छर्द्दि

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दिः, स्त्री, (छर्द्दयत्यनेनेति । छर्द्द वमने + इन् ।) वमिरोगः । वा~ति इति भाषा ॥ तत्- पर्य्यायः । प्रच्छर्द्दिका २ छर्द्दम् ३ वमथुः ४ वमनम् ५ वमिः ६ । इति हेमचन्द्रः । ३ । ३३ ॥ छर्द्दिका ७ छर्द्दीका ८ वान्तिः ९ उद्गारः १० । इति राजनिर्घण्टः ॥ उत्कासिका ११ छर्द्द- नम् १२ । इति शब्दरत्नावली ॥ तस्या निदा- नादि यथा, -- “दुष्टैर्दोषैः पृथक्सर्व्वैर्वीभत्सालोकनादिभिः । छर्द्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥ अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति । अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनैः । श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः । नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः ॥ वीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् । छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः ॥ निरुच्यते छर्द्दिरिति दोषो वक्त्रं प्रधावितः ॥” तस्याः पूर्ब्बरूपं यथा, -- “हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः । भृशं द्वेषोऽन्नपाने च वमीनां पूर्ब्बलक्षणम् ॥” वातजायास्तस्या रूपं यथा, -- “हृत्पार्श्वपीडामुखशोषशीर्ष- नाभ्यर्त्तिकासस्वरभेदतोदैः । उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ॥ कृच्छ्रेण चाल्पं महता च वेगे- नार्त्तोऽनिलाच्छर्द्दयतीह दुःखम् ॥” तस्याः पित्तजाया रूपं यथा, -- “मूर्च्छा पिपासा मुखशोषमूर्द्ध- ताल्वक्षिसन्तापतमोभ्रमार्त्तः । विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि ॥” अत्र च्छर्द्दीशब्दः । “हन्यात् क्षीरोदकं पीतं छर्द्दिं पवनसम्भवाम् । मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः ॥ क्षीरोदकं नाशितस्य क्षीरस्योदकम् । गुडू चीत्रिफलानिम्बपटोलैः क्वथितं जलम् । पिबेत् मधुयुतं तेन छर्द्दिर्नश्यति पित्तजा ॥ हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम् । अधोमार्गीकृते दोषे छर्द्दिः शीघ्रं निवर्त्तते ॥ विडङ्गत्रिफलाविश्वाचूर्णं मधुयुतं पिबेत् । विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥ प्लवं कैवर्त्तीमुस्तं गुडतजी इति लोके । पिष्ट्वा धात्रीफलं लाजान् शर्कराञ्च पलोन्मितान् । दत्त्वा मधुपलञ्चापि कुडवं सलिलस्य च ॥ वाससा गालितं पीतं हन्ति छर्द्दिं त्रिदोषजाम् । गुडू च्या रचितं हन्ति हिमं मधुसमन्वितम् ॥ दुर्निवारामपि छर्द्दिं त्रिदोषजनितां बलात् ॥ एलालवङ्गगजकेशरकोलमज्जा- लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम् । चूर्णानि माक्षिकसितासहितादि लीढ्वा छर्द्दिं निहन्ति कफमारुतपित्तजाताम् ॥ इति एलादिचूर्णम् ॥ अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वापितं जले । तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम् ॥ यथा त्रिकटुधान्याकजीरकाणां रजो लिहन् । मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम् ॥ विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः । छर्द्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा ॥ आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः । निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥ निर्यहः क्वाथः । जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् । शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति- मुग्राम् ॥ वीभत्सजां हृद्यतमैरिष्टैर्द्दौर्हृदजां फलैः । लङ्घनैरामजां छर्द्दिं जयेत् सात्म्यै रसात्मजाम् ॥ कृमिहृद्रोगवद्धन्याद्वमिं कृमिसमुद्भवाम् । तत्र तत्र यथा दोषं क्रियां कुर्य्याच्चिकित्सकः ॥ इति छर्द्द्यधिकारः ।” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दि¦ स्त्री छर्दयति छर्द--हेतौ णिच--इन्। वमनरोगेतन्निरुक्तिनिदानादि च सुश्रुते उक्तं यथा।
“अथातश्छर्द्दिप्रतिषेधमध्याय व्याख्यास्यामः। अति-द्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि। अकाले चातिमात्रैश्च त-थाऽसात्म्यैश्च भोजनैः। श्रमात् क्षयात्ययोद्वेगादजीर्णा॰त्कृमिदोषतः। नार्य्याश्चापन्नसत्वायास्तथाऽतिद्रुतमश्नतः। बीभत्सैहतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात्। छादय-न्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः। निरुच्यते छर्दिरितिदोषो वक्त्रं प्रधावितः। दोषानुदीरयन् वृद्धानुदानोव्यानसङ्गतः। ऊर्द्ध्वमागच्छति भृशं विरुद्धाहारसेविनाम्। हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः। द्वेषोऽन्न-पाने च भृशं वमीनां पूर्व्वलक्षणम्। प्रच्छर्द्दयेत् फेनिल-मल्पमल्पं शूलार्द्दितोऽभ्यर्द्दितपार्श्वपृष्ठः। श्रान्तः स-घोषं बहुशः कषायं जीर्णेऽधिवं साऽनिलजा वमिस्तु। योऽम्लं भृश वा कटुतिक्तवक्त्रे पीतं सरक्तं हरितंवमेद्वा। सदाहचोषज्वरवक्त्रशोषमूर्च्छान्विता पित्तनि-सित्तजा सा। यो हृष्टरोमा मधुर पू॰ तं शुक्लं हिमंसान्द्रकफानुविद्धम अभक्तरुग्गौरवसादयुक्तोवमेद्वमीसा कफकोपजा स्यात्। सर्व्वाणि रूपाणि भवन्तियस्यां सा सर्व्वदोषप्रभवा मता तु। बीभत्सजा दौर्हृद-जामजा च याऽसात्म्यतोवा कृमिजा च या हि। सापञ्चमी ताश्च विभावयेत्तु दोषोच्छयणैव यथोक्तमादौ। [Page2981-a+ 38] आमाशयोत्क्लेशभवाश्च सर्व्वास्तस्माद्धितं लङ्गनमेवतासु। शूलहृक्कासबहुला कृमिजा च विशेषतः। कृमि-हृद्रोगतुल्येन लक्षणेन च लक्षिता। क्षीणम्योपद्रवैर्युक्तां{??}आसृक्पूयां सतन्द्रिकाम्। छर्दिं प्रसक्तां कुशलो नार-भेत चिकित्सितुम्। वमीषु बहुदोषासु छर्दनं हित-मुच्यते। विरेचनं वा कुर्व्वीत यथादोषोच्छ्रयं भिषक्। संसर्गांश्चानुपूर्व्वेण यथास्वं भषजाय तान्। लघूनिपरिशुष्काणि सात्म्यान्यन्नानि वाचरेत्। यथास्वञ्चकषायाणि ज्वरघ्नानि प्रयोजयेत्”।
“कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च। हृद्रीगस्तमकश्चैव ज्ञेयाश्छद्र्देरुपद्रवाः” इति माधवकरः। वा ङीप्। तत्रार्थे
“आमाशयोत्क्लेशभवा हि सर्व्वाच्छ-र्दोमता लङ्घनमेव तस्मात्” सुत्रुतः।

"https://sa.wiktionary.org/w/index.php?title=छर्द्दि&oldid=373228" इत्यस्माद् प्रतिप्राप्तम्