चार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चारम्, क्ली, (चर्य्यते भक्ष्यते कोपद्वेषादिवशा- दिति । चर + कर्म्मणि घञ् ।) कृत्रिमविषम् । इति हेमचन्द्रः । ३ । ३९८ ॥
चारः, पुं, पियालवृक्षः । गतिः । बन्धः । अपसर्पः । इति मेदिनी । रे, ३३ ॥ कारागारम् । इति हेमचन्द्रः । ३ । ३९८ ॥ (चर एव इति स्वार्थे अण् ।) गूढपुरुषः । चरः । तद्बिवरणम् । यदुक्तं कालिकापुराणे ८५ अध्याये । “कृषिदुर्गञ्च बाणिज्यं खल्यानां करसाधनम् । आदानं स्यैन्यकरयोर्ब्बन्धनं गजवाजिनोः ॥ शून्यवप्रमुखानाञ्च योजनं सततं जनैः । प्रजानां सारसेतूनां वन्धनं चेति चाष्टमम् ॥ एतदष्टासु वर्गेषु चारान् सम्यक् प्रयोजयेत् । कार्य्याकार्य्यविभागाय चाष्टवर्णाधिकारिणाम् ॥ अष्टौ चारान् नियुञ्जीयादष्टवर्गेषु पार्थिवः । दशस्वन्येषु युञ्जीत क्रमतः शृणु तानि मे ॥ स्वामी सचिवराष्ट्राणि मित्रं कोषो बलं तथा । दुर्मन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् ॥ दुर्गयुक्तं चाष्टवर्गे चारं नात्मनि योजयेत् । तस्मादिमानि शेषाणि पञ्च चारपदानि तु ॥ शुद्धान्तेष्वेव पुत्त्रेषु स्रक्पूपादौ महानसे । शत्रूदासीनयोश्चैव बलाबलविनिश्चये ॥ आदौ दशसु चैतेषु चारान् राजा प्रयोजयेत् । नयात् प्रकाशं जानीयात् तत्तु चारैर्निरूपयेत् ॥ निरूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत् । यथानियोगमेतेषां यो यो यत्रान्यथा चरेत् ॥ ज्ञात्वा तत्र नृपश्चारैर्दण्डयेद्वा नियोजयेत् । चारांस्तु मन्त्रिणा सार्द्धं रहस्ये संस्थितो नृपः ॥ प्रदोषसमये पृच्छेत्तदानीमेव साधयेत् । स्वपुत्त्रे चाथ शुद्धान्ते ये तु चारा महानसे ॥ नियुक्तांस्तान् मध्यरात्रौ पृच्छेत् यश्चापि मन्त्रिणि । एतान् चारान्स्वयं पश्येत् नृपतिर्मन्त्रिणा विना ॥ अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत् फलम् । नैकवेशधरश्चारो नैको नोत्साहवर्ज्जितः ॥ संस्तुतो न हि सर्व्वत्र नातिदीर्घो न वामनः । सततं न दिवाचारी न रोगी नाप्यबुद्धिमान् ॥ न वित्तविभवैर्हीनो न भार्य्यापुत्त्रवर्ज्जितः । कार्य्यश्चारो नृपतिना गुह्यतत्त्वविनिर्णये ॥ अनेकवेशग्रहणक्षमं भार्य्यासुतैर्युतम् । बहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् ॥ दृढभक्तं प्रकुर्व्वीत चारं शक्तमसाध्वसम् । अधितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा ॥ बणिक्पथे च दुर्गादौ तेषु शक्तान्नियोजयेत् । अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान् नियो- जयेत् ॥ षण्डान् पण्डान् तथा वृद्धान् स्त्रियो या बुद्धि- तत्पराः । शुद्धान्त्रद्वारि युञ्जीयात् स्त्रियो वृद्धा मनी- षिणीः ॥” यथा च युक्तिकल्पतरौ । “नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः ।” (कापटिकपुरुषादयः । यथा, मनुः । ७ । १८४ । “उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय च ॥” “चारांश्च कापटिकादीन् ।” इति कुल्लूकभट्टः ॥ प्रचारः । यथा, रामायणे । २ । ६६ । २६ । “निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता ।” “निवृत्तचारः निवृत्तकिरणप्रचारः प्रवृत्तचारा प्रवृत्ततमःप्रचारा ।” इति तट्टीकायां रामा- नुजः ॥ बाणिज्यादिव्यवहारः । यथा, महा- भारते । ५ । ३८ । १२ । “भृतैर्बाणिज्यचारञ्च पुत्त्रैः सेवेत च द्बिजान् ॥” सञ्चारः । प्रवृत्तिः । यथा, देवीभागवते । १ । ११ । २२ । “न स्त्री दुष्यति चारेण न विप्रो वेदकर्म्मणा ।” “चारेण रजःसञ्चारेण ।” इति टीकाकृन्नील- कण्ठः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चार पुं।
चारपुरुषः
समानार्थक:यथार्हवर्ण,प्रणिधि,अपसर्प,चर,स्पश,चार,गूढपुरुष,पेशल
2।8।13।2।1
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ॥
स्वामी : राजा
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
चार पुं।
बन्धनम्
समानार्थक:उद्दान,बन्धन,बन्धन,प्रसिति,चार,पाश
3।2।14।2।3
मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चार¦ पु॰ चरएव अण्।
१ प्रणिधौ गुप्तचरे
“चारैश्चा-मेकसंस्थानैः प्रोत्साद्य वशमानयेत्”
“तस्करप्रतिषेधार्थंचारैश्चाप्यनुचारयेत्” उपगृह्यास्पदञ्चैव चारान् सम्य-ग्विधाय च” --इति च मनुः।
२ प्रियालवृक्षे (पिवा-साल) मेदि॰
३ कारागारे हेम॰ चर--भावे घञ्
४ गतौ गोप्रचारः ग्रहचारः
“चारोदयाः प्रशस्ताःश्रवणमघादित्यमूलहस्तेषु” वृ॰ स॰
६ अ॰
“भगणार्धे-मान्तरितो गृह्णाति कथं नियतचारः”
५ अ॰। कार्य्यभेदेदूततियोगादिकं कालिकापु॰
८५ अ॰ उक्तं यथा।
“कृषिर्दुर्गञ्च बाणिज्यं खल्यानां करसाधनम्। आदानंसैन्यकरयोर्वन्धनं गजवाजिनोः। शून्यवप्रमुखा-नाञ्च भोजनं सततं जनैः। प्रजानां सारसेतूनांबन्धनं चेति चाष्टमम्। एतदष्टासु वर्गेषु चारान्सम्यक् प्रयोजयेत्। कार्य्याकार्य्यविभागाय चाष्टवर्गाधिकारिणाम्। अष्टौ चारान् नियुञ्जीयादष्टवर्गेषु पार्थिवः। दशस्वन्येषु युञ्जीत क्रमशः शृणु तानिमे। स्वामी सचिवराष्ट्राणि मित्रं कोषो बलं तथा। दुर्गन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम्। दुर्गयुक्तं{??}ष्ट वर्गे चारं नात्मनि योजयेत्। तस्मादिमानिशेषाणि पञ्च चारपदानि तु। शुद्धान्तेष्वेव पुत्रेषु स्रक्पूपादौ महानसे। शत्रूदासीनयोश्चैव बलाबलविनि-श्चये। आदौ दशमु चैतेषु चारान् राजा प्रयोजयेत्। न यत् प्रकाशं जानीयात् तत्तुचारैर्निरूपयेत्। नि-रूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत्। यथानियोग-मेतेषां यो यो यत्रान्यथा चरेत्। ज्ञात्वा तत्र नृप-श्चारैर्दण्डयेद्वा नियोजयेत्। चारांस्तु मन्त्रिणा सार्द्धंरहस्ये संस्थितो नृपः। प्रदोषसमये पृच्छेत्तदानीमेव साधयेत्। स्वपुत्रे चाथ शुद्धान्ते ये तु चारा महानसे। नियुक्तांस्तान् मध्यरात्रे पृच्छेत् यश्चापिमन्त्रिणि। एतान् चारान् स्वयं पश्येत् नृपतिर्मन्त्रिणाविना। अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत्फलम्। नैकवेशधरश्चारो नैकी नोत्साहवर्ज्जितः। संस्तुतो नहि सर्वत्र नातिदीर्घो न वामनः। सततं नदिवाचारी न रोगो नाप्यबुद्धिमान्। न वित्तविभवैर्हीनो न भार्य्यापुत्रवर्ज्जितः। कार्य्यश्चारो नृपतिनागुह्यतत्त्वविनिर्णये। अनेकवेशग्रहणक्षमं भार्य्यासु-[Page2919-b+ 38] तैर्युतम्। बहुदेशवचोभिज्ञं पराभिप्रायवेदकम्। दृढभक्तं प्रकुर्वीत चारं शक्तमसाध्वसम्। अधितिष्ठेत्स्वयं राजा कृषिमात्मसमैस्तथा। बणिक्पथे चदुर्गादौ तेषु शक्तान्नियोजयेत्। अन्तःपुरे पितुस्तुल्यान्धीरान् वृद्धान् नियोजयेत्। षण्डान् पण्डान् तथावृद्धान् स्त्रियो या बुद्धितत्पराः। शुद्धान्तद्वारि युञ्जी-यात् स्त्रियो बुद्धिमनीषिणीः”। चरेण चरणेन निर्वृ-त्तम् अण्।
५ कृत्रिमविषे--न॰ हेमच॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चार¦ m. (-रः)
1. Going in motion.
2. A spy, a secret agent or emissary.
3. Binding, a binding, a fetter, &c.
4. A prison, a house of confine- ment.
5. A kind of tree, the Piyal, (Buchanania latifolia, Rox.) see पियाल
6. Wandering about, travelling. n. (-रं) A factitious poison. E. चर going, &c. affix अण्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चारः [cārḥ], [चर एव अण्]
Going, walking, gait, wandering about; मण्डलचारशीघ्रः V.5.2; क्रीडाशैले यदि च विचरेत् पाद- चारेण गौरी Me.6; निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता Rām.2.66.26 walk on foot.
Motion, course, progression; मङ्गलचार, शनिचार, राहु˚ &c.
A spy, scout, secret emissary; Ms.7.184;9.261; see चारचक्षुस् below.
Performing, practising.
A prison.
A bond, fetter.
The Pippalī tree or the Priyāla tree.
A platform, Māna.62.1.3. -रम् An artificial poison. -Comp. -अन्तरितः a spy. -ईक्षणः, -चक्षुस्m. 'using spies as eyes', a king (or a statesman) who employs spies and sees through their medium; चारचक्षु- र्महीपतिः Ms.9.256; cf. Kāmandaka: गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति च द्विजाः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ also Rām.: यस्मात्पश्यन्ति दूरस्थाः सर्वानर्थान्नराधिपाः । चारेण तस्मादुच्यन्ते राजानश्चारचक्षुषः ॥ -चण, -चञ्चु a. graceful in gait, of graceful carriage. -ज्या the sine of the ascensional difference. -पथः a place where two roads meet.-भटः a valorous man, warrior. -भटी courage. -वायुः summer-air, zephyr.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चार m. ( चर्)= चर, a spy Mn. vii , ix MBh. i , 5604 R. Mr2icch. Katha1s.
चार m. going , motion , progression , course (of asterisms VarBr2S. BhP. v , 22 , 12 ) ChUp. vii , 1 , 5 R. etc.
चार m. wandering about , travelling W.
चार m. " proceeding "See. काम-
चार m. practising MBh. v , 1410
चार m. a bond , fetter L.
चार m. a prison L.
चार m. Buchanania latifolia Bhpr.
चार n. a factitious poison L. ( v.l. for वार)
चार n. a trap , snare HParis3. i , 353.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the spy in different disguises to be sent over his kingdom and that of the enemy; king not to act on the report of a single चार; the source of the kingdom; चारचक्षु is the king. Br. IV. २१. ५१ and ६४; २५. १२. M. २१५. ९०-6; २२६. १२. [page१-597+ २३]