चुक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्रम्, क्ली, (चकते तृप्यत्यनेन इति । चक + “चकि- रम्योरुच्चोपधायाः ।” उणां । २ । १४ । इति रक् उपधाया उच्च ।) अम्बद्रव्यविशेषः । महादा इति ख्यातम् । तत्पर्य्यायः । तिन्तिडीकम् २ वृक्षाम्लम् ३ । इत्यमरः । २ । ९ । ३५ ॥ चुक्र- कम् ४ । इति शब्दरत्नावली ॥ महाम्लम् ५ । इति जटाधरः ॥ (अम्लवृक्षकम् ६ । इति भाव- प्रकाशः । १ । १ ॥) पत्रशाकविशेषः । चुक इति भाषा ॥ तत्पर्य्यायः । चुक्रवास्तूकम् २ लिकु- चम् ३ अम्लवास्तुकम् ४ दलाम्लम् ५ अम्ल- शाकाख्यम् ६ अम्लादि ७ हिलमोचिका ८ । अस्य गुणाः । अम्लपत्रत्वम् । लघुत्वम् । उष्ण- त्वम् । वातगुल्मनाशित्वम् । रुच्यग्नीषत्पित्त- कारित्वम् । पथ्यत्वम् । तत्पर्य्यायगुणाः । “चुक्रिया स्यात्तु पत्राम्ला रोचनी शतवेधिनी । चुक्रा त्वम्लतरा स्वाद्बी वातध्नी कफपित्तकृत् ॥ रुच्या लघुतरा पाके वृन्ताके नातिरोचनी ॥” इति भावप्रकाशः ॥ * ॥ (“चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम् । शूलगुल्मविबन्धामवातश्लेष्महरं परम् ॥ वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् ॥” इति शब्दार्थचिन्तामणिधृतवैद्यकम् ॥) काञ्जिकप्रभेदः । तत्पर्य्यायः । सहस्रवेधम् २ रसाम्लम् ३ चुक्रवेधकम् ४ शाकाम्लभेदनम् ५ चन्द्रम् ६ अम्लसारम् ७ चुक्रिका ८ । अस्य गुणाः । तिक्तत्वम् । अम्लत्वम् । स्वादुत्वम् । कफपित्तनासिकारोगदुर्गन्धशिरोरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ सन्धानविशेषः । यथा, “यन्मस्त्वादिशुचौ भाण्डे सगुडक्ष्रौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ द्विगुणं गुडमध्वारनालमस्तु क्रमादिह ॥” इति परिभाषा ॥ (अस्य लक्षणं यथा, -- “विनष्टे संहितो यस्तु तच्चुक्रमभिधीयते ॥” इति शार्ङ्गधरे मध्यखण्डे दशमेऽध्याये ॥)

चुक्रः, पुं, (चकते तृप्यतेऽनेनेति । चक + रक् उप- धाया उच्च ।) अम्लः । अम्लवेतसः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र पुं।

अम्लवेतसः

समानार्थक:सहस्रवेधिन्,चुक्र,अम्लवेतस,शतवेधिन्

2।4।141।1।2

सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि। नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

चुक्र नपुं।

तिन्तिडीकस्याम्लभेदः

समानार्थक:तिन्तिडीक,चुक्र,वृक्षाम्ल

2।9।35।2।2

कलम्बश्च कडम्बश्च वेसवार उपस्करः। तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र¦ न॰ चक--रक् अत उत्त्वञ्च।

१ अम्लरसे

२ अम्लवेतसपु॰ विश्वः

२ शाकभेदे, (चुकापालङ्ग)

३ शुक्तभेदे चशब्दार्थचि॰।
“चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनपरम्। शूलगुल्मविबन्धामवातश्लेष्महरम परम्। वमितृष्णास्यवैरस्यहृत् पीडावह्निमान्द्यहृत्” भावप्र॰।

५ काञ्चिकप्रभेदे।

६ रसाम्ले

७ सन्धानविशेषे शब्दार्थचि॰
“यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्रकाञ्जिकम्। धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते। द्विगुणंगुडमध्वारनालमस्तुक्रमादिह” वैद्यकपरिभाषा। ततःदृढा भावे इमनिच्। चुक्रिमन् अम्लत्वे पु॰। स्वार्थेक संज्ञायां वा कन्। चुक्रक तत्रार्थे। (चुकपालङ्)शाके न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र¦ m. (-क्रः)
1. Sorrel.
2. Sourness. n. (-क्रं)
1. Acid seasoning.
2. Vine- gar made by the acetous fermentation of grain. f. (-का or -क्री)
1. Indian sorrel, (Rumex vesicarius.)
2. Hogplum.
3. The tamarind. E. चक् to satisfy, Unadi affix रक्, and the radical vowel changed to उ; also with कन् चुक्रक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्रः [cukrḥ], [चक्-रक् अत उत्वं च Uṇ.2.15]

A kind of cane or sorrel.

Sourness. -क्रम् Sourness, acidity. -Comp. -अम्लम् vinegar made by the acetous fermentation of grain.

(म्ला) a tamarind tree.

a kind of sour rice-gruel. -फलम् the tamarind fruit. -वास्तूकम् woodsorrel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र mn. [ L. ]vinegar made by acetous fermentation (of grain or of -फल) Hariv. 8439 ff. Sus3r.

चुक्र mn. sorrel

चुक्र n. = -वेधकL.

"https://sa.wiktionary.org/w/index.php?title=चुक्र&oldid=368496" इत्यस्माद् प्रतिप्राप्तम्