चिप्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिप्पः, पुं, (चिक्वति पीडयति अङ्गुलिमिति । चिक्व + अच् । निपातनात् क्कस्थाने प्पागमे साधुः ।) नखरोगविशेषः । आङ्गुलहाडा इति भाषा ॥ तल्लक्षणं यथा, -- “नखमांसमधिष्ठाय वातः पित्तञ्च देहिनाम् । करोतिदाहपाकौ च तं व्याधिं चिप्पमादिशेत् ॥” अथ कुनखस्य लक्षणमाह । “अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः । भवेत्तं कुनखं विद्यात् कुशीरं वा विधानतः ॥” अथ तयोश्चिकित्सा । “चिप्पं रुधिरमोक्षेण शोधनेनाप्युपाचरेत् । गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा । शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावथेत्ततः ॥ व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः । स्वरसेन हरिद्रायाः पात्रे कृत्वायसेऽभयाम् ॥ घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः । काश्मर्य्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः ॥ अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति । श्लेष्मविद्रधिकल्पेन कुनखं समुपाचरेत् ॥ नखकोटिप्रविष्टेन टङ्कणेन प्रशाम्यति । कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि च ॥” इति भावप्रकाशे मध्यखण्डे ४ र्थ भागः ॥ (लक्षणान्तरमस्य यथा, -- “कुर्य्यात् पित्तानिलं पाकं नखमांसे सरुग् ज्वरम् चिप्पमक्षतरोगञ्च विद्यादुपनखञ्च तम् ॥” इति वाभटेनोत्तरस्थाने ३१ अध्याये उक्तम् ॥ चिकित्सास्य यथा, -- “चिप्पं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्म्मणा ॥” इत्युत्तरस्थाने द्वात्रिंशेऽध्याये वाभटेन चोक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिप्प¦ पु॰
“नखमांसमधिष्ठाय वातं पित्तं च देहिनाम। करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत्” भाव॰ उक्ते नखरोगभेदे। (आङ्गुल हाडा)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिप्पः [cippḥ], A disease of the finger nail; also चिप्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिप्प See. चिप्य.

"https://sa.wiktionary.org/w/index.php?title=चिप्प&oldid=366888" इत्यस्माद् प्रतिप्राप्तम्