छन्दस्तुभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्तुभ्¦ पु॰ छन्दसा पक्षेण स्तुम्नाति सूर्य्यम् स्तुभ--क्विप्। गरुडाग्रजेऽरुणे तस्य तत्कथा
“पितामह उवाच। एष लोकविनाशाय रविरुद्यन्तुमुद्यतः। पश्यन्नेव हि-लोकान् स भस्मराशीकरिष्यति। तस्य प्रतिविधानञ्चविहितं पूर्वमेव हि। कश्यपस्व सुतोधीमानरुणेत्यभि-विश्रुतः। महाकायो महातेजाः स स्थास्यति पुरोरवेः। करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति। लोकानांस्वस्ति चैवं स्यादृषीणाञ्च दिवौकसाम्। प्रमतिरुवाच। ततः पितामहाज्ञप्तः सर्वं चक्रे तदाऽरुणः। उदितश्चैवसविताप्यरुणेन समावृतः” भा॰ आ॰

२४ अ॰।

"https://sa.wiktionary.org/w/index.php?title=छन्दस्तुभ्&oldid=372721" इत्यस्माद् प्रतिप्राप्तम्