छन्दश्चिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दश्चिति¦ स्त्री

६ त॰ छन्दसां समूहे। तत्र छन्दोभेदेएकादिगुरुज्ञानाय करणसूत्रं लीला॰ उक्तं यथा
“छन्दश्चित्यादौ करणसूत्रं श्लोकत्रयम्
“एकाद्येकोत्त-राअङ्का व्यस्ता भाज्याः क्रमस्थितैः। परः पूर्वेण सङ्गु-[Page2978-a+ 38] ण्यस्तत्परस्तत्परेण च॥ एकद्वित्र्यादिभेदाः स्युरिदंसाधारणं स्मृतम्। छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्यतद्विदाम्॥ मूषावहनभेदादौ खण्डमेरौ च शिल्पके। वैद्यके रसभेदीये तन्नोक्तं विस्तृतेर्भयात्। तत्र छन्दश्चि-त्युत्तरे किञ्चिदुदाहरणम्।
“प्रस्तारे मित्र! गायत्र्याःस्युः पादे व्यक्तयः कति। एकादिगुरवश्चाशु कथ्यतांतत्पृथक् पृथक्। इह हि षडक्षरगायत्रीचरणःअतः षडन्तानां एकाद्येकोत्तराङ्गाणां व्यस्तानां क्रमस्थानाञ्च न्यासः











११









६६

१५

२०

१५



१ यथोक्तकरणेन लब्धाःएकगुरुव्यक्तयः।

६ । द्विगुरवः।

१५ । त्रिगुरवः।

२० । चतुर्गुरवः।

१५ । पञ्चगुरवः।

६ । षड्गुरवः।

१ । तथैका सर्व्वलघुः।

१ । एवमासामैक्यंपादव्यक्तिगितिः।

६४ । एवञ्चतुश्चरणाक्षरसङ्ख्यकान-ङ्कान् यथोक्तं विन्यस्य एकादिगुरुभेदानानीयतान् सैकानेकीकृत्य जाता गायत्रीवृत्तव्यक्तिसङ्ख्या।

१६

७७

७२

१६ । एवमुक्थाद्युत्कृतिपर्य्यन्तं छन्दसांव्यक्तिमितिर्ज्ञातव्या”। अधिकं प्रस्तावशब्दे मर्कटीजालशब्दे मेरुशब्दे पता-काशब्दे च दृश्यम्।

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दश्चिति स्त्री.
(छन्दसां चितिः) छन्दस् की परत (सन्धि अथवा पर्व पर स्थापनीय, प्रत्येक बार तीन इष्टकायें, प्रत्येक वार अधिक अन्तर्मुख=अन्दर की ओर), मा.श्रौ.सू. 6.2.2.21।

"https://sa.wiktionary.org/w/index.php?title=छन्दश्चिति&oldid=478374" इत्यस्माद् प्रतिप्राप्तम्