सामग्री पर जाएँ

च्यवनप्राश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्यवनप्राश¦ पु॰ च्यवनेन प्राश्यते प्र + अश॰ कर्मणि घञ्। चक्रदत्तोक्ते औषधभेदे यथा
“विल्वाग्निमन्थश्योनाककाश्मर्य्यः पाटली बला। पर्ण्य-श्चतस्रः पिप्पल्यः श्वदंष्ट्रा वृहतीद्वयम्। शृङ्गी ता-मलकी द्राक्षा जीवन्ती पुष्करा गुरु। अभया सामृताऋद्धिर्जीर्वकर्षभकौ शठी। मुस्तं पुनर्णवा मेदा सूक्ष्मै-लोत्पलचन्दने। विदारी वृषमूलानि काकोली काक-नासिका। एषां पलोन्मितान् भागान् शतान्यामल-कस्य च। पञ्च दद्यात् तदैकध्यं जलद्रोणे विपाचयेत्। ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्। तच्चाम-लकमुद्धृत्य निष्कुलं तैलसर्पिषोः। पलद्वादशके भृष्ट्वादत्त्वा चार्द्धतुलां भिषक्। मत्स्यण्डिकायाः पूतायालेहवत् साधु साधयेन्। षट्पलं मधुनश्चात्र सिद्धशीतेप्रदापयेत्। चतुष्पलं तु गाम्भार्य्याः पिप्पल्या द्विपलन्तथा। पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्। इत्ययं च्यवन-प्राशः परमुक्तो रसायनः। कासश्वासहरश्चैव विशेषे-णोपदिश्यते। क्षीणक्षतानां वृद्धानां बालानाञ्चाङ्गवर्द्ध-नम्। स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्। पिपासां मूत्रशुक्रस्थान् दोषांश्चैवापकर्षति। अस्य मात्रांप्रयुञ्जीत चोपरुन्ध्यान्न भोजनम्। अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत् पुनर्युवा। मेधां स्मृतिं कान्तिमनामयत्वं[Page2974-a+ 38] वपुःप्रकर्षं बलमिन्द्रियाणाम्। स्त्रीषु प्रहर्षं परमग्नि-वृद्धिं वर्णप्रसादं पवनानुलोम्यम्। रसायनस्यास्य नरःप्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्। जराकृतंपूर्बमपास्य रूपं बिभर्त्ति रूपं नवयौवनानाम्। सितामत्स्यण्डिकाऽलाभे धात्र्याश्च मृदु भर्जनम्। चतुर्भाग-जले प्रायो द्रव्यं गतरसं भवेत्। ”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्यवनप्राश/ च्यवन--प्रा m. N. of an electuary(See. च्यावन) Mallapr.

"https://sa.wiktionary.org/w/index.php?title=च्यवनप्राश&oldid=371714" इत्यस्माद् प्रतिप्राप्तम्