सामग्री पर जाएँ

चामुण्डा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामुण्डा, स्त्री, (महासंग्रामे चण्डमुण्डाख्यौ द्बौ शुम्भनिशुम्भसेनाध्यक्षौ अनया शक्त्या निहतौ अतः परितुष्टया भगवत्या कौशिक्या अस्या- श्चामुण्डेति संज्ञा रक्षिता । एतत् सर्व्वन्तु वक्ष्य- माणासु प्रवृत्तिषु दर्शनीयम् ।) दुर्गा । इति जटाधरः ॥ मातृकाभेदः । इति शब्दरत्ना- वली ॥ तत्पर्य्यायः । चर्व्विका २ चर्म्ममुण्डा ३ मार्ज्जारकर्णिका ४ कर्णमोटी ५ महागन्धा ६ भैरवी ७ कापालिनी ८ । इति हेमचन्द्रः ॥ अस्या ध्यानं यथा, -- “काली करालवदना विनिष्क्रान्तासिपाशिनी । विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥ द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरवा । अतिविस्तारवदना जिह्वाललनभीषणा ॥ निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥” अस्याश्चामुण्डेति नामकारणं यथा, -- “यस्माच्चण्डञ्च मुण्डञ्च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि । भविष्यसि ॥” इति चण्डी ॥ अस्यास्तन्त्रादिकं यथा, -- “देव्या ललाटनिष्क्रान्ताया कालीति च विश्रुता । तस्यास्तन्त्रं प्रवक्ष्यामि कामदं शृणु भैरव ! ॥ समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः । षष्ठस्वराग्निबिन्द्विन्दुसहितो मादिरेव च ॥ कालीतन्त्रमिति प्रोक्तं धर्म्मकामार्थदायकम् । एतन्मूर्त्तिं प्रवक्ष्यामि वत्सकाग्रमनाः शृणु ॥ नीलोत्पलदलश्यामा चतुर्ब्बाहुसमन्विता । खट्वाङ्गं चन्द्रहासञ्च बिभ्रती दक्षिणे करे ॥ वामे चर्म्म कपालञ्च ऊर्द्धाधोभावतः पुनः । दधती मुण्डमालाञ्च व्याघ्रचर्म्मधराम्बरा ॥ कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा । लोलजिह्वा निम्नरक्तनयना नादभैरवा ॥ कबन्धवाहना पीनविस्तारश्रवणानना । एषा ताराह्वया देवी चामुण्डेति च कथ्यते ॥ एतस्या योगिनी चाष्टौ पूजयेच्चिन्तयेदपि । त्रिपुरा भीषणा चण्डी कर्त्री हन्त्री विधातृका ॥ कराला शूलिनी चेति अष्टौ ताः परिकीर्त्तिताः । एषातिकामदा देवी जाड्यहानिकरी सदा ॥ एतस्याःसदृशी काचित् कामदा न हि विद्यते ॥” इति कालिकापुराणे ६० अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामुण्डा स्त्री।

शक्तिदेवता

समानार्थक:ब्राह्मी,माहेश्वरी,कौमारी,वैष्णवी,वाराही,इन्द्राणी,चामुण्डा

1।1।35।4।3

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

जन्य : शिवः

 : चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

चामुण्डा स्त्री।

चर्ममुण्डा

समानार्थक:कर्ममोटी,चामुण्डा,चर्ममुण्डा,चर्चिका

1।1।40।4।2

बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः। षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः। शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः। कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥

स्वामी : शिवः

सम्बन्धि1 : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामुण्डा¦ स्त्री
“यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता। [Page2917-b+ 38] चामुण्डेति ततोलोके ख्याता देवी भविष्यसि” देवोमा॰निरुक्तनामके देवीभेदे।

२ परव्रह्मणः समष्टिरूपशक्ति-भेदे

३ ब्रह्मविद्यायाञ्च गुप्तवती। तत्र (ऐं ह्रीं क्लींचानुण्डायै विच्चे) इति चण्डिकानर्वार्ण्णार्थनिर्ण्णयेउक्तं यथा।
“निर्धूतनिखिलध्वान्ते! नित्यमुक्ते। परात्परे!। अखण्डब्रह्मविद्यायै चित्सदानन्दरूपिणि!। अनुसन्दध्महे नित्यंवयं त्वां हृदयाम्बुजे। इत्थं विज्ञापयत्येषा या कल्याणीनवाक्षरी। अस्या महिमलेशोऽपि गदितुं केन शक्यते। बहूनां जन्मनामन्ते प्राप्यते भाग्यगौरवात्। एनमर्थंगुरोर्लब्ध्वा तस्मै दत्त्वा च दक्षिणाम्। आशिषञ्च परांलब्ध्वा मन्त्रसिद्धिमवाप्नुयादित्यादि”। अत्र प्रथमश्लोकेसंबुद्धित्रयं ततश्चतुर्थ्यन्तन्ततः पुनः संबुद्धित्रयमिति सप्तभिःपदैः क्रमेण मन्त्रे सप्तधा परिच्छेदः। पदानां तत्तद्विभक्त्यन्तता तत्तदर्थाश्चेति कथितं तदुत्तरपद्यार्द्धेनाकाङ्क्षितपदानामध्याहार उक्तः। इतरत्स्पष्टम्। सच्चिदानन्दात्मकपरब्रह्मधर्म्मत्वाद्देवशक्तेरपि त्रिरूपत्वम्। तत्रचिद्रूपा महासरस्वती वाग्वीजे न (ऐं ) सम्बोध्यते। ज्ञाने-नैवाज्ञाननाशात् निर्धूतनिखिलध्यान्तपदेन तद्विवरणम्युक्तमेव। नित्यत्वं त्रिकालाबाध्यत्वम्। अतएवमुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वम्। एतेवसद्रूपात्मकलक्ष्मीरूपस्य हृल्लेखया (ह्रीं ) सम्बोधनमितिव्याख्यातम्। पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एवतस्यैव पुरुषार्थत्वात्।
“आत्मनः कामाय सर्वं प्रियेभवतीति” श्रुत्या तदितरेषामपि तदर्थत्वेनानन्दस्यैव सर्वशेषितया परत्वात्। स च मानुषानन्दमारभ्योत्तरोत्तरंशतगुणाधिक्येन श्रुतौ बहुशोवर्णितः
“तेषु परमातिशायी स एको ब्रह्मण आनन्द” इति परमावधित्वेनाम्नातएव परात्परः
“स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः” इति पुराणं च तेन आनन्दप्रधानभहाकालीस्वरूपस्यकामवीजेन (क्लीं ) सम्बोधनमुक्तम्। चामुण्डाशब्दो हिमोक्षकारणीभूतनिर्विकल्पकवृत्तिविशेषपरः तादर्थ्येचतुर्थी चमूं सेनां वियदादिसमूहरूपाण्डाति लडयोरैक्याल्लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयतीतिव्यु-त्पत्तेः। पृषोदरादित्वात्सर्वंसाधु” इत्याहुः।
“मयातवात्रोपहृतौ चण्डमुण्डौ महासुरौ” इति पद्येद्विवचनयोः स्वारस्येन तूलमूलभेदेनाज्ञानद्वयपरत्वम्
“यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता। [Page2918-a+ 38] वामुण्डेति ततो लोके ख्याता देवी भविष्यतीति” पद्येऽपि तूलमूलाविद्यापरताऽवसेया इति रह-स्यम्। विच्चे इति। वित् च, इ, इति पदत्रयात्मकंवीजक्रमेणोक्तानाञ्चित्सदानन्दानां वाचकं सम्बुध्यन्तंअस्य स्त्री ई इत्यस्य ह्रस्वे इ इति हे आनन्दमय-ब्रह्ममहिषि इत्यर्थः। चित्पदं ज्ञानपरम्प्रसिद्धमेवचकारोऽपि नपुंसकः सन सत्यपर इति योज्यम् अनुस-न्दध्महैत्यादिः शेषः। इत्थञ्च महासरखत्यादिरूपेणचिदादिरूपे! चण्डिके त्वाम्ब्रह्मविद्याप्राप्त्यर्थं वयंसर्व्वदा ध्यायेम इतिमन्त्रार्थः फलितः। तस्याय सङ्ग्रहः
“महासरस्वति चिते! महालक्ष्मि! सदात्मिके!। महाकाल्यानन्दरूपे! तत्त्वज्ञानप्रसिद्धये। अनुसन्दध्महेचण्डि। वयन्त्वां हृदयाम्बुजे” इति। यद्यपि श्री-त्येव वीजम्महालक्ष्म्याःप्रसिद्धम्। न हृल्लेखा (ह्रीं )। तथापि हकारशकारयोरूष्मवर्णत्वेन साजात्यान्ना-तीव भेदः। अतएव
“श्रीश्च ते लक्ष्मीश्च ते पत्न्याविति” श्रुतौ शाखान्तरे श्रीपदस्थाने ह्रीपदपाठः। एवं काम-वीज एव लकारस्य स्थाने रेफयोजनेन कालीबी-जता रलयोश्चान्त्यस्थत्वेनैक्यान्नात्यन्तंभदः। तन्त्रान्तरेषुतु कालीसरस्वत्योर्वास्तविकभेदमभिप्रेत्य बीजयोर्वैपरी-त्यव्यवहारोऽपि दृश्यत इति द्रष्टव्यम्। अयं चार्थःप्राचीतैर्वर्णितप्राय एव सम्यक्परिष्कृष्योक्तः। वस्तु-तस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्प-नया च समाधानस्याविवादादन्योऽपि प्रकारः सुवचः। चसु अदने इति धातोः उण् चामुरदनीयः पदार्थःस च ब्रह्मातिरिक्तः सर्वोऽपि
“अत्ता चराचरग्रहणात्” इत्यधिकरणे तथा निर्णयात् तण्डापयति उड्डापयतिन विषयीकुरुते ब्रह्ममात्रविषयिणीति यावत्। अथवावकार एकाक्षरनिथण्टुरीत्या चन्द्रवाचक आह्लादप्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन्ब्रह्मैव वक्ति। तत् आसमन्तान्मुण्डयतीति चामुण्डामुण्डनं नामाधारापेक्षथा न्यूनसत्ताकवस्तुनिरासः शिर-श्चर्म्मापेक्षया न्यूनसत्तावतासेव केशानां वपने प्रयोगात्। गौडपादीयभाष्ये तु शरीरराहित्यलक्षणम् मुण्डनंमुण्डकोपनिषदि प्रोक्तं अथवा। चानाम्बुद्धानां सुखानांवा मुण्डमिव शीर्षमिव स्थिता सर्वोत्तमा चरमवृत्तिरूपाब्रह्मविद्येति यावत्। अथ चण्डिकारूपदेवतापरएव चामुण्डाशब्दः। अत एव मन्त्रान्ते बह्निजाया योज-[Page2918-b+ 38] नेन होमे चामुण्डाया इदमित्येव त्यागो विधि-शब्दस्य मन्त्रत्वे इत्यधिकरणन्यायसिद्धो युज्यते। चतुर्थीवलाच्च नमःशब्दस्यैवाष्याहारः। वीजत्रयमप्यव्ययरूपं चतुर्थ्यन्तमेव व्यष्टिदेवतात्रयवाचकमभेदद्योतकंतद्विशेषणम् विच्चे इत्यप्यखण्डमव्ययं स्वरादेरा-कृतिगणत्वात्। मन्त्रस्य पदखण्डशो न्यासप्रकरणेऽस्ययुगलस्य विभजनं विनैव न्यासविधानात्। भगभालिनीनित्यामन्त्रादिषु बहुषु तस्य प्रयोगसत्त्वेन तत्रोक्तार्थरीत्या निर्वाहाभावाच्च ततश्च हे अम्ब बन्धनकरणीभूता-मिमां रज्जुं ग्रन्थिविसर्जनादिना मोचयेति। स्त्रीसम्बोध्यकमोक्षप्रार्थनारूपो विशिष्टस्तदर्थः। यदापिदक्षिणामूर्त्तिसंहितायां भगमालिनीमन्त्रस्थ देवतागण-नावसरे
“अमोघां चैव विच्चाञ्च तथेशीं क्लिन्नदेवतामिति” पाठाद्विच्चानामिका काचिद्देवतैवेत्यालोच्यते तदापि परिकरालङ्कारेण साभिप्रायं चामुण्डाविशेषणम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामुण्डा¦ f. (ण्डा)
1. A terrific form of DURGA.
2. One of the Matrikas. E. च the moon, and मुण्ड the head, having a head like the moon; or चा for चण्ड the name of a demon, and मुण्ड the skull; having seized the decapitated head of the demon: in either case the deriv. is irregular: see चर्ममुण्डा &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामुण्डा [cāmuṇḍā], A terrific form of Durgā; Māl.5.25; (the word is thus derived; यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपा- गता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामुण्डा f. a form of दुर्गा(See. चर्म-मुण्डा) Ma1lati1m. Katha1s. Ra1jat. Ma1rkP. lxxxvii , 25 (fr. चण्डand मुण्ड)

चामुण्डा f. one of the 7 mothers L. Sch.

चामुण्डा f. one of the 8 नायिकाs of दुर्गाBrahmaP. ii , 61 , 80

चामुण्डा f. of डSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति on the 9th parva of चक्रराज- ratha. Br. IV. १९. 7; ३६. ५८; ४४. ८७ and १११.
(II)--a mind-born mother; image of, clothed in elephant skin. M. १७९. १०; २६१. ३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀMUṆḌĀ : (See Pārvatī).


_______________________________
*6th word in right half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चामुण्डा&oldid=499550" इत्यस्माद् प्रतिप्राप्तम्