चिकित्सकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सकः, पुं, (चिकित्सति रोगमपनयतीति । कित् + “गुप्तिज्किद्भ्यः सन् ।” ३ । १ । ५ । इति स्वार्थे सन् + ण्वुल् ।) चिकित्साकर्त्ता । (यथा, मनुः । ९ । २८४ । “चिकित्सकानां सर्व्वेषांमिथ्या प्रचरतां दमः ॥”) तत्पर्य्यायः । रोगहारी २ अगदङ्कारः ३ भिषक् ४ वैद्यः ५ । इत्यमरः । २ । ६ । ५७ ॥ तस्य लक्षणं यथा, चाणक्ये । “आयुर्व्वेदकृताभ्यासः सर्व्वेषां प्रियदर्शनः । आर्य्यशीलगुणोपेत एष वैद्यो विधीयते ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सकः [cikitsakḥ], [कित् स्वार्थे सन् ण्वुल्] A physician, doctor; चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ Mb.3.124.12. उचितवेलाति- क्रमे चिकित्सका दोषमुदाहरन्ति M.2; Bh.1.87, Y.1.162.

"https://sa.wiktionary.org/w/index.php?title=चिकित्सकः&oldid=499556" इत्यस्माद् प्रतिप्राप्तम्