर्ववालाः सुलघवः कोमलाङ्गाः भृशं घनाः। चमर्य्यस्तनुपर्वाणो विज्ञेयाः शूदजातयः। संस्कारे-णापि मलिनमासां चामरमिष्यते। दीर्घता लघुता चैवस्वच्छता घनता तथा। गुणाश्चत्वार इत्येते चामराणांप्रकीर्त्तिताः। खर्तता गुरुता चैव वैवर्ण्यं मलिना-ङ्गता। दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः। दीर्धे दीर्घायुराप्नोति लघौ भीतिविनाशनम्। स्वच्छे-स्याद्धनकीर्त्तिभ्यां घने स्युः स्थिरसम्पदः। खर्वे खर्वा-युरुद्दिष्टं गुरुर्गुरुभयप्रदः। विरले रीगशोकाभ्यां मलि-ने मृत्युमादिशेत्”। इति स्थलजम्। अथ जलजम्।
“लवणेक्षुसुरासर्पिर्दधितोयपयोऽब्धिषु। यथोत्तरं गुण-वहाश्चमर्य्यः सप्त सप्तसु। पुच्छानि तासां कृत्तानिजन्तुभिर्मकरादिभिः। कदाचिदुपलभ्यन्ते तत्तीरे पुण्य-शालिभिः। लवणाब्धिसमुद्भूतं पीतं गुरु तथा लघु। वह्नौ क्षिप्तश्च बालश्चेत् किञ्चित् चटचटायते। इक्षुसिन्धूद्भवं ताम्रं चामरं विमलं लघु। मक्षिका मशका-श्चेव तस्मिन् व्यजति चामरे। सुराब्धिजातं कलुषंकर्वूरं पुरुकर्कशम्। तद्गन्धेनैव माद्यन्ति अपि वृद्धा मत-ङ्गजाः। सर्पिःसिन्धुभवं स्निग्धं श्वेतापीतं घनं लघु। वायुरोगाः प्रशाम्यन्ति तस्य वीजनवायुना। जल-[Page2917-a+ 38] सिन्धूद्भवं पाण्डु दीघं लघु घन महत्। अस्य वातेननश्येत्तु तृष्णामूर्च्छामदोभ्रमः। नारिष्टं न भयं तस्ययस्येदं चामरं गृहे। क्षीरोदसम्भवं श्वेतं दीर्घंलघु घनं महत्। अस्य चामरवातस्य विज्ञेयो गुणविस्तरः। नाल्पेन तपसा लभ्यो देवानामपि जायते। ह्रियतेऽभ्यन्तरे सिन्धोर्नागैः सम्पत्तिलोलुपैः। एषांपूर्ववदुन्नेयं जातिदोषगुणादिकम्। स्थलजे जलजेचैव भाव्यमेतद्विशेषणम्। स्थलजं सुखदह्यंहि दाहे मिषमिषायते। जलजं वह्निदुर्दह्यंमहान्तं धूममुद्गिरेत्। चामराणां समुदिष्टमित्येवंलक्षणद्वयम्। एवं विमृष्य यो धत्ते स राजा सुखमश्नुते। जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः। तस्याचिरात् कुलं वीर्य्यं लक्ष्मीरायुश्च नश्यति। अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा। तस्येतानि विनश्यन्ति लक्ष्मीरायु र्यशो बलम्। नालं वर्ग-द्वये तेषां विधेयं शिल्पिना क्रमात्। संस्कारो वालुका-यन्त्रे मसूरसलिलादिभिः। तदुष्णसलिलक्वाथात् कृत्रि-मत्वं विपद्यते”।
“सचामारे देवमसेविषाताम्” कुमा॰।
“गच्छन्तमुच्चलितचामरचारुमश्वम्” माघः।
“शशिप्रभं छत्रमुभेच चामरे” रघुः। अस्य स्त्रीत्वमपि वा ङीप्। तत्रार्थेभरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामर¦ nf. (-रं-रा or -री) A Chowri, the bushy tail of the Bos grun niens, used to whisk off flies, also as an emblem or insignia of princely rank. E. चमर the Yak or Bos grunniens, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामरः [cāmarḥ] रम् [ram], रम् [चमर्याः विकारः तत्पुच्छनिर्मितत्वात्] also -रा -री sometimes.

A chowrie or bushy tail of the Chamara (Bos Grunniens) used as a fly-flap or fan, and reckoned as one of the insignia of royalty (and sometimes used as a sort of streamer on the heads of horses); व्याधूयन्ते निचुलतरुभिर्मञ्जरीचामराणि V.4.4; अदेय- मासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16; Ku.7.42; H.2.29; Me.35; चित्रन्यस्तमिवाचलं हयशिर- स्यायामवच्चामरम् V.1.4; Ś.1.8. -Comp. -ग्राहः, -ग्राहिन्m. a person who carries a chowrie. -ग्राहिणी a waiting girl who carries in her hand a chowrie and waves it over the head of a king &c.; पृष्ठे लीलावलयरणितं चामर- ग्राहिणीनाम् Bh.3.61.

पुष्पः, पुष्पकः the betel-nut tree.

the Ketaka plant.

the mango tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामर mfn. coming from the Yak( चम्) BhP. viii , 10 , 13

चामर mfn. belonging to a chowrie L.

चामर m. = चम्(See. ) , a chowrie Bhoj.

चामर n. id. (a kind of plume on the heads of horses etc. S3ak. Vikr. Ka1d. ) MBh. etc. ( ifc. f( आ). Kum. vii , 42 )

चामर n. a metre of 4 x 15 syllables

चामर n. = दण्ड(a stick) L.

चामर nf( आ, ई). a chowrie L. Sch.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀMARA(M) : A rod (handle) with a large tuft of hair, fibre or feathers at the end. A symbol used by kings and brahmins. Cāmara of the king should have a golden handle, and it should be made of the wings of the swan, the pea cock, the Balākā bird etc. But, the wings of different birds shall not be intermixed. Circu- lar in shape, the Cāmara should have on its handle 3, 4, 5, 6, 7, or 8 sandhis (joints, knots). (Agni- purāṇa, Chapter 245).


_______________________________
*3rd word in left half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चामर&oldid=429528" इत्यस्माद् प्रतिप्राप्तम्