छागः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छागः, पुं, स्त्री, (छायते छिद्यते देवबलये इति । छो + “छापूखडिभ्यः कित् ।” उणां । १ । १२४ । इति गन् ।) पशुविशेषः । तत्पर्य्यायः । वस्तः २ छगलकः ३ अजः ४ स्तुभः ५ । इत्य- मरः । २ । ९ । ७६ ॥ छगः ६ छगलः ७ छागलः ८ तभः ९ स्तभः १० शुभः ११ । इति तट्टीका ॥ लघुकामः १२ क्रयसदः १३ वर्करः १४ पर्णभोजनः १५ लम्बकर्णः १६ भेनादः १७ वुक्कः १८ अल्पायुः १९ शिवाप्रियः २० । इति शब्दरत्नावली ॥ अवुकः २१ मेध्यः २२ पशुः २३ पयस्वलः २४ । तन्मांसगुणाः । लघ्रुत्वम् । स्निग्धत्वम् । नातिशीतत्वम् । रुचिबलपुष्टि- दातृत्वम् । निर्द्दोषत्वम् । वातपित्तनाशित्वम् । मधुरत्वञ्च । इति राजनिर्घण्टः ॥ शुक्रधातु- साम्यकारित्वम् । बृंहणत्वम् । स्निग्धत्वम् । मृदुत्वम् । अनभिष्यन्दित्वम् । नात्युष्णत्वञ्च । इति राजवल्लभः ॥ * ॥ छागपोतमांसगुणाः । लघु- त्वम् । शीतत्वम् । प्रमेहनाशित्वञ्च ॥ तृण- चारिछागस्य मांसगुणः । ईषल्लघुत्वम् । बल- दातृत्वञ्च ॥ तन्मूत्रगुणाः । कटुत्वम् । उष्णत्वम् । रूक्षत्वम् । नाडीविषार्त्तिप्लीहोदरकफश्वास- गुल्मशोफनाशित्वम् । लघुत्वञ्च । इति राज- निर्घण्टः ॥ “छागलो वर्करश्छागो वस्तोऽजश्छेलकः शुभः । छागमांसं लघु स्निग्धं स्वादुपाकं त्रिदोषणुत् ॥ नातिशीतमदाहि स्यात् स्वादु पीनसनाशनम् । परं बलकरं रुच्यं बृंहणं बलवर्द्धनम् ॥ अजाया अप्रसूताया मांसं पीनसनाशनम् । शुष्ककासेऽरुचौ शोषे हितमग्नेश्च दीपनम् ॥ अजासुतस्य बालस्य मांसं लघुतरं स्मृतम् । हृद्यं ज्वरहरं श्रेष्ठं सुखादु वलदं भृशम् ॥ मांसं निष्कासिताण्डस्य छागस्य कफकृद्गुरु । सोतःशुद्धिकरं वल्यं मांसदं वातपित्तनुत् ॥ वृद्धस्य वातलं रूक्षं तथा व्याधिमृतस्य च । ऊर्द्ध्वजत्रुविकारघ्नं छागमुण्डं रुचिप्रदम् ॥” इति भावप्रकाशः ॥ (एतन्मांसं पितॄणां तृप्तिकरत्वात् श्राद्धाय देयम् । यथाह याज्ञवल्क्यः । १ । २५८ । “मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥” छागमांसेन पितॄणां षण्मासान् यावत्तूप्तिः । वर्णैः प्रशस्तैर्मणिभिश्च युक्ता मुण्डाश्च ये ताम्रविलोचनाश्च । ते पूजिता वेश्मसु मानवानां सौख्यानि कुर्व्वन्ति यशः श्रियञ्च ॥”)