चित्ररथः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्ररथः, पुं, (चित्रो रथो यस्य ।) सूर्य्यः । गन्धर्व्वविशेषः । इति मेदिनी । थे, २८ ॥ शेषस्य पर्य्यायः । गन्धर्व्वराजः २ अङ्गारपर्णः ३ कुवेर- सखः ४ दग्धरथः ५ । (यथा, महाभारते । १ । १७१ । ३७ -- ३९ । गन्धर्व्व उवाच । “जितोऽहं पूर्ब्बकं नाम मुञ्चाम्यङ्गारपर्णताम् । न च श्लाधे बलेनाङ्ग ! न नाम्ना जनसंसदि ॥ साध्विमं लब्धवा~ल्लाभं योऽहं दिव्यास्त्रधारिणम् । गान्धर्व्व्या माययेच्छामि संयोजयितुमर्ज्जुनम् ॥ अस्त्राग्निना विचित्रोऽयं दग्धोमे रथ उत्तमः । सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥”) स तु मुनिनाम्न्यां दक्षकन्यायां कश्यपौरसा- ज्जातः । इति महाभारते । १ । ६५ । ४३ ॥

"https://sa.wiktionary.org/w/index.php?title=चित्ररथः&oldid=134406" इत्यस्माद् प्रतिप्राप्तम्