छल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छलम्, क्ली, (छो + वृषादित्वात् कलच् । यद्वा, छल + अच् ।) स्खलितम् । शाठ्यम् । इति मेदिनी । ले, १७ ॥ (यथा, मनुः । ८ । ४९ । “धर्म्मेण व्यवहारेण च्छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥” व्याजः । यथा, मार्कण्डेये । २५ । १० । “सा वै मदालसा पुत्त्रं बालमुत्तानशायिनम् । उल्लापनच्छलेनाह रुदमानमविस्वरम् ॥” तात्पर्य्यान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरेण कथनम् । यथा, अक्षपादसूत्रे । ५० । “वचनविधातोऽर्थविकल्पोपपत्त्या च्छलम् ॥” “अर्थस्य वाद्यभिमतस्य यो विकल्पो विरुद्धः कल्पः अर्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण यो वचनस्य बाद्युक्तस्य विघातो दूषणं तच्छलमित्यर्थः । वक्तृतात्पर्य्याविषयार्थ- कल्पनेन दूषणाभिधानमिति फलितम् । तात्- पर्य्याविषयत्वं विशेष्ये विशेषणे संसर्गे वा । यथा, नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नव- संख्यापरत्वकल्पनयाऽसिद्ध्यभिधानम् । प्रमेयं धर्म्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्य- भिधानम् । वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् । तत्त्रिविधम् । वाक्छलं सामान्यच्छलमुपचारच्छलञ्च ॥” “छलं नाम परिशठमर्थाभासमपार्थकं वाग्वस्तुमात्रमेव । तद्द्विविधं वाक्छलं सामान्यच्छलञ्च । तत्र वाक्- छलं नाम यथा कश्चिद्ब्रूयात् नवतन्त्रोऽयं भिषगितिभिषग् ब्रूयात् नाहं नवतन्त्र एकतन्त्रो- ऽहमिति । परो ब्रूयात् नाहं ब्रवीमि नव तन्त्राणि तवेति अथतु नवाभ्यस्तं ते तन्त्रमिति भिषग् ब्रूयात् न मया नवाभ्यस्तं तन्त्रं अनेक- शताभ्यस्तं मया तन्त्रमिति । एतद्वाक्छलम् । सामान्यच्छलं नाम यथा, व्याधिप्रशमनायौषध- मित्युक्ते परो ब्रूयात् सत् सत्प्रशमनायेति भवा- नाह सत्रोगः सदौषधं यदिच सत्प्रशमनाय भवति सत्कासः सत्क्षयः सत्सामान्यात् कासस्ते क्षयप्रशमनाय भविष्यतीति एतत्सामान्य- छलम् ॥” इति चरके विमानस्थाने अष्टमे अध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छल नपुं।
युद्धमर्यादायाश्चलनम्
समानार्थक:स्खलित,छल
2।8।108।2।5
विस्फारो धनुषः स्वानः पताहाडम्बरो समौ। प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम्.।
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छल¦ न॰ छल--अच्।
१ स्वरूपाच्छादने
२ व्याजे
३ यथार्थगूहने
४ कटयुद्धादिना तन्मर्य्यादायाश्चलने
५ शाठ्ये
६ कापट्येंन्यायमतसिद्धे कार्य्यान्तरेण प्रयुक्तस्य वाद्युक्तशब्दस्यार्थान्तरकल्पनया प्रतिवादिना दत्ते
७ दूषणभेदे तल्लक्षणभेदा-दिकं गौ॰ सृ॰ वृत्तौ दर्शितम्। यथा
“विघातोऽर्थ-विकल्पोपपत्त्या छलम्।
१ । तत् त्रिविधं वाक्छलं सा॰मान्यच्छलमुपचारच्छलञ्चेति।
२ । अविशेषाभिहितेऽर्थेवक्तुरभप्रायादर्थान्तरकल्पना वाक्छलम्।
३ । सम्भ-वतोऽर्थस्यातिसामान्ययोगादसम्मतार्थकल्पना सामान्यच्छलम्।
४ । धर्मविकल्पनिर्देशोऽर्थसम्भावप्रतिषेधउपचारच्छलम्।
५ । वाकछलमेवोपचारच्छलं तदवि-[Page2981-b+ 38] शेषात्।
६ । न तदर्थान्तरभावात्।
७ । अपिशे-षे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः।
८ । गौ॰ सू॰
“क्रमप्राप्तं छलं लक्षयति। अर्थस्य वाद्यभिमतस्य योविकल्पो विरुद्धः कल्पो अर्थान्तरकल्पनेति यावत् तदुप-पत्त्या युक्तिविशेषेण यो वचनस्य वाद्युक्तस्य विघातोदूषणं तच्छलमित्यर्थः वक्तृतात्पर्य्याविषयार्थकल्पनेनदूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वं विशेष्येविशेषणे संसर्गे वा यथा नेपालादागतोऽयं नवकम्बलव-त्त्वादित्यत्र नवसङ्ख्यापरत्वकल्पनयाऽसिद्ध्यभिधानं, प्रमेयंधर्मत्वादित्यत्र पुण्यार्थकल्पनया भागासिद्ध्यभिधानम्वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम्।
१ वृ॰लक्षितं छलं विभजते।
२ । तत्र वाक्छलं लक्षयति। यत्र शक्यार्थद्वये सम्भवति एकार्थनिर्णायकविशेषाभावा-दनभिप्रेतशक्यार्थकल्पनेन दूषणाभिधानं तद्वाक्छलं, लक्ष-णन्तु शक्त्या एकार्थशाब्दबोधतात्पर्य्यकशब्दस्य शक्या-र्थान्तरंतात्पर्य्यकत्वकल्पनया दूषणाभिधानं यथा नेपाला-दागतोऽयं नवकम्बलवत्त्वादित्युक्ते कुतोऽस्य नवसङ्ख्यकाःकम्बला इति एवं गौर्विषाणीत्युक्ते कुतोगजस्य शृङ्गंश्वेतोधावती{??} श्वेतरूपवदभिपायेणोक्ते श्वेतो न धाव-तीत्यभिधानमित्यादिकमुह्यम्॥
३ वृ॰। सामान्यछलंलक्षयति। सामान्यविशिष्टसम्भवदर्थामिप्रायेणोक्तस्यअतिसामान्ययोगादसम्भवदर्थकत्वकल्पनया दूषणाभिधानंसामान्यच्छलम्। यथा ब्राह्यणोऽयं विद्याचरणसम्पन्नइत्युक्ते ब्राह्मणत्वेन विद्याचरणसम्पदं साधयतीतिकल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरण-सम्पद्बाल्ये व्यभिचारात्॥
४ वृ॰। उपचारच्छलं लक्ष-यति। धर्मशब्दस्यार्थेन विकल्पो विविधः कल्पः शक्ति-लक्षणान्यतररूपस्तया शक्तिलक्षणयोरेकतरर्वृत्त्या प्रयुक्तेशब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलं यथामञ्चाः क्रोशन्ति नीलो घट इत्यादौ मञ्चस्था एव क्रोशन्तिन तु मञ्चाः एवं घटस्य कथं नीलरूपाभेदः। एवम् अहंनित्य इति शक्ता प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्यइति प्रतिषेधोऽप्युपचारच्छलम् वाद्यभिप्रेतार्थस्यादूषणेनछलस्यासदुत्तरत्वम्। न च श्लिष्टलाक्षणिकप्रयोगाद्वा-दिनएवापराधः स्यादिति वाच्यं तत्तदर्थबोधकतयाप्रसिद्धस्य शब्दस्य प्रयोग वादिनोऽनपराधात अन्यथापर्वतीवह्निमानित्युक्ते पर्वतोऽयं कथमवह्निमानित्यादि-दषणेनानुमानाद्युच्छेदः स्यात्॥
५ । वृ॰। प्रसङ्गाच्छलं[Page2982-a+ 38] परीक्षितुं पूर्वपक्षयति। शब्दस्यार्थान्तरकल्पनाऽविशेषा-द्वाक्छलमेवोपचारच्छलं स्यादिति द्वित्वमेव न तु त्रित्व-मिति शङ्कार्थः॥
६ वृ॰॥ समाधत्ते। उपचारच्छलस्यवाक्छलाभेदो न, तयोरर्थान्तरभावात् भिन्नत्वात् भिन्न-तया प्रमाणसिद्धत्वादिति फलितार्थः। पूर्व्वोक्तभेदकधर्म्मेणभेदसम्भवेऽपि यत्किञ्चिद्धर्मेणाभेदे सामान्यधर्मेणाभेदस्यसर्व्वत्र सम्भवाद्विभागः कुत्रापि न स्यादिति।
७ वृ॰। विपक्षे बाधकमभिप्रेत्याह यत्किञ्चिद्धर्मादविशेषे कि-ञ्चित्साधर्म्याच्छलत्वादिरूपाच्छलस्यैक्यं स्यान्न तु त्वद्-भिमतं द्वित्वमपीति भावः”॥
८ वृत्तिः
“आक्षिप्तकेतुकुथसैन्यगजच्छलेन” माधः।
“धर्म्मेणव्यवहारेण छलेनाचरितेन च। प्रयुक्तं साधयेदर्थं पञ्च-मेन बलेन च” मनुः।
“भुवनहितच्छलेन यम्” भट्टिः
“अध्यारुरोहेव रजश्छलेन” रघुः।
“छलंभूतेन व्यवहारान्नयेन्नृपः” याज्ञ॰।
“भूतं तत्त्वार्थ-सम्बद्धं प्रमादाभिहितं छलम्” नारदोक्ते
८ प्रमादा-भिहिते च
९ छलकारिणि त्रि॰। स्वार्थे क। तत्रार्थे
“आवाभ्यां (मधुकैटभाभ्याम्) छाद्यते विश्वं रजसा तमसातथा। रजस्तमोमयावावां यतीनां दुःखलक्षणौ। छलकौधर्म्मशीलानां दुस्तरौ सर्वदेहिनाम्” हरिवं
२०
३ अ॰।
१० नाटकप्रभेदव्यीथ्यङ्कभेदे न॰
“वीथ्यामेको भवेदङ्कः” इत्युपक्रमे
“अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनी-षिणः। उद्थात्यकावलगितेत्यादिना विभज्य सा॰ द॰लक्षितं यथा
“प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलनाछलम्
“यथा वेण्यां भीमार्ज्जुनौ”
“कर्त्ता द्यूत-च्छलानां जतुमयशरणोद्दीषनः सोऽभिमानीराजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम्। कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाःक्वास्ते? दुर्य्योधनोऽसौ कथयतु न रुषा द्रुष्टुमभ्या-गतौ स्वः”।
छल¦ नामधातुः छल + कृतौ--णिच् सक॰ सेट्। छलयति
“छलयति विक्रमणे अद्भुत वामनः” गीतगो॰
“द्यूतंछलयतामस्मि” गीता।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छल¦ n. (-लं)
1. Wickedness.
2. Fraud, circumvention, trick, stratagem.
3. Design, device. E. छल to cut, अलच् affix, and the radical finai rejected.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छलः [chalḥ] लम् [lam], लम् [छल्-अच्]
Fraud, trick, deceit, deception; विद्महे शठ पलायनच्छलानि R.19.31; छलमत्र न गृह्यते Mk. 9.18; Y.1.61; Ms.8.49,187; Amaru.16; Śi.13.11.
Roguery, knavery.
A plea, pretext, guise, semblance (often used in this sense to denote an उत्प्रेक्षा); असुरक्षाहि बहुच्छलाः श्रियः Ki.2.39; परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरा N.2.95; प्रत्यर्प्य पूजामुपदाच्छलेन R.7.3; 6.54;16.28; Bk.1.1; Amaru.15; Māl.9.1.
Intention.
Wickedness.
A family.
Design, device.
Fiction, circumvention.
Deceitful disputation, perverting the sense of words; विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञो$धर्मवत् त्यजेत् Bhāg.7.15.12.
Difficult subject; ब्रह्म हि प्रचुरच्छलम् Mb.12.328.6.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छल n. ( स्खल्)(exceptionally m. BhP. vii , 15 , 12 ; g. अर्धर्चा-दि)fraud , deceit , sham , guise , pretence , delusion , semblance , fiction , feint , trick , fallacy (often ifc. , e.g. उपदा-छलेन, " under pretence of gifts of honour " i.e. with feigned gifts Ragh. vii , 27 ; रजश्-छलेन, " under the semblance of dust " , xvi , 28 ; See. कन्यका-, धर्म-, वाक्-) Mn. viii , 49 and ( अ-च्छ्, neg. ) 187 MBh. etc. ( ifc. f( आ). Katha1s. lxii , 164 )
छल n. deceitful disputation , perverting the sense of words Nya1yas. i , 51 ff. Sarvad.
छल n. wickedness W.
छल for स्थलMBH. xiii. 7257 m. N. of a son of दलVP. iv , 4 , 47