छलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलम्, क्ली, (छो + वृषादित्वात् कलच् । यद्वा, छल + अच् ।) स्खलितम् । शाठ्यम् । इति मेदिनी । ले, १७ ॥ (यथा, मनुः । ८ । ४९ । “धर्म्मेण व्यवहारेण च्छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥” व्याजः । यथा, मार्कण्डेये । २५ । १० । “सा वै मदालसा पुत्त्रं बालमुत्तानशायिनम् । उल्लापनच्छलेनाह रुदमानमविस्वरम् ॥” तात्पर्य्यान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरेण कथनम् । यथा, अक्षपादसूत्रे । ५० । “वचनविधातोऽर्थविकल्पोपपत्त्या च्छलम् ॥” “अर्थस्य वाद्यभिमतस्य यो विकल्पो विरुद्धः कल्पः अर्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण यो वचनस्य बाद्युक्तस्य विघातो दूषणं तच्छलमित्यर्थः । वक्तृतात्पर्य्याविषयार्थ- कल्पनेन दूषणाभिधानमिति फलितम् । तात्- पर्य्याविषयत्वं विशेष्ये विशेषणे संसर्गे वा । यथा, नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नव- संख्यापरत्वकल्पनयाऽसिद्ध्यभिधानम् । प्रमेयं धर्म्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्य- भिधानम् । वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् । तत्त्रिविधम् । वाक्छलं सामान्यच्छलमुपचारच्छलञ्च ॥” “छलं नाम परिशठमर्थाभासमपार्थकं वाग्वस्तुमात्रमेव । तद्द्विविधं वाक्छलं सामान्यच्छलञ्च । तत्र वाक्- छलं नाम यथा कश्चिद्ब्रूयात् नवतन्त्रोऽयं भिषगितिभिषग् ब्रूयात् नाहं नवतन्त्र एकतन्त्रो- ऽहमिति । परो ब्रूयात् नाहं ब्रवीमि नव तन्त्राणि तवेति अथतु नवाभ्यस्तं ते तन्त्रमिति भिषग् ब्रूयात् न मया नवाभ्यस्तं तन्त्रं अनेक- शताभ्यस्तं मया तन्त्रमिति । एतद्वाक्छलम् । सामान्यच्छलं नाम यथा, व्याधिप्रशमनायौषध- मित्युक्ते परो ब्रूयात् सत् सत्प्रशमनायेति भवा- नाह सत्रोगः सदौषधं यदिच सत्प्रशमनाय भवति सत्कासः सत्क्षयः सत्सामान्यात् कासस्ते क्षयप्रशमनाय भविष्यतीति एतत्सामान्य- छलम् ॥” इति चरके विमानस्थाने अष्टमे अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=छलम्&oldid=134972" इत्यस्माद् प्रतिप्राप्तम्