सामग्री पर जाएँ

चित्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तम्, क्ली, (चेतत्यनेनेति । चित् + करणे क्तः ।) अनु- सन्धानात्मिकान्तःकरणवृत्तिः । इति वेदान्तः ॥ “यत्तत् सत्वगुणं स्वच्छं स्वान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः । प्रवृत्तिलक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥” इति श्रीभागवतम् ॥ अस्यार्थः । “अधिभूतस्वरूपेण तस्यैव महा- नितिसंज्ञा अध्यात्मरूपेण चित्तं उपास्यरूपेण वासुदेवः अधिष्ठाता तु तस्य क्षेत्रज्ञः ।” इति श्रीधरस्वामी ॥ (अनेनैव चिच्छक्तेः प्रथमसम्बन्धः । अतएव भगवत्पतञ्जलिपादैरुपदिष्टं प्रथमसूत्रे “योगश्चित्तवृत्तिनिरोधः ।” तथा च मुण्डकोप- निषदि । ३ । १ । ९ । “एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्व्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥”) मनः । इत्यमरः । १ । ४ । ३१ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्त नपुं।

मनस्

समानार्थक:चित्त,चेतस्,हृदय,स्वान्त,हृद्,मानस,मनस्

1।4।31।2।1

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

वैशिष्ट्यवत् : वासना,मनोविकारः,अहङ्कारः,अभिमानः,मदः,मनःपीडा

पदार्थ-विभागः : , मनः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्त¦ न॰ चिती--ज्ञाने बा॰ करणे क्त।

१ अन्तःकरणभेदे
“मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयोनिश्चयोग-र्वः स्मरणं विषया इमे” वेदा॰ प॰। तस्य च स्मरणम्अनुसन्धानात्मक वृत्तिभेदः। चिच्छब्दे दृश्यम्।

२ अन्तःकरण-[Page2932-b+ 38] मात्रे अमरः
“योगश्चित्तवृत्तिनिरोधः” पात॰ सू॰।
“जनस्य चित्तेन भृशं वशात्मना” नैष॰।
“चन्द्रचतुर्मुखशङ्कराच्युतैः क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ता-भिघान्तरिन्द्रियचतुष्केण क्रमात् संशयनिश्चयाहङ्का-र्य्यचैत्यांश्च सर्वानेतान् स्थूलविषयाननुभवतः” वे॰ सा॰उक्तेः अस्थाधिष्ठाता अच्युतः। कर्म्मणि कर्त्तरि वाक्त।

३ ज्ञाते

४ ज्ञातरि च। चित्तं च सांख्यमते त्रिगुण-प्रकृतिकार्य्यम्। तदेतत्योगसूत्रभाष्यादौ दर्शितम्।
“योगश्चित्तवृत्तिनिरोघः” पात॰

१ ।

१ । सू॰
“चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्। प्रख्यारूपं हि चित्तं सत्त्वम्। रजस्तमोभ्यां संसृष्टम्ऐश्वर्य्यविषयप्रियं भवति। तदेव तमसानु विद्धमधर्म्मा-ज्ञानावैराग्यानैश्वर्योपगं भवति। तदेव प्रक्षीणमोहावरणंसर्व्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्म्मज्ञानवैरा-ग्यैश्वर्योपगं भवति तदेव रजोलेशमलापेतं स्वरूपप्रति-ष्ठं सत्वपुरुषान्यताख्यातिमा{??}ं धर्म्ममेघध्यानोपगंभवति। तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः। चि-तिशक्तिरपरिणामिन्यप्रतिसङ्ग्रमा दर्शितविषया शुद्धाचानन्ता च सत्वगुणात्मिका चेयम्। अतो विपरीताविवेकख्यातिरित्यतस्तस्यां विरक्तं चित्तन्तामपि ख्यातिंनिरुणद्धि। तदवस्थं चित्तं संस्कारोपगं भवति। स निर्वीजः समाधिः, न तत्र किञ्चित् सम्प्रज्ञायतैत्यस-म्प्रज्ञातः द्विविधः स योगश्चित्तवृत्तिनिरोध” इति भा॰।
“कुतः पुनरेकस्य क्षिप्तादिभूमिसम्बन्धः किमर्थं चैव-मस्य चित्तस्य वृत्तयोनिरोद्धव्या इत्याशङ्क्य प्रथमं ताव-दवस्थासम्बन्धहेतुमुपन्यस्वति। चित्तं हीति। प्रख्या-शीलत्वात् सत्वगुणम्। प्रवृत्तिशीलत्वाद्रजोगुणम् स्थि-तिशीलत्वात् तमोगुणम्। प्रख्याग्रहणमुपलक्षणार्थं ते-नान्येऽपि सात्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते। प्रवृत्त्या च परितापशोकादयो राजसाः। स्थितिः प्रवृ-त्तिविरोधी तमोवृत्तिधर्म्मः स्थितिग्रहणाद् गौरवावरण-दैन्यादय उपलक्ष्यन्ते। एतदुक्तं भवति एकमपि चित्तंत्रिगुणनिर्म्मिततया गुणानाञ्च वैषम्येण परस्परविमर्दवैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति। क्षिप्ताद्या एव चित्तस्य भूमयः यथासम्भवमवान्तरावस्था-भेदवत्यस्ता दर्शयति। प्रख्यारूपं हीति चित्तरूपेणपरिणतं सत्वं चित्तसत्वं, तदेवं प्रख्यारूपतया सत्वप्रा-धान्यं चित्तस्य दर्शितम्। तत्र{??}इत्ते सत्वात् किञ्चिदूने[Page2933-a+ 38] रजस्तमसो यदा मिथःसमे भवतः तदैश्वर्य्यञ्च विष-याश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तं सत्वप्रा-धान्यात् खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तम-सा पिहितत्वादणिमादिकमेव तत्त्वमभिमन्थमानं तत्प्र-णिधित्सति प्रणिधत्ते च क्षणम् अथ रजसा क्षिप्यर्मा-णम्। तत्राप्पलब्धस्थिति तत् प्रियमात्रं भवति। श-ब्दादिषु पुनरस्य सरसवाही प्रेमा निरूढ एव। तद-नेन विक्षिप्तं चित्तमुक्तम् क्षिप्तं दर्शयन् मूढमपि सूच-यति तदेव तमसेति। यदा हि तमो रजी विजित्यप्रसृतं तदा चित्तसत्वावरकतमःसमुत्सारणेऽशक्त-त्वात् रजस्तमस्थगितं चित्तमधर्म्माद्युपगच्छति। अज्ञानञ्चविपर्य्ययज्ञानमभावप्रत्ययालम्बनञ्च निद्राज्ञानमुक्तम्। ततश्च मूढावस्थापि सूचितेति। अनैश्वर्य्यं सर्व्वत्रे-च्छाप्रतिघातः। अधर्म्मादिव्याप्ते चित्तं भवतीत्यर्थः। यदा तु तदेव चित्तसत्वमाविर्भूतसत्वमपगततमःपटलं स-रजस्कं भवति तदा धर्म्मज्ञानवैराग्यैश्वर्य्याण्युपगच्छती-त्याहं प्रक्षीणेत्यादि। मोहस्तसस्तदेव चावरणं प्रकर्षे-ण क्षीणं यस्य तत्तथोक्तम्। अतएव सर्वतो विशेषावि-शेषलिङ्गमात्राऽलिङ्गपुरुषेषु प्रद्योतमानं तथापि न ध-र्म्मायैश्वर्य्याय च कल्पते प्रवृत्त्यभावादित्यत आह। अ-नुविद्धं रजोमात्रया रजसः प्रवर्त्तकत्वादस्ति धर्म्मादि-रित्यर्थः। तदनेन संप्रज्ञातसमाधिसम्पन्नयोर्मघुभूमिक-प्रज्ञाज्योतिषोर्म्मध्याधमयोर्योगिनोश्चित्तसत्वं संगृहीतम्संप्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थीं चित्तस्याव-स्थामाह तदेव चित्तं रजोलेशान्मलादपेतम् अतएवस्वरूपप्रतिष्ठसभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोम-यस्य हि बुद्धिसत्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्र-त्याहृतस्यानवसिताधिकारतया च कार्य्यकारिणो विवेक-ख्यातिः परं कार्य्यमवशिष्यत इत्याह सत्वपुरुषा-न्यताख्यातिमात्रं चित्तं धर्म्ममेघध्यानोपगं भवति। धर्म्ममेघश्च वक्ष्यते। अत्रैव योगिजनप्रसिद्धिमाहतदिति। सत्वपुरुषान्यताख्यातिमात्रं चित्तं धर्म्मभे-षपर्य्यन्तं परं प्रसंख्यानमिति आचक्षते ध्यायिनः। चित्त-सामान्याधिकरण्यं च धर्म्मधर्म्मिणोरभेदविवक्षया द्रष्ट-व्यम्। विवेकख्यातेर्हानहेतुं चितिशक्तेश्चोपादानहेतुंनिरोघसमाधिमवतारयितुं चितिशक्तेः साघुतामसाधुता-ञ्च विवेकख्यातेर्दर्शयति चितिशक्तिरित्यादि। सुखदुःखमोहात्मकत्वमशुद्धिः। सुखमोहावपि विवेकिनं दुः-[Page2933-b+ 38] खाकुरुतः। अतो दुःखवद्धेयौ तथाचातिसुन्दरमप्यन्त-वत् दुनोति। तेन तदपि हेयमेव विवेकिमः। सेयमवि-शुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तं शुद्धाचानन्ता चेति। ननु सुखदुःखमोहात्मकशब्दादीन् इयचेतयमाना तदाकारापन्ना कथं विशुद्धा तदाकारपरिग्र-हपरिवर्जने च कुर्वती कथमनन्तेत्यत उक्तं दर्शितविषयेति। दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ताभवेदेतदेवं यदि बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत। किन्तु वुद्धिरेव विषयाकारेण परिणता सती अतदाका-रायै चितिशक्त्यै विषयमादर्शयति ततः पुरुषश्चेतयतइत्युच्यते। ननु विषयाकारां बुद्धिमानारूढायाचितिशक्तेः कथं विषयवेदनं! विषयारोहे वा कथं नतदाकारापत्तिरिति अतः उक्तम् अप्रतिसंक्रमेति। प्रतिसंक्रमः सञ्चारः स चितेर्नास्तीत्यर्थः। स एव कु-तोऽस्यां नास्तीत्यत उक्तम् अपरिणामिनीति। नचितेस्त्रिविधोऽपि धर्म्माधर्म्माऽवस्थालक्षणः परि-णामोऽस्ति येन त्रितयरूपेण परिणता सती बुद्धिसंयो-गेम परिणमेत। चितिशक्तेरसंक्रान्ताया अपि विषय-संवेदनमुपपादयिष्यते। तस्मिद्धं चितिपक्तिः शोभनेति,विवेकख्यातिस्तु बुद्धिसत्वात्मिका अशोभनेत्युक्तम्। अत-श्चितिशक्तेर्विपरीततेति। यदा च विवेकख्यातिरपिहेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामितिभावः। ततस्तद्धेतोर्निरोधसमाधेरवतारो युज्यते इत्य{??}हअतस्तस्यामिति। ज्ञानप्रसादमात्रेण हि परेण वैरा-ग्येण विवेकख्यातिमपि निरुणद्धीत्यर्थः। अथ निरु-द्धाऽशेषवृत्ति चित्तं कीदृशमित्यतआह तदवस्थमि-त्यादि। स निरोधः अवस्था यस्य तत्तथोक्तम्। निरोधस्य स्वरूपमाह स निर्वीज इति। क्लेशसहितःकर्म्माशयो जात्यायुर्भोगोवीजं तस्मान्निर्गतः निर्वीजःअस्यैव योगिजनप्रसिद्धामन्वर्थसंज्ञामादर्शयति। नतत्रेति। उपसंहरति। द्विविधः स योगश्चित्तवृत्ति-निरोघ इति” विवरणम्।
“तदवस्थे चेतसि विषयाभायात् बुद्धिबोधात्मा पुरुष। किंस्वभावः? इति--भा॰
“तदा द्रुष्टः स्वरूपेऽवस्थानम्”

२ सू॰।
“स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये व्युत्थान-चित्ते तु सति तथापि भवन्ती न तथा” भा॰।
“संप्रत्युत्तरसूत्तमवतारयंश्चोदयति। तदवस्थे चेतसीति[Page2934-a+ 38] किमाक्षेपे तत्तदाकारपरिणतबुद्धिबोधात्मा त्वयं पुरुषःसदानुभूयते न तु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्यबुद्धिबोधस्वभावः सवितुरिव प्रकाशः। नच संस्कारशेषेचेतसि सोऽस्ति, न च स्वभावमपहाय भावो वर्त्तितुम-र्हति इति भावः। स्यादेतत् संस्कारशेषामपि बुद्धिंकस्मात् पुरुषो न बुध्यते? इत्यत आह विषयाभावा-दिति। न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवतीबुद्धिः। विवेकख्यातिविषयभोगौ च पुरुषार्थौ तौ चनिरुद्ध्वाबस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः। सूत्रेण परिहरति
“तदा द्रष्टुः स्वरूपेऽवस्थानम्” सू॰।
“स्वरूप इत्यारोपितम् शान्तघोरमूढस्वरूपं निवर्त्तयतिपुरुषस्य हि चैतन्यं स्वरूपमनौपाधिकम् नतु बुद्धिबोधःशान्तादिरूप औपाधिको हि सः स्फटिकस्येव स्वभावतःस्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा नचो-पाधिनिवृत्तावुपहितनिवृत्तिरतिप्रसङ्गादिति भावः। स्वरूपस्य चाभेदेऽपि भेदं विकल्प्य अधिकरणभाव उक्तइति। अयमेवार्थोभाष्यकृता द्योत्यते। स्वरूपप्रति-ष्ठेति। तदानीं निरोधावस्थायां न व्युत्थानावस्थाया-मिति भावः। स्यादेतत् व्युत्थानावस्थायामप्रतिष्ठिता,स्वरूपे चितिशक्तिः, निरोधावस्थायां प्रतितिष्ठन्ती परि-णामिनी स्यात् व्युत्थाने वा स्वरूपप्रतिष्ठाने सति व्युत्थाननिरोधयोरविशेष इत्यत आह व्युत्थानचित्ते त्वितिन जातु कूटस्थनित्या चितिशक्तिः स्वरूपात् च्यवते। तेनयथा निरोधे तथैव व्युत्थानेऽपि। न खलु शुक्तिकायाःप्रमाणविपर्य्ययज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतःप्रतिपत्ता त्वतथाभूतमपि तथात्वेनाभिमन्यते। निरो-धसमाधिमपेक्ष्य सम्प्रज्ञातोऽपि व्युत्थानमेवेति” विवरणम्।
“कथन्तर्हि दर्शितविषयत्वात्” --भा॰
“वृत्तिसारूप्यमितरत्र”

३ सू॰
“व्युत्थाने याः चित्तवृत्तयः तद्विशिष्टवृत्तिः पुरुषः। तथाच सूत्रं
“एकमेव दर्शनं”
“ख्यातिरेव दर्शनमिति”
“चित्तम् अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्य-त्वेन स्वंभवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधेपुरुषस्यानादिसम्बन्धोहेतुः” भाष्यम्।
“सूत्रान्तरमवतारयितुं पृच्छति कथन्तर्हि इति। यदिभवति न तथा केन तर्हि प्रकारेण प्रकाशतइत्यर्थः। हेतुपदमध्याहृत्य सूत्रं पठति। दर्शितविषयत्वात्। वृत्तिसारूप्यमितरत्र। इतरत्र व्युत्थाने[Page2934-b+ 38] याश्चित्तवृत्तयः शान्तघोरमूढास्ता एव विशिष्टा अभिन्ना-वृत्तयो यस्य पुरुषस्य स तथोक्तः सारूप्यमित्यत्र सशब्दएकपर्य्यायः। एतदुक्तं भवति जपाकुसुमस्फटिकयोरिवबुद्धिपुरुषयोः सन्निधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे समा-रीप्य शान्तोऽस्मि दुःखितोऽन्मिमूढोऽस्मीति अध्यवस्यति। यथा मलिने दर्पणतले प्रतिविम्बितं मुखं मलिनतामारोप्यशोचत्यात्मानं मलिनोऽस्मीति। यद्यपि पुरुषसमारोपोऽपिशब्दादिविज्ञानवत् बुद्धिवृत्तिः यद्यपि च प्राकृतत्वेना-चिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमापादयनपुरुषवृत्तिरिवानुभव इवावभासते। तथाचायमविपर्य्ययोऽ-प्यात्मा विपर्य्ययवानिवाऽभोक्तापि भोक्तेव विवेकख्याति-रहितोऽपि तत्सहित इवाविवेकख्यातेः प्रकाशते। एतच्चचितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदन-मित्यत्र सत्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशे-षोभोग इत्यत्र चोपपादयिष्यते। एतच्च मतान्तरेऽपिसिद्धमित्याह तथा चेति। पञ्चशिखाचार्य्यस्य सूत्रम्
“एकमेव दर्शनमिति”। ननु कथमेकं दर्शनं यावता बुद्धेःशब्दादिविषया बिवेकविषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या, दर्शनं ततोऽन्यत् पुरुषस्य, चैतन्यमनुभवौदर्शनमित्यत आह
“ख्यातिरेव दर्शनमिति” उदयव्यय-धर्म्मिणीं वृत्तिं ख्यातिं लौकिकीमभिप्रेत्यैतदुक्तमे-वेति चैकमव चैतन्यन्तु पुरुषस्य स्वभावो न ख्यातिः। तत्तुनलोकप्रत्यक्षगोचरोऽपि त्वागमानुमानगोचर इत्यर्थः। तद-नेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धे-तुकसंयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इतितमुपपादयन्नाह। चित्तं स्वं भवति। पुरुषस्य स्वामिनइति सम्बन्धः। ननु चित्तजनितमुपकारं भजमानो हिचेतनश्चित्तस्येशिता न चास्य तज्जनितोपकारसम्भव-स्तदसम्बन्धादनुपकार्य्यत्वात् तत्संयोगतदुपकारभागित्वेपरिणामप्रसङ्गादित्यत आह अयस्कान्तमणिकल्पंसन्निधिमात्रोपकारि दृश्यत्वेनेति। न पुरुषसंयुक्तं चि-त्तमपितु तत्सन्निहितं सन्निधिश्च पुरुषस्य न देशतःकालतो वा तदसंयोगात् किन्तु योग्यतालक्षणोऽस्ति चपुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग्यशक्तिः। तदुक्तम् दृश्यत्वेनेति। शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः। भोगश्च यद्यपि शब्दाद्याकारवृत्तिश्चित्तस्य धर्म्मस्तथापिचित्तचैतन्ययोरभेदसमारोपाद्वृत्तिसारूप्यात् पुरुषस्ये{??}त्युक्तम्। तस्माच्चितेनासंयोगेऽपि तज्जनितोपकारभागिता[Page2935-a+ 38] पुरुषस्यापरिणामिता चेति सिद्धम्। ननु स्वस्वामिसम्बन्धोभोगहेतुरविद्यानिमित्तोऽविद्या तु किन्निमित्ता न खलुनिर्निमित्तं कार्य्यमुत्पद्यते। यथाहुः
“स्वप्नादिवदवि-द्यायाः प्रवृत्तिः कस्य किंकृता” इति शङ्कामुपसंहार-व्याजेनोद्धरति। तस्मात् चित्तवृत्तिबोधे शान्तघोरमूढा-कारचितवृत्त्युपभोगे अनाद्यविद्यानिमित्तत्वादनादि-संयोगः हेतुः अविद्यावासनयोश्च सन्तानो वीजाङ्कुर-सन्तानवदनादिरिति भावः” विवरणम्। ( अन्तःकरणशब्दे

१९

५ पृ॰ अधिकमुक्तम्। कैवल्यपादे च ज्ञानज्ञेययोर्भेदव्यवस्थापनेन तद्विशेषउक्तो यथा
“कुतश्चैतदन्याय्यम्” भा॰
“वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्वाः” सू॰।
“बहुचित्तावलम्बनीभूतमेकं वस्तु साधारणं तत् खलुनैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्प्यं किन्तुस्वप्रतिष्ठितं कथं? वस्तुसाम्ये चित्तभेदात्, घर्म्मापेक्षं चि-त्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति, अधर्मापेक्षं ततएवदुःखज्ञानम्, अविद्यापेक्षं ततएव मूढज्ञानं सम्यग्दर्शना-पेक्षं ततएव माध्यस्थज्ञानमिति। कस्य तच्चित्तेन परिकल्पि-तं? नचान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो-युक्तः तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तःपन्था नानयोः सङ्करगन्धोऽप्यस्तीति साङ्ख्यपक्षे पुनर्बस्तु-त्रिगुणं चलञ्च गुणवृत्तमिति घर्मादिनिमित्तापेक्षचित्तै-रभिसंवद्ध्यते निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्यतेन तेनात्मना हेतुर्भवति। केचिदाहुर्ज्ञानसहभूरेवार्थो-भोग्यत्वात् सुखादिवदिति तत्र तया द्वारा साधारणत्वंधावमानाः पूर्वोत्तरेषु क्षणेषु वस्तुरूपमेवापह्नवते” भा॰तदेवमुत्मूत्रां भाव्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वासौत्रीं युक्तिमवतारयति कुतश्चैतदिति। वस्तुसाम्ये इतियन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते यथा चैत्रस्यज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भि-द्यते ज्ञाननानात्वेऽपि चार्थो न भिद्यते इति भवतिविज्ञानेभ्योऽन्यः अभेदश्चार्थस्य ज्ञानभेदेऽपि प्रमातॄणांपरम्परप्रतिसन्धानादवसीयते। अस्ति हि रक्तद्विष्टविमूढ-मध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसन्धानंया त्वया दृश्यते सैव मयापीति। तस्माद्वस्तुसाम्ये चित्त-भेदात् ज्ञानभेदात्तयोरर्थज्ञानयोर्विभक्तः पन्थाः स्वरूपमेदो-पायः सुखज्ञानं कान्तायाः कान्तस्य सपत्नीनां दुःखज्ञानंतामविन्दतो विषादः। स्यादेतत् यत्रैकस्य चित्तेन परि-[Page2935-b+ 38] कल्पित कामिनीलक्षणोऽर्थः तैनेवान्येषामपि चित्तमुप-रज्यते इति साधारणमुपपद्यते इत्यत आह नचान्येतितथा सत्येकस्मिन्नीलज्ञानवति सर्व्व एव नीलज्ञानवन्तःस्युरिति नन्वर्थवादिनामप्येकोऽर्थः कथं सुखादिभेदाद्भिन्न-विज्ञानहेतुर्न ह्यविलक्षणात् कारणात् कार्य्यमेदोयुक्तइत्यत आह साङ्ख्यपक्ष इति एकस्यैव बाह्यस्यवस्तुनस्त्रैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम्। एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानंस्यादित्यत आह धर्म्मादिनिमित्तापेक्षं रजःसहितंसत्वं धर्म्मापेक्षं सुखज्ञानं जनयति। एवमधर्म्मापेक्षंरजो दुःखं, तमस्तु तथाभूतं मूढज्ञानम्। सत्वमेव तुविगतरजस्कं विद्यापेक्षं माध्यस्थज्ञानमिति ते च धर्म्मा-दयो न सर्वे सर्वत्र पुरुषे सन्ति। किन्तु कश्चित् क्वचिदितिअभ्युपपन्ना व्यवस्थेति। अत्र केचिदाहुः प्रवादुकाः ज्ञा-नसहभूरेवार्थो भोग्यत्वात् सुखादिवदिति एतदुक्तंभवति भवत्यर्थोज्ञानात् व्यतिरिक्तः तथाप्यसौ जडत्वात्न ज्ञानमन्तरेण शक्यः प्रतिपत्तुंज्ञानेन तु भासनीयः-तथाच ज्ञानसमयएवास्ति नान्यदा प्रमाणाभावादितितदेतन्मतं तावत् दूषयति भाष्यकारः तत्र तया द्वारेतिवस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानंपरिणामात्मकमनुभूयते लौकिकपरीक्षकैः तच्चेद्विज्ञानेनसह भवेत् नूनमेवंविधमेव चेदिदमंशस्योपरि कोऽयमनु-रोघः येन सोऽपि नापह्नूयेतेत्यर्थः” विव॰।
“नचैकचित्ततन्त्रं वस्तुप्रदप्रमाणकं तदा किं स्यात्” सू॰।
“एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे वा-खरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृ-हीतस्वभावकं केनचित्तदानीं किं तत्स्यात्? सम्ब-ध्यमानं वा पुनश्चित्तेन कुत उत्पद्यत ये चास्यानुप-स्थिताभागास्ते चास्य न स्युरेवं नास्ति पृष्ठमित्युदरमपिन गृह्येत तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्व-तन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्त्तन्ते तयोः सम्ब-न्धादुपलब्धिः पुरुषस्य भोग इति” भा॰।
“मा वा भूदिदमंशस्यापह्नवीज्ञानसहमूरेवास्त्वर्थःतत्राप्याहनचैकं किं स्यात् यद्धि घटग्राहि चित्तं तद् यदा पटद्रव्य-व्यग्रतया न घटे वर्त्तते यद् वा विवेकविषयमासीत् तदेव चनिरोधं समापद्यते तदा घटज्ञानस्य वा विवेकज्ञानभेदमात्रजीवनस्तन्नाशान्नष्ट एव स्यादित्याह एकचित्तेति किंतत् स्यात् न स्यादित्यर्थः। संवध्यमानञ्च चित्तेन तदु[Page2936-a+ 38] वस्तु विवेकोवा घटो वा कुत उत्पद्यते नियतकारणान्वयव्यतिरेकानुविघायिभावानि हि कार्य्याणि न स्वका-रणमतिवर्त्य कारणान्तराद्भवितुमीशते, मा भूदकारणत्वेतेषां कादाचित्कत्वव्याघातः न च तज्ज्ञानकारणत्वमेवतत्कारणत्वमिति युक्तम्। आशाभोदकस्य उपार्ज्जि-तमोदकस्य वोपयुज्यमानस्य रसबीर्य्यविपाकादिसाम्यप्रसङ्गात् तस्मात् साधूक्तं सम्बध्यमानं वा पुनश्चित्तेनेति। अपि च योयोऽर्वाग्भागः स सर्वोमध्यपरभागव्याप्तःज्ञानाधीने सद्भावे त्वस्याननुभूयमानत्वान्मध्यपरभागौ नस्त इतिव्यापकाभावादर्वाग्भागोऽपि न स्यात् इत्यर्थाभा-वात् कुतो ज्ञानसहभूरर्थ इत्याह। ये चास्येति अनु-पस्थिता अज्ञाताः, उपसंहरति तस्मादिति सुगमंशेषम्” विवरणम्।
“तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्” सू॰।
“अयस्कान्तमणिकल्पा विषयाः। अयःसधर्म्मकं चित्त-मभिसम्बध्योपरञ्जयन्ति येन च विषयेणोपरक्तं चित्तंस विषयोज्ञातस्ततोऽन्यः पुनरज्ञातोवस्तुनोज्ञाताज्ञातस्व-रूपत्वात् परिणामि चित्तम्” भा॰।
“स्यादेतत् अर्थश्चेत् स्वतन्त्रः स च जडस्वभाव इति नकदाचित् प्रकाशेत प्रकाशने वा जडत्वमप्यस्यापगतमिति भावोऽप्यपगच्छेत् न जातु स्वभावमपहाय भावोव-र्त्तितुमर्हति न चेन्द्रियाद्याधेयो जडस्वभावस्यार्थस्यधर्म्मःप्रकाश इति साम्प्रतम् अर्थधर्म्मत्वे नीलत्वादिवत्सर्वपुरुषसाधारण इत्येकः शास्त्रार्थज्ञ इति सर्वएवविद्वांसः प्रसज्येरन् न जाल्मःकश्चिदस्ति। न चातीता-नागतयोः धर्म्म प्रत्युत्पन्नयुक्तः तस्मात् स्वतन्त्रोऽर्थौप-लम्भविषय इति मनोरथमात्रमेतदित्यत आहतदुपरागेति। जडस्वभावोऽप्यर्थ इन्द्रियप्रणाडिकयाचित्तमुपरञ्जयति तदेवंभूतं चित्तदर्पणमुपसंक्रान्तप्रतिवि-म्बा चितिशक्तिश्चित्तमर्थोपरक्तं चेतयमानार्थमनुभवतिनत्वर्थे किञ्चित् प्राकट्यादिकमाधत्ते नाप्यसंबद्धा चित्तेन,तत् प्रतिविम्बसंक्रान्तेरुक्तत्वादिति। यद्यपि च सर्वगतत्वा-च्चित्तस्य चेन्द्रियस्य चाहङ्कारिकस्य विषये नास्ति सम्बन्धःतथापि यत्र शरीरे वृत्तिमच्चितं तेन सह सम्बन्धो विष-याणामित्ययष्कान्तमणिकल्प इत्युक्तम् अयःसधर्मकंचित्तमिति। इन्द्रियप्रणालिकयाभिसंबध्योपरञ्जयन्तिअतएव चित्तं परिणामीत्याह वस्तुन इति” विव॰।
“यस्य तु तदेव चित्तं विपयस्तस्य सदाऽपरिणामित्वात्” भा॰। [Page2936-b+ 38]
“सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणांभित्वात्” सू॰।
“यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत् ततस्तद्विषयाचित्तवृत्तयः शब्दादिविषयवत् ज्ञाताज्ञाताः स्युः सदाज्ञातत्वन्तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति” भा॰।
“तदेवं चित्तव्यतिरेकेणार्थमवस्थाप्य तेभ्यः परिणति-धर्मकेभ्यो व्यतिरिक्तमात्मानमादर्शयितुं तद्वैधर्म्म्यमपरि-णामित्वमस्य वक्तुं पूरयित्वा सूत्रं पठति
“यस्य तु तदेवचित्तं विषयस्तस्य सदाऽपरिणामित्वात्”। क्षिप्तमूढवि-क्षिप्तैकाग्रतावस्थितं चित्तमानिरोधात् सर्वदा पुरुषेणा-नुभूयते वृत्तिमत् तत् कस्य हेतोः? यतः पुरुषोऽपरि-णामी परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञात-विषयो भवेत्। ज्ञातविषय एव त्वयं तस्मादपरिणापीततश्च परिणामिभ्योऽतिरिच्यते इति तदेतदाहयदि चित्तवदिति। सदा ज्ञातत्वं तु मनसः सवृत्ति-कस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् तस्य प्रभीःपुरुषस्यापरिणामित्वमनुमापयति तथाचापरिणामिनस्तस्यपरिणामिनश्चित्तात् पुरुषस्य भेद इति भावः” विव॰।
“स्यादाशङ्काचित्तमेव स्वाभासं विषयाभासञ्च वैशेषिकाण। चित्तात्मवादिनाञ्च भविष्यत्यग्निवत्” भा॰।
“न तत्स्वाभासं दृश्यत्वात्” सू॰।
“यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानितथा मनोऽपि प्रत्येतव्यम्। न चाग्निरत्र दृष्टान्तः न-ह्यग्निरात्मरूपमप्रकाशं प्रकाशयति। प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः न च स्वरूपमात्रेऽस्ति संयोगःकिञ्च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति श-ब्दार्थः। तद्यथा स्वात्मप्रतिष्ठमाकाशमित्यप्रतिष्ठमित्यर्थःस्वबुद्धिप्रचारप्रतिसंवेदनात् सत्वानां प्रवृत्तिर्दृश्यते। क्रुद्धोऽहम्भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इत्येतत्स्वबुद्धेरग्रहणे न युक्तमिति” भा॰।
“अत्र वैनाशिकमुत्थापयति स्यादाश{??} अयमथेः स्यादेत-देवं यदि चित्तमात्मनो विषयः स्यात् अपि तु स्वप्रकाशनेतत् विषयाभासं पूर्वचित्तं प्रतीत्य सदुत्पन्नं तत्कुतःपुरुपस्य सदा ज्ञानविषयत्वं कुतस्तरां वाऽपरि-णामतया परिणामिनश्चित्ताद्भेद इति भवे-देतदेवं यदि स्वसंवेदनं चित्तं स्यान्नत्वेतदस्तितद्धि परिणामितया नीलादिवदनुभवव्याप्यम्। यच्चानुभव-[Page2937-a+ 38] व्याप्यं न तत् स्वाभासं भवितुमर्हति स्वात्मनि वृत्तिवि-रीधात् नहि तदेव क्रिया च कर्म च कारकञ्च न हिपाकः पच्यते छिदा वा छिद्यते पुरुषस्त्वपरिणामी नानुभ-वकर्मेति नास्मिन् स्वयंप्रकाशता न युज्यते अपराधीनप्र-काशता ह्यस्य स्वयंप्रकाशता नानुभवकर्मता तन्मात् दृश्य-त्वात् दर्शनकर्म चित्तं न स्वाभासम् आत्मप्रकाशप्रतिवि-म्बितस्यैव चित्तस्य तावद्वृत्तिविषयाः प्रकाशन्त इतिभावः। ननु दृश्योऽग्निः स्वयं प्रकाशश्च न हि यथाघटादयोऽग्निना व्यज्यन्ते एवमग्निरग्न्यन्तरेणेत्यत आह। नचाग्निरत्रेति कस्मात्? न हीति मा नामाग्निरग्न्यन्तरात्प्रकाशिष्ट बिज्ञानात् तु प्रकाशत इति न स्वयं प्रकाशतइति न व्यभिचार इत्यर्थः। प्रकाशाद्व्यवच्छिनत्ति। क्रियारू-पः प्रकाश इति यावत् एतदुक्तं भवति या या क्रिया सासा सर्वां कर्तृकरणकर्मसम्बन्धेन दृष्टा यथा पाको दृष्टश्चैत्रा-ग्नितण्डुलसम्बन्धेन तथा प्रकाशोऽपि क्रियेति तयापि तथाभवितव्यं सम्बन्धश्च भेदाश्रयो नाभेदे सम्भवति इत्यर्थः। किञ्च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दा-र्थः। स्यादेतत् मा भूत् ग्राह्यं चित्तं न हि ग्रहणस्यकारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिः इत्यतआह स्वबुद्धीति बुद्धिश्चित्तं प्रचारा व्यापाराः सत्वाःप्राणिनश्चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण चसह प्रत्यात्ममनुभूयमानाश्चित्तस्याग्राह्यतां विघटयन्ती-त्यर्थः। स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति क्रुद्धोऽ-हमिति” विवरणम्।
“एकसमये च भयानवधारणम्”। सू॰।
“न चैकस्मिन् क्षणे स्वपररूपावधारणं युक्तं क्षणिकवादिनां यद् भवनं सैव क्रिया तदेव च कारकमित्यभ्युप-गमः”। भा॰।
“स्वाभासं विषयाभासं चित्तमिति व्रुवाणो न ता-वत् येनैव व्यापरेणात्मानमवधारयति तेनैव विषय-मपीति वक्तुमर्हति नह्यविलक्षणो व्यापारः कार्य्यभे-दाय पर्य्याप्तः, तस्माद्वापारभेदोऽङ्गीकर्त्तव्यः न च वैनाशि-कानामुत्पत्तिभेदातिरिक्तः अस्ति व्यापारः न चैकस्याए-वोत्पत्तेरविलक्षणायाः कार्य्यवैलक्षण्यसम्भवः तस्याकस्मि-कत्वप्रसङ्गात्। न चैकस्योत्पत्तिद्वयसम्भवः तस्मादर्थस्य चज्ञानरूपस्य चावधारणं नैकस्मिन् समये इति तदेतद्भाव्येणोच्यते न चैकस्मिन् क्षणे इति तथाचोक्तं वेनाशिकैः
“भतिर्यैषा क्रिया सैव कारकं सैव चोच्यते” इति तस्मा-[Page2937-b+ 38] द्दृश्यत्वमेतच्चित्तस्य सदातनं स्वाभासत्वमुपनयत् द्रष्टारञ्चद्रष्टुरपरिणामित्वं च दर्शयतीति सिद्धम्” विवरणम्।
“चित्तान्तरे दृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च” सू॰।
“स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण सम-सन्तरेण गृह्यत” इति। अथ चित्तं चेच्चित्तान्त-रेण गृह्येत बुद्धिः केन गृह्यते साप्यन्ययासाप्यन्ययेत्यतिप्रसङ्गः स्मृतिसङ्करश्च यावन्तोबुद्धिवृत्ती-नामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति तत्सङ्कराच्चे-कस्मृत्यनवधारणञ्च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुष-मपलपद्भिः वैनाशिकैः सर्वमेवाकुलीकृतं, ते तु भो-क्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते। केचित् सत्वमात्रमपि परिकल्प्यास्ति स सत्वो य एतान्स्कन्धान् निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा ततएवपुनस्त्रस्यन्ति तथा स्कन्धानां पुनन्निर्वेदाय विरागा-यानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्य्यं चरिष्या-मीत्युक्त्वा सत्वस्य पुनः सत्त्वमेवापह्नवते
“साङ्ख्ययोगाद-यस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्यभोक्तारमुपयन्तीति” भा॰।
“पुनर्वैनाशिकमुत्थापयति। स्यान्मतिः मा भूत् दृश्यत्वेनस्वसंवेदनम् एवमप्यात्मा न सिध्यति। स्वसन्तानवर्त्तिनाचरमचित्तक्षणेनंस्वरसनिरुद्धस्वजनकचित्तक्षणग्रहणादि-त्यर्थः। समञ्च तज्ज्ञानत्वेनानन्तरञ्च व्यवहितत्वेन स-मनन्तरं तेन। चित्तवृत्तयश्च। बुद्धिरिति चित्तमित्यर्थःनागृहीता चरमा बुद्धिः पूर्व्वबुद्धिग्रहणसमर्था ह्यनवबुद्ध-बुद्ध्या संबद्धा पूर्व्वा बुद्धिबुद्धा भवितुमर्हति। नह्यगृहीत-दण्डो दण्डिनमवगन्तुमर्हति तस्मादनवस्थेति विज्ञानवेदनसंज्ञारूपसंस्काराः स्कन्धाः। साङ्ख्ययोगादयः प्रवादाःसाङ्ख्याश्च योगाश्च तएवादयो येषां वैशेषिकादिप्रवादानान्तेसाङ्ख्ययोगादयः प्रवादाः सुगममन्यत्” विवरणम्।
“कथं?” भा॰
“चितेरप्रतिसंक्रमायास्तदाकारापत्तौस्वबुद्धिसंवेदनम्” सू॰।
“अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परि-णामिन्यप्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति तस्याश्चप्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारिमात्रतया बु-द्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते तथाचोक्तं
“नपातालं न च विबरं गिरीणां नैवान्धकारं कुक्षयो नो-दधीनाम्। गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्ति-विशिष्टं कवयो वेदयन्ते इति” भा॰। [Page2938-a+ 38]
“स्यादेतत् यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यंआत्मनापि कथं भोक्ष्यते चित्तं? न खल्वात्मन स्वयंप्रकाश-स्याप्यस्ति काचित् क्रिया न तामन्तरेण कर्त्ता न चास-म्बद्धश्चित्तेन कर्मणा तस्य भोक्ता अतिप्रसङ्गादित्याशय-वान् पृच्छ्रति कथमिति। सूत्रेणोत्तरमाह चितेरिति। यत् तदवोचत् वृत्तिसारूप्यमितरत्रेति तदितः समुत्थित-चित्तेः स्वबुद्धिसंवेदनं बुद्धेस्त्वदाकारापत्तौ चितिप्रति-विम्बाधारतया तद्रूपतापत्तौ सत्यां यथाहि चन्द्रमसःक्रियामन्तरेणापि संक्रान्तचन्द्रप्रतिविम्बममलं जलमचलंचलमिव चन्द्रमसमवभासयति एवं विनापि चितिव्या-पारम् उपसंक्रान्तचितिप्रतिविम्बं चित्तं स्वगतया क्रिययाक्रियावतीमसङ्गतामपि सङ्गतां चितिशक्तिमवभासयत्भोग्यभावमासादयत् भोक्तृभावमापादयति तस्या इतिसूत्रार्थः भाष्यमप्येतदर्थमसकृत्तत्र तत्र व्याख्यातम् इति नव्याख्यातमत्र बुद्धिवृत्त्यविशिष्टत्वे ज्ञानवृत्तेरागममुदाह-रति तथाचोक्तं न पातालभिति शाश्वतस्य शिवस्यव्रह्मणो विशुद्धस्वभावस्य चितिच्छायापन्नां मनोवृत्तिमेवचितिच्छायापन्नत्वाच्चितेरप्यविशिष्टां गुहां वेदयन्ते तस्या-मेव गुहायां तद् गुह्यं ब्रह्म तदवनयितुंस्वयंप्रकाशमनावरणमनुपसर्गं प्रद्योतते परमदेहख भगवत इतितदेवं दृश्यत्वेन चित्तस्य परिणामिन स्तदतिरिक्तः पुमानपरिणतिधर्म्मोप्युपादितः” विव॰।
“अथ चैतदभ्युपगम्यते” भा॰।
“द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्” सू॰।
“मनोहि मन्तव्येनार्थेनोपरक्तं तत् स्वयञ्च विषयत्वाद्वि-षयिणा पुरुषेणात्मीयया वृत्त्याभिसम्बद्धं तदेतच्चित्तमेवद्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपा-पन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फ-टिकमणिकल्पं सर्व्वार्थमित्युच्यते। तदनेन चित्तसारू-प्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः अपरे चित्त-मात्रमेवेदं सर्वं, नास्ति खल्वयं गवादिघटादिश्चसकारणो लोक इति, अनुकम्पनीयास्ते कस्मात्? अस्तिहि तेषां भ्रान्तिवीजं सर्वरूपाकारनिर्भासं चित्तमितिसमाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिविम्बीभूतस्तस्या-लम्बनीभूतत्वादन्यः स चेदर्थश्चित्तमात्रं स्यात् कथं प्रज्ञ-यैव प्रज्ञारूपमवधार्य्येत तस्मात् प्रतिविम्बीभूतोऽर्थः प्र-ज्ञायां येनाबधार्य्यते स पुरुष इति एवं ग्रहीतृग्रहण-ग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतत्तज्जातितः प्रविभजन्ते[Page2938-b+ 38] ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः वेदव्यासभाष्यम्
“संप्रति लोकप्रत्यक्षमप्यत्र प्रमाणयति। अत चैतदितिअवश्यं चैतदित्यर्थः। द्रष्ट्रित्यादि यथा हि नीला-द्यनुरक्तं चितं नीलाद्यर्थं प्रत्यक्षेणैवावस्थापयतिएवं द्रष्टृच्छायापत्त्या तदनुरक्तंचित्तं द्रष्टारमपिप्रत्यक्षेणावस्थापयति अस्ति हि द्व्याकारं ज्ञानंनीलमहं सम्प्रत्येमि” इति तस्मात् ज्ञेयवत् ज्ञाता-पि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो यथा जलेचन्द्रमसो विम्बं नत्वेतावता तदप्रत्यक्षं न चास्य जल-गतत्वे तदप्रमाणमिति चन्द्ररूपेण प्रमाणं भवितुमर्हति तस्माच्चिते प्रतिविम्बिततया चैतन्यगोचरा{??}चित्तवृत्तिर्न चैतन्यागोचरेति तदिदं सर्व्वार्थत्वं चित्त-स्येति तदेतदाह मनोहीति न केवलः तदाकारापत्त्यामन्तव्येनार्थेनोपरक्तं मनः अपितु स्वयं चेति चकारोभिन्नक्रमः पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः तच्छायापत्तिःपुरुषस्य वृचिः इयञ्च चैतन्यच्छायपत्तिश्चित्तस्य वैनाशिकैरभ्युपेतव्या कथमन्यथा चित्ते चैतन्यमेते आरोपयाभ्वभूबुरित्याह तदनेनेति केचिद्वैनाशिका बाह्यार्थवादिनः। अपरे विज्ञानमात्रवादिनः। ननु यदि चित्तमेवद्रष्ट्राकारं दृश्याकारं चानुभूयते हन्त चित्तादभिन्नायेवस्त द्रष्टृदृश्यौ यथाहुः।
“अभिन्नो ऽपि हि बुद्ध्यात्माविपर्य्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिवलक्ष्यते” इति तत्कथमेतेऽनुकम्पनीया इत्यत आह। समाधिप्रज्ञायामिति ते खलूक्ताभिरुपपत्तिभिश्चित्तातिरिक्तं पुरुषमभ्युपगमय्याप्याष्टाङ्गयोगोपदेशेन समाधि-प्रज्ञायामात्मगोचरायामवतार्य्य बोधयितव्याः। तद्-यथा समाधिप्रज्ञायां प्रज्ञेयोऽर्थः आत्मप्रतिविम्बी-भूतोऽन्थः कस्मात्? तस्यात्मनः आलम्बनीभूतत्वात् अथचित्तादभिन्नमेव कस्मान्नालम्बनं भवतीति यदि युक्ति-र्बोधितापि वैजात्याद्वदेत् तत्र हेतुमाह स चेदात्मरूपोऽर्थःचित्तमात्रं स्यात् न तु ततो व्यतिरिक्तः ततः कथं प्रज्ञ-यैव प्रज्ञारूपमवधार्य्येत स्वात्मनि वृत्तिविरोधात्। उप-संहरति तस्मादिति। समीचीनोपदेशेनानुकम्पिता भव-न्तीति आह। एवमेतदिति जातितः स्वमावतः इत्यर्थः” वि॰।
“इतश्चैतत्--तदसङ्ख्येयवासनाभिश्चित्रभपि परार्थंसंहत्यकारित्वात्” सू॰।
“तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपिपरार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वादु-[Page2939-a+ 38] गृहवत् संहत्यकारिणा चित्तेन न स्वार्थेन भवितष्यं नसुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थं यश्च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः स एवपरो, न परः सामान्यमात्रम् यत्तु किञ्चित्परं सामान्य-मात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत् सर्व्वं संहत्यकारि-त्वात् परार्थमेव स्यात्। यस्त्वसौ परोविशेषः स न संह-त्यकारी पुरुष इति” भा॰।
“चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति इत-श्चेति। यद्यप्यसङ्ख्येयाः कर्म्मवासनाः गुणवासनाश्चचित्तमेवाधिशेरते न तु पुरुषं, तथाच वासना-षीना विपाकाश्चित्तमाश्रयतया चित्तस्य भोक्तृतामाव-हन्ति। भोक्तुरर्थे च भोग्यमिति सर्वं चित्तार्थंप्राप्तं तथापि तच्चित्तमसङ्ख्येववासनाविचित्रमपि परार्थं,क{??}त्? संहत्यहारित्वादिति सूत्रार्थः। व्याच-ष्टे तदेदिति। स्यादेतच्चित्तं संहत्यापि करिष्यति स्या-र्वञ्च भविणति कः स्वलु विरोघ इति यदि कश्चित्ब्रूयात् तं प्रत्याह। संहत्यकारिणेति सुणचित्तमितिगोगमुपलक्षयति तेन दुःखचित्तमपि द्रष्टव्यं ज्ञानमित्य-पवर्न उक्तः। एतदुक्तं भवति सुखदुःखचित्ते प्रतिकूलानु-{??}त्मके नात्मनि सम्भवतः स्वात्मनि वृत्तिविरोधात्न चान्योऽपि संहत्यकारी साक्षात् परम्परया वा सुखदुःखेवेदधानस्ताभ्यामसुकूलनीयः प्रतिकूलनीयो वा तस्मादयंपाक्षात् परम्परया वा न सुखदुःखयार्व्वाप्रियते स एवा-{??}मनुकूलनीयः प्रतिकूलनीयो वा, स च नित्योदासीनःपुरुषः एवभपवृज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्र-त्वात् खात्मनि च वृत्तिविरोधान्न ज्ञानार्थत्वं न चान्य-विषयादस्पादपवर्गसम्भवो विदेहप्रकृतिलयानामपवर्गा-सम्भवात् तखात्तज्ज्ञानमपि पुरुषार्थमेव न तत् स्वार्थंसंहतपरार्थत्वे चानवस्थाप्रसङ्गादसंहतपरार्थसिद्धिरिति” विव॰।
“विशेषदर्शिनस्मात्मभावभावनानिवृत्तिः” सू॰।
“यथा प्रवृषि तृणाङ्कुरखोद्भेदेन तद्वीजसत्तानुमीयतेतथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येतेतत्राप्पस्ति विशेषदर्शनवीजनपवर्गभागीयं कर्माभिनिर्वर्त्तितमित्यनुमीयते तस्यात्मभावभावना स्वाभाविकी प्रवर्त्ततेयस्वाभावादिदमुक्तं स्वागावमुक्त्वा दोषाद् येषां पूर्वपक्षेरुचिर्भवत्यरुचिश्च निर्णये षवति। तत्रात्मभावभावनाकोऽहमासं क{??}महभाणं किं खिदिदं? कथं? खिदिदं[Page2939-b+ 38] के भविष्याभः कथं भविष्यामः? इति। सा तु विशे-षदर्शिनो निवर्त्तते कुतः चित्तस्यैवैष विचित्रः परिणामःपुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इतिततोऽप्यात्मभावभावना कुशलस्य निवर्त्तत इति” भा॰।
“तदेवं कैवल्यमूलवीजममलमात्मदर्शनमुक्त्वा तदुपदेशाधि-कृतं पुरुषमनधिकृतपुरुषान्तराद्व्यावृत्तमाह। विशेषे-त्यादि यस्यात्मभावे भावनास्ति तस्याष्टाङ्गयोगोपदेशा-द्यनुतिष्ठतो युञ्जानस्य तत्परिपाकात् चित्तसत्वपुरुषयो-र्विशेषदर्शनादात्मभावभावना निवर्त्तते। यस्यात्मभावभावनैवनास्ति नास्तिकस्य, तस्योपदेशानधिकृतस्यापरिनिश्चितात्म-तत्परलोकभावस्य नोपदेशो न विशेपदर्शनं नात्मभाव-भावनानिवृत्तिरिति सूत्रार्थः नन्वात्मभावभावनायाःचित्तवर्त्तिन्याः कुतोऽवगमः? इत्यत आह यथाप्रावृषीति प्राग्भवीयं तत्त्वदर्शनवीजमपवर्गभागीयंयत्कर्मांष्टाङ्गयोगानुष्ठानं तदेकदेशानुष्ठानं बा तदभिनि-र्वर्त्तितमस्तीत्यनुमीयते तस्य चात्मभावभावनाऽ-वश्यमेव स्वाभाविकी वस्त्वभ्यासं विनापि प्रबर्त्तते अनधिकारिणमागमिनां वचनेन दर्शयति यस्याभावादिदमितिपूर्व्वपक्षो नास्ति कर्मफलं, परलोकिनोऽभावात् परलोका-भाव इति तत्र रुचिः, अरुचिश्च निर्णये पञ्चविंशतितत्त्व-विषये। आत्मभावभावना प्राग्व्याख्याता। विशेषदर्शिनःपरामर्शमाह चित्तस्यैवेति तस्य विशेषदर्शनकुशलस्या-त्सभावभावना विनिवर्त्तते इति” विवरणम्। ( चित्तस्य च वाह्येन्द्रियव्यापारं विना बाह्यार्थेष्वसा-मर्थ्यं, गुणभेदेन विकारभेदाश्च पञ्चदश्यामुक्ता यथा
“गनोदशेन्दियाध्यक्षं हृत्पद्मगीलके स्थितम्। तच्चान्तः-करणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः। अक्षेष्वर्थार्पिते-ष्वेतद्गुणदोषविचारकम्। सत्वं रजस्तमश्चास्य गुणाविक्रियते हि तैः। वैराग्यं क्षान्तिरौदार्य्यमित्याद्याःसत्वसम्भवाः। कामक्रोधौ लोभयत्नावित्याद्या रजसो-त्थिताः। आलस्यभ्रान्तितन्त्राद्या विकारास्तमसोत्थिताः। सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः। तामसैर्नो-भयं किन्तु वृथायुःक्षपणं भवेत्”। पातञ्जलमते तस्य वृत्तयःपञ्चविधास्तासां स्वरूपादिकं समाधिपादे सूत्रभाष्य विव-रणादौ दर्शितं तच्च क्लिष्टाशब्दे

२३

४४ पृ॰ दर्शित्म

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्त¦ n. (-त्तं) The mind or faculty of reasoning, the heart considered as the seat of intellect. E. चित् to consider, and करणे क्त aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्त [citta], p. p. [चित्-क्त]

Observed, perceived.

Considered, reflected or meditated upon.

Resolved

Intended, wished, desired.

Visible, perceptible.

त्तम् Observing, attending.

(a) Thought, thinking, attention; (b) desire, intention, aim; मच्चित्तः सततं भव Bg.18.57; अनेकचित्तविभ्रान्त 16.16.

The mind; यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणः Śānti.1.22; so चलचित्त and comps. below.

The heart (considered as the seat of intellect).

Reason, intellect, reasoning faculty.

Knowledge; चित्तं चित्तादुपागम्य मुनिरासीत संयतः । यच्चित्तं तन्मयो वश्यं गुह्यमेतत्सनातनम् ॥ Mb.14.51.27.-Comp. -अनुवर्तिन् a. acting according to one's will, humouring. -अपहारक, -अपहारिन्, -आकर्षिन्, -हारिन् a.

'heart-stealing', attractive, captivating.

pleasing, agreeable, beautiful. -अर्पित a. preserved in the heart; चित्तार्पितनैषधेश्वरा N.9.31. -आभोगः attention of the mind to its own feelings, exclusive attachment to one thing. -आसङ्गः attachment, love. -उद्रेकः pride, arrogance. -ऐक्यम् agreement, unanimity. -उन्नतिः, -समुन्नतिः f.

noble-mindedness.

pride, arrogance.-कलित a. anticipated, expected, calculated. -खेदः grief -चारिन् a. acting according to the will of another. -जः, -जन्मन् m.,

भूः, योनिः love, passion.

Cupid, the god of love; चित्तयोनिरभवत्पुनर्नवः R.19.46; सो$यं प्रसिद्धविभवः खलु चित्तजन्मा Māl.1.2. -ज्ञ a. knowing the mind of another; ते बहुज्ञस्य चित्तज्ञे पत्न्यै, पत्नौ पत्युर्महीक्षितः R.1.56. -नाथः lord of the heart; चित्तनाथमभिशङ्कितवत्या Śi.1.28. -नाशः loss of conscience. -निर्वृत्तिः f. contentment, happiness. -प्रमाथिन् a. moving or touching the heart, exciting passion or love. -प्रशम a. composed, tranquil. (-मः) tranquility of heart. -प्रसन्नता joy, pleasure.

भेदः difference of view.

inconsistency, inconstancy. -मोहः infatuation of the mind.-रक्षिन् a. (= -चारिन्); शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी Mb.3.233.2. -रागः affection, passion, desire. -विकारः change of thought or feeling -विक्षेपः distraction of the mind. -विप्लवः, -विभ्रंशः, -विभ्रमः aberration, disturbance or derangement of mind, madness, insanity; स्वप्नो$यं चित्तविभ्रंश उताहो सत्यमेव तु Mb.13.54.15. -विश्लेषः breach of friendship. -वृत्तिः f.

disposition or state of the mind, inclination, feeling; एवमात्माभिप्रायसंभावितेष्टजन- चित्तवृत्तिः प्रार्थयिता विडम्ब्यते Ś.2.

thinking, imagining.

inward purpose, emotion.

(in Yoga phil.) inward working of the mind, mental vision; योगश्चित्तवृत्ति- निरोधः Yoga S. -वेदना affliction, anxiety. -वैकल्यम् bewilderment of the mind, distraction. -सङ्ख्य a. pervading the heart, penetrating the soul. -हारिन् a. fascinating, attractive, agreeable.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्त mfn. " noticed "See. अ-चित्त

चित्त mfn. " aimed at " , longed for ChUp. vii , 5 , 3

चित्त mfn. " appeared " , visible RV. ix , 65 , 12

चित्त n. attending , observing( तिरश् चित्तानि, " so as to remain unnoticed ") , vii , 59 , 8

चित्त n. thinking , reflecting , imagining , thought RV. VS. S3Br. etc.

चित्त n. intention , aim , wish RV. VS. AV. TBr. etc.

चित्त n. ( Naigh. iii , 9 ) the heart , mind TS. i S3vetUp. vi , 5 MBh. etc. ( ifc. f( आ). Pan5cat. )

चित्त n. memory W.

चित्त n. intelligence , reason KapS. i , 59 Yogas. i , 37 ; ii , 54 Veda7ntas.

चित्त n. (in astrol. ) the 9th mansion VarYogay. iv , 1

चित्त n. See. इह-, चल-, पूर्व-, प्रायश्-, लघु-, सु-, स्थिर-.

चित्त See. 4. चित्.

"https://sa.wiktionary.org/w/index.php?title=चित्त&oldid=499559" इत्यस्माद् प्रतिप्राप्तम्