सामग्री पर जाएँ

चूडाकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूडाकरणम्, क्ली, (चूडायाः करणं कर्म्म ।) दशसंस्कारान्तर्गतसंस्कारविशेषः । तस्य क्रमो यथा । कुलाचारवशात् प्रथमे तृतीये वा वर्षे चूडाकरणं कर्त्तव्यम् । तत्र प्रथमं प्रातः- कृतस्नानः कृतवृद्धिश्राद्धः पिता सत्यनामान- मग्निं संस्थाप्य विरूपाक्षजपान्तां कुशण्डिकां समाप्याग्नेदंक्षिणत एकविंशतिदर्भपिञ्जलीः सप्त- सप्तभिरेकीकृत्य कुशान्तरेण वेष्टयित्वा उष्णो- दकसहितं कांस्यपात्रं ताम्रनिर्म्मितक्षुरं तदभावे दर्पणं वा लौहक्षुरपाणिञ्च नापितं स्थापयेत् अग्नेरुत्तरतो वृषगोमयं तिलतण्डुलमाषसिद्धञ्च कृशरं अग्नेः पूर्ब्बतो मिश्रितब्रीहियवतिलमाष- पूरितपात्रत्रयं स्थापयेत् । माता शुचिना वस्त्रेण कुमारमाच्छाद्य क्रोडे निधाय अग्नेः पश्चिमतो भर्त्तुर्व्वामपार्श्वे उत्तराग्रेषु कुशेषु प्राङ्मुखी उपविशति । ततः पिता प्रकृतकर्म्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा व्यस्तसमस्तमहाव्याहृतिहोमं कुर्य्यात् । प्रजापतिरृषिर्गायत्त्री छन्दोऽग्निर्देवता महा- व्याहृतिहोमे विनियोगः । ओ~ भूः स्वाहा । प्रजापतिरृषिरुष्णिक् छन्दो वायुर्देवता महा- व्याहृतिहोमे विनियोगः । ओ~ भुवः स्वाहा । प्रजापतिरृषिरनुष्टुप् छन्दः सूर्य्यो देवता महा- व्याहृतिहोमे विनियोगः । ओ~ स्वः स्वाहा । प्रजापतिरृषिर्बृहती छन्दः प्रजापतिर्देवता व्यस्तसमस्तमहाव्याहृतिहोमे विनियोगः । ओ~ भूर्भुवः स्वः स्वाहा । ततः पिता उत्थाय प्राङ्- मुखः कुमारस्य मातुः पश्चादवस्थितः क्षुरपाणिं नापितं पश्यन् तमेव सवितृरूपं ध्यायन् जपति । प्रजापतिरृषिः सविता देवता चूडाकरणे विनियोगः । ओम् आयमगात् सविता क्षुरेण । तत उष्णोदकसहितं कांस्यपात्रं पश्यन् वायुं मनसा ध्यायन् जपति । प्रजापतिरृषिर्वायु- र्देवता चूडाकरणे विनियोगः । ओ~ उष्मेण वाय उदकेनैधि । ततः कांस्यपात्रस्थितोष्णो- दकेन दक्षिणहस्तगृहीतेन दक्षिणकपुष्णिकाम- नेन मन्त्रेण क्लेदयति । कपुष्णिकाशब्देन दक्षिणो- णाय दक्षिणां दद्यात् । कृशरधान्ययवतिल- माषशरावान् नापिताय दद्यात् । इति चूडा- करणं समाप्तम् ॥” इति भवदेवभट्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूडाकरण¦ n. (-णं) Shaving the head all but one lock, considered as a religious, and purificatory rite; it should be performed in the first or third year. E. चुडा, and करण making.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूडाकरण/ चूडा--करण n. " forming the crest " , the ceremony of tonsure(= चौल, one of the 12 purificatory rites [ RTL. p. 353 and 359 ] performed on a child in the Ist or 3rd year) Kaus3. Gobh. Pa1rGr2. Gr2ihya1s. BhavP. PSarv. Smr2itit. iii.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूडाकरण न.
(चूडा क्रियते अस्मिन्) बच्चे के शिर पर चोटी रखने का कृत्य, शां.गृ.सू. 1.28.1; इसे ‘चौल’ भी कहते हैं, आप.श्रौ.सू. 16.3. यह मुण्डन-संस्कार तीसरे वर्ष में अनुष्ठित होता है (अथवा वर्ण के अनुसार काल में वैभिन्न्य हो सकता है), लड़की के लिए अमन्त्रक (विना मन्त्र के), आश्व.श्रौ.सू. 1.17.19. पात्रों को विभिन्न अनाजों से आपूरित कर दिया जाता है, बच्चा (शिशु) अपनी माँ की गोद में बैठता है; पिता बच्चे के शिर को गरम एवं ढण्डे जल तथा दही से आर्द्र (गीला) करता है एवं ताँबे के उस्तरे से उसके (शिर के) बाल को मूंडता है। माता बाल को बैल के गोबर में रखती हैं, बाल के चोटियों (शिखाओं) की संख्या 1,2 अथवा 5, बौ.गृ.सू. 2.4 या कुल की परम्परा (प्रथा) के अनुसार रखी जाती है। पा.गृ.स. 2.1.22, अथवा प्रवर की संख्या के अनुसार आप.गृ.सू. 16.6; काठ.गृ.सू. उल्लेख करता है कि वसिष्ठ लोग दायें भाग में चोटी (कपुच्छा) रखते हैं जबकि अत्रि लोग दोनों ओर, भृगु लोग अपने शिर को पूर्णतया गंजा रखते हैं। अङिगरस् लोग पाँच जूड़े अथवा बाल की एक पंक्ति रखते हैं, 11.2.6; ‘कुपुच्छला’ भी देखें, शां.गृ.सू. 1.28.117; आश्व.श्रौ.सू. 1.17.1-19; पा.गृ.सू. 2.1-1.25; गो.गृ.सू. 2.9.1-29; चूडाकरण, हि.गृ.सू. 2.6.1-2०।

"https://sa.wiktionary.org/w/index.php?title=चूडाकरण&oldid=478360" इत्यस्माद् प्रतिप्राप्तम्