चित्रकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकः, पुं, (चित्रेण चित्र इव वा कायति । कै + कः ।) व्याघ्रः । इति हेमचन्द्रः । ४ । ३५१ ॥ व्याघ्रभेदः । चितावाध् इति भाषा । तत्- पर्य्यायः । चित्रकायः २ उपव्याध्रः ३ मृगा- न्तकः ४ शूरः ५ क्षुद्रशार्दूलः ६ चित्रव्याध्रः ७ ॥ वृक्षविशेषः । चिता इति भाषा ॥ तत्पर्य्यायः । अग्निः २ शार्दूलः ३ चित्रः ४ पाचीकटुः ५ शिखी ६ कृशानुः ७ दहनः ८ व्यालः ९ ज्योतिष्कः १० पालकः ११ अनलः १२ दारुणः १३ वह्निः १४ पावकः १५ शम्बरः १६ पाची १७ द्वीपी १८ चित्राङ्गः १९ शूरः २० । अस्य गुणाः । अग्निसमत्वम् । पाके कटुत्वम् । शोफ- कफार्त्तिवातोदरार्शोग्रहणीकृमिकण्डुनाशित्वञ्च । इति राजनिर्घण्टः ॥ पाकेऽग्नितुल्यत्वम् । कुष्ठ- नाशित्वम् । इति राजवल्लभः ॥ (यथा, शब्दार्थ- चिन्तामणिधृतवचनम् । “चित्रकः कटुकः पाके वह्निकृत् पाचनो लघुः । रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् ॥ वातश्लेष्महरो ग्राही वातार्शःश्लेष्मपित्तहृत् । विचित्रं चैत्रकं शाकं काशमर्द्दविमर्द्दितम् ॥ तप्ततैले सवाह्लीके पाचितं तक्रसम्भृतम् ॥” ओषधिविशेषः । यथा, सुश्रुते सूत्रस्थाने ३६ अध्याये । “पूतिकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥”) एरण्डवृक्षः । इत्यमरः । २ । ४ । ५१ ॥ (चित्र + क्वुन् ।) चित्रकारः । इति हेमचन्द्रः ॥ (मुचुकुन्दः । यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । मुचुकुन्दः क्षत्रवृक्षश्चित्रकः प्रतिविष्णुकः ॥” अस्य गुणः । शिरःपीडापित्तास्रविषनाशित्वञ्च ॥)

"https://sa.wiktionary.org/w/index.php?title=चित्रकः&oldid=134346" इत्यस्माद् प्रतिप्राप्तम्