छाया

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाया, स्त्री, (छ्यति छिनत्ति सूर्य्यादेः प्रकाशं नाश- यतीत्यर्थः । छो + “माच्छाससिसूभ्यो यः ।” उणां । ४ । १०९ । इति यस्ततष्टाप् च ।) रौद्रशून्यम् । तत्पर्य्यायः । भावानुगा २ श्यामा ३ अतेजः ४ भीरुः ५ अनातपः ६ आभीतिः ७ आतपाभावः ८ भावालीना ९ । अस्या गुणाः । मधुरत्वम् । शीतलत्वम् । दाहश्रमहरत्वञ्च । इति राजनिर्घण्टः ॥ घर्म्म- नाशित्वम् । मेघच्छायागुणः । श्रमभ्रममूर्च्छा- मन्तापनाशित्वम् । इति राजवल्लभः ॥ * ॥ छायाविशेषे दोषो यथा, --

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाया स्त्री।

अनातपः

समानार्थक:छाया

3।3।158।1।1

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

पदार्थ-विभागः : , अभावः, आतपाभावः

छाया स्त्री।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

3।3।158।1।1

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

छाया स्त्री।

शोभा

समानार्थक:शोभा,कान्ति,द्युति,छवि,अभिख्या,छाया,त्विष्,अर्चिस्

3।3।158।1।1

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

 : परमा_शोभा, अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः : , द्रव्यम्, तेजः

छाया स्त्री।

सूर्यपत्नी

समानार्थक:संज्ञा,छाया

3।3।158।1।1

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

पति : सूर्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाया¦ स्त्री छो--ण।

१ आतपाभावे

२ प्रतिविम्बे

३ सूर्य्यपत्नीभेदे संज्ञाप्रतिकृतौ॰

४ कान्तौ च अमरः

५ पालने

६ उत्कोचे

७ पङ्क्तौ मेदि॰।

८ कात्यायन्यां शब्दरत्ना॰।

९ तमसि हेमच॰। तत्र अनातपे
“छायामिषे सानु-गतां निषेव्य” कुमा॰।
“छायामच्छामृच्छति सलि-लस्य” माघः
“छायेव तस्यालगतिस्य पश्चात्” नैष॰।
“स्वं रागादुपरि वितन्वतोत्तरीयम्। कान्तेन प्रतिपद-वारितातपायाः। स छत्रादपरविलासिनीसमूहाच्छा-यासीदधिकतरा तद परस्याः” माघः।
“गुहां प्रविष्टौ सुकृतस्य लोके छायातपौ व्रहविदो वदन्ति” श्रुतिः संज्ञाप्रतिकृतिछायाकथा हरिवं॰

९ अ॰।
“सै वै विवस्वतः पूर्व्वं श्राद्धदेवः प्रजापतिःयमश्च यमुना चैव यमजौ संवभूवतुः। श्यामवर्णं चतद्रूपं संज्ञा दृष्ट्वा विवस्वतः। असहन्ती तु स्वां छायांसवर्णां निर्ममे ततः। मायामयी तु सा संज्ञा तस्या-श्छायासमुत्थिता। प्राञ्जलिः प्रणता भूत्वा छाया संज्ञांनरेश्वर!। उवाच किं मया कार्य्यं कथयस्व शुचि-स्मिते!। स्थिताऽस्मि तवनिर्दोशे शाधि मां वरवर्णिगि!। संज्ञोवाच अहं याम्यामि भद्रन्ते स्वमेव भवनं पितुः। त्वयेह भवने मह्यं वस्तव्यं निर्व्विकारयाइमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा। संभा-व्यास्ते न चाख्येयमिदं भगवते क्वचित्। छायोबाच। आ कचग्रहणाद्देवि! आ शापान्नैव कर्हिचित्। आख्या-स्यामि मतं तुभ्यं गच्छ देवि! यथासुखम्। वैशम्पायनउवाच। समादिश्य सवर्णान्तु तथेत्युक्ता तया च सा। त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी। पितुः समीपगासा तु पित्रा निर्भत्सिता तदा। भर्त्तुः समीपं गच्छेतिनियुक्ता च पुनः पुनः। अगच्छद्बडवा भूत्वाच्छाद्य रूपमनिन्दिता। कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह। द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्। आदि-त्यो जनयामास पुत्रमात्मसमं तदा। पूर्वजस्य मनो-स्तात सदृशोऽयमिति प्रभुः। मनुरेवाभवन्नाम्ना सावर्णइति चोच्यते। द्वितीयोयः सुतस्तस्याः स विज्ञेयः शनै-श्चरः। सततं पार्थिवी तात। स्वस्य पुत्रस्य वै तदा। चकाराभ्यधिकं स्नेहं न तथा पूर्व्वजेषु वै। मनुस्तस्या{??}[Page2986-a+ 31] मत्तत्तु यमस्तस्या न चक्षमे। ता स रोषाच्च वाल्याच्चभाविनोऽर्थस्य गौरवात्। पदा सन्तर्जयामास छायांवैवस्वतो यमः। तं शशाप ततः क्रोधात् सावर्णजननीनृपः। चरणः पततामेष तवेति भृशदुखिता”। छाया च तमोरूपद्रव्यान्तरमिति मीमांसकाः। तेन
“त्वंदूरमपि गच्छन्ती हृदयं न जहासि मे। दिवा-वसानच्छायेव पुरोमूलं वनस्पतेः” शकु॰। छाया-गतिरुक्ता सङ्गच्छते” नैयायिकास्तु तेजःसामान्याभाव एव तमश्छायादिकमङ्गीचक्तुः तत्र गत्यादिक-मौपचारिकम्”
“अत्र च तेजःसामान्याभावप्रयोजकस्यछायासम्बन्धित्वम् यथा वृक्षस्यातपसम्बन्धप्रतिरोधात्छायासम्बन्धित्वं तथा च वृक्षप्रयुक्तातपाभावः” इति बोधः
“छाया बाहुल्ये” पा॰। छायान्तस्तत्पुरुषो नपुंसकंस्यात् पूर्व्वपदार्थबाहुल्ये” इक्षूणां छाया इक्षुच्छायम्सि॰ कौ॰। कस्य बाहुल्यमित्यप्रेक्षायां छायायानिमित्तभूतावरकद्रव्याणामेव बाहुल्यमर्थाक्षिप्तं तच्च षष्ठीतत्पुरुषे पूर्व्वपदार्थगतमित्याशयेन पूर्व्वपदार्थेत्युक्तम्।
“इक्षुच्छायानिषादिन्य” इत्यत्र आङ्प्रश्नेषः” सि॰ कौ॰।
“आवरकद्रव्यस्यैकत्वे तु
“विभाषा सेनासुराच्छायेत्यादि” पा॰ वा क्लीवत्वम् कुड्यछाया कुद्ध्यच्छायम्। आतपाभावश्च तेजःसामान्यप्रभासञ्चाराभावः तेन प्रदीपप्रभावरकपदार्थस्य प्रभानिरोधसम्बन्धित्वात् शङ्कुच्छायानरच्छाया इत्यादि। दीपादिच्छायामानज्ञानार्थो व्यव-हारःछायाव्यवहारः तत्र करणसूत्रं लीला॰ उक्तं यथा।
“अथ छायाव्यवहारे करणसूत्रं वृत्तम्। छाययोःकर्ण्णयीरन्तरे यै तयोर्{??}र्गविश्लेषभक्तारसाद्रीषवः। सैक-लब्धेः पदघ्नन्तु कर्ण्णान्तरं भान्तरेणोनयुक्तं दलेस्तः प्रभे। उदाहरणम्। नन्दचन्द्रैर्मितं छाययोरन्तरं कर्ण्णयो-रन्तरं विश्वतुल्यं ययोः। ते प्रभे वक्ति योयुक्तिमान्वेत्त्यसौ व्यक्तमव्यक्तयुक्तं हि मन्येऽखिलम्। न्यासः[Page2986-b+ 22] छायान्तरं।

१९ । कर्ण्णान्तरम्।

१३ । अनयोर्वर्गा-न्तरेण।

१९

२ । भक्ता रसाद्रीषवः।

५७

६ । लब्धं

३ । सैकस्यास्य।

४ । मूलम्।

२ । अनेन कर्ण्णान्तरं।

१३ । गुणितं।

२६ । द्विस्थं।

२६ । भान्तरेण।

१९ । ऊनयुतं।

७ ।

४५ । तदर्द्धे लब्धे छाये

७२ ।

४५

२ तत्कृत्योर्योगपद-मित्यादिना जातौ कर्ण्णौ

२५

२ ।

५१

२ । छायान्तरेकरणसूत्रं वृत्तार्द्धम्। शङ्गुः पदीपतलशङ्कुतलान्तरघ्नश्छाया भवेद्विनरदीपशिखौच्च्यभक्तः। उदाहरणम्। शङ्कुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिःसार्द्धकरत्रया चेत्। शङ्कोस्तदा काङ्गुलसम्मितस्य तत्रप्रभा स्यात्कियती वदाशु। न्यासःशङ्कुः

१२ प्रदीपशङ्कुतलान्तरं

३ अनयोघातः

३२ विनरदीपशिखौच्च्येन।

३ । भक्तोलब्धानि छायाङ्गुलानि।

१२ । अथ दीपोच्छ्रित्यानयनाय करणसूत्रं वृत्तार्द्धम्। छायाहृते तु नरदीपतलान्तरघ्ने शङ्कौ भवेन्नरयुते खलुदीपकौच्च्यम्। उदाहरणम्। प्रदीपशङ्क्वग्तरभूस्त्रिहखा छायाङ्गुलैःषोडशभिः सना चेत्। दीपोच्छ्रितिः स्यात्कियती वदाशुप्रदीपशङ्क्वन्तरमुच्यतां मे। न्यासःशङ्कुः।

१२ । छायाङ्गुलानि।

१६ । शङ्कुप्रदीपान्तर[Page2987-a+ 30] हस्ताः।

३ । लब्धं दीपकौच्च्यं हस्ताः

११

४ । प्रदीपशङ्क्वन्तरभूमानानयनाय करणसूत्रं वृत्तार्द्धम्। विशङ्कुदीपोच्छ्रयसङ्गुणा भा शङ्कूद्धृता दीपनरान्तरं स्यात्। उदाहरणम्। पूर्व्वोक्तएव दीपोच्छ्रायः

११

४ शङ्क्वङ्गुलानि।

१२ । छाया।

१७ । लब्धाः शङ्कुप्रदीपान्तरहस्ताः।

३ । छायाप्रदीपान्तरदीपौच्च्यानयनाय करणसूत्रं सार्द्धंवृत्तम्। छायाग्रयोरन्तरसङ्कुणा भा छायाप्रमाणान्तरहृद्भवेद्भूः। भूशङ्कुघातः प्रभया विभक्तः प्रजायतेदीपशिखौच्च्यभेवम्। त्रैराशिकेनैव यदेतदुक्तं व्याप्तंस्वभेदैर्हरिणेव विश्वम्। उदाहरणम्। शङ्कोर्भार्क-मिताङ्गुलस्य सुमते! दृष्टा किलाष्टाङ्गुला छायाग्राभि-मुखे करद्वयमिते न्यस्तस्य देशे पुनः। तस्यैवार्कमिता-ङ्गुला यदि तदा छाया प्रदीपान्तरं दीपौच्च्यञ्च कियद्वदव्यवहृतिं छायाभिधां वेत्सि चेत्। न्यासःअत्र छायाग्रयोरन्तरमङ्गुलात्मकं।

५२ । छाये च।

८ ।

१२ । अनयोराद्या।

८ । इयमनेन।

५२ । गुणिता।

४१

६ । छायाप्रमाणान्तरेण।

४ । भक्ता लब्धं भू-मानम्।

१०

४ । इदं प्रथमच्छायाग्रदीपतलयोरन्तरमित्यर्थः। एवं द्वितीयच्छायाग्रमानं।

१५

६ । भूशङ्कुघातः प्रभयाविभक्तैति जातमुभयतोऽपि दीपौच्च्यं सममेव हस्ताः

६१

२ एवमित्यत्र छायाव्यवहारे त्रैराशिककल्पनयानयनं वर्त्तते तद्यथा। प्रथमच्छायातोद्वितीयच्छाया॥

१२ । यावताधिका तावता छा{??}वयवेन यदि छाया-ग्रान्तरतुल्या भूर्ल्लभ्यते तदा छायया किमिति एवं पृथक्पृथक् छायाप्रदीपतलान्तरप्रमाणं लभ्यते। ततोद्वितीयंत्रैराशिकं यदि छायातुख्ये भुजेशङ्कुः केटिस्तदा भूतुल्येभुजेकिमिति लब्धं दीपकीच्च्यमुभयतोऽपि तुल्यमेव। एवं पञ्चराशिकादिकमखिलं त्रैराशिककल्यनयैव सिद्वम्। [Page2987-b+ 38]
“भवेत्सैव (मेघविस्फूर्जितैव) च्छाया तयुगगयुता स्याद्द्वादशान्ते यदा” इत्युक्ते ऊनविंशत्यक्षरपादके

१ छन्दोभेदे च। शङ्कुछाया हि दिग्देशकालज्ञानोपायः यथोक्तं त्रिप्रश्ना-धिकारे सूर्य्यसिद्धान्तरङ्गनाथाभ्याम्। तत्र चं त्रयाणांदिग्देशकालानां प्रश्नाः त्रिप्रश्नाः तेषामधिकार इतित्रिपश्नशब्दार्थः। तत्रादौ दिग्ज्ञानमाह।
“शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपिवा समे। तत्र शड्क्व-ङ्गुलैरिष्टैः समं मण्डलमालिखेत्। तन्मध्ये स्थापये-च्छङ्कुं कल्पनाद्वादशाङ्गुलम्। तच्छायाग्रं स्पृशेद्यत्रवृत्ते पूर्वापरार्धयोः। तत्र विन्दू विधायोभौ वृत्तेपूर्वापराभिधौ। तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षि-णोत्तरा। याम्योत्तरादिशोर्मध्ये तिमिना पूर्वपश्चिमा। दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि”। सू॰ सि॰
“तत्र दिक्साधनोपक्रमे प्रथममम्बुसंशुद्धे जलवत्समी-कृते शिलाप्रदेशे। अपि वाथ वा तदभावेऽन्यत्र वज्रलेपेचत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैःशङ्कस्थाङ्गुलविभागमानगृहीतैरभीष्टसङ्ख्याकाङ्गुलैर्व्यासा-र्धरूपैवृत्तमवक्रमालिखेत्। सर्वतः केन्द्राद्वृत्तपरिधिरेखातुल्या यथा स्यात् तथेत्यर्थः। ततस्तन्मध्ये तस्य वृत्तस्यकेन्द्ररूपमध्ये कल्पनया द्वादशसङ्ख्याकाङ्गुलानि तुल्यानियस्मिंस्तं द्वादशविभागाङ्कितमित्यर्थः॥ शङ्कुं समतल-मस्तकपरिधिकाष्ठदण्डं स्थापयेत्। ततः पूर्वापरार्धयो-र्दिनस्य प्रथमद्वितीयभागयोस्तच्छायाग्रं स्थापितशङ्का-श्छायान्तप्रदेशो मण्डलपारधौ यस्मिन् विमागे स्पृशेत्। दिनस्य प्रथमविभागेऽनुलणं छायाह्रासाद्वृत्ते यत्र प्रवि-शति, दिनस्यापरार्धे छायानुक्षणवृद्धेर्वृत्ते यत्र निर्ग-च्छतीत्यर्थः। तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दूपूर्बापरसञ्ज्ञौ क्रमेण वृत्ते परिधिरेखायां कृत्वातन्मध्ये पूर्वापरवि{??}लरमध्ये तिमिना मत्स्येन रेखाकार्या सा दक्षिणोत्तररेखा भवति। मत्स्यस्तु विन्द्व-न्तरालसूत्रमितेन व्यामार्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्त-द्वयं निष्पाद्य हलद्वयसयोगाभ्यां वृत्तद्वयपरिधिविभागा-भ्यामन्तर्गतं मत्स्याकारं स्थानं भवति। तत्रैकः संयोगोमुखं बाह्यवृत्तभागसम्मार्जगेन, अपरसंयोगखु पुच्छ-मितरवृत्तभागद्वयसम्मर्जनेन। मुखपुच्छानध्यृज्वी रेखादक्षिणोत्तररेखा। तत्र पूर्व्वविन्दोः{??}व्यं रेखाग्रं द-क्षिणा दिक्। पश्चिमविन्दोः सव्यं रेखाग्रसुतरा दिक। [Page2988-a+ 38] अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः। शङ्कुरपितत्स्थानान्निष्कास्यः इति केवला दक्षिणोत्तररेखा स्थितेतितात्पर्य्यमु। दक्षिणोत्तरदिशोर्मध्यस्थाने तिमिना दक्षि-णोत्तररेखामितेन व्यासार्धेन दक्षिणोत्तरस्थानाभ्यांपूर्बवत् प्रत्येकं वृत्तं विधाय पूर्बवत् सिद्धेन मत्स्येनेत्यर्थः। पूर्वपश्चिमा रेखा कार्या। तत्र पूर्वविन्दोरासन्नं रेखाग्रंपूर्वा, पश्चिमविन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मा-र्जनेन केवला पूर्वापररेखापि सिद्धा। अथ रेखासंयो-गस्थानाद्दिक्साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् तद्वृत्तप-रिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्-चतुष्टयं वृत्ते सिद्धम्। तद्वत् यथा दक्षिणोत्तराभ्यांपूर्वापरा साधिता तत्प्रकारणेत्यर्थः। एवकारोऽन्य-प्रकारनिरासार्थकः। हि निश्चयेन। विदिशः कोण-दिशो दिशां पर्वादिसिद्धदिशां ये मध्यमत्स्याअव्यवहितदिग्द्वयान्तरोत्पन्ना लघवस्तैः संसाध्याःसम्यक्प्रकारेण साध्याः। रेखावृत्तसंयोगस्थत्वेनज्ञेयाः। अत्रोपपत्तिः। क्षितिजपूर्वापरवृत्त संयोगौपूर्वापरविभागस्यौ पूर्वापरदिशे तत्र पूर्वापरविभाग-ज्ञानं सूर्य्योदयास्ताभ्यां तत्र क्षितिजे पूर्वापरवृत्तंकत्र लग्नमिति ज्ञानं तु विषुवद्वृत्तक्रान्तिवृत्तसम्पा-तस्थसूर्य्यस्योदयास्तस्थलज्ञानेन विषुवद्वृत्तस्य पूर्वापर-क्षितिजवृत्तसम्पातयोः सम्बद्वत्वात्। अघान्यस्मिन् दिनेसूर्य्यस्योदयास्तावग्रागान्तर{??} याम्योत्तरे भवत इतिसूर्य्योदयास्तस्थानाभ्यामग्राशा{??}रेणोत्तरयाम्ये पूर्वापर-स्थानं भवतीति क्षितिज{??} महत्त्वाद्दूरत्वाच्च तद्दानेनपूर्वापरज्ञानमशक्यमतस्तत्सूत्रेण स्वामीष्टप्रदेशे तज्ज्ञा-नार्थमभीष्टसमस्थले क्षितिज{??} वृत्तं कृतम्। तत्रापिसूर्य्योदयास्तसमसूत्रण{??} दुःशकत्वात् छायार्थंशङ्गुः स्थाप्यः। तथापि सूर्य्योदये छायानन्त्याद्वृत्तपरिधौतदग्रस्पर्शाभावः। परन्तु यथा यथा सूर्य ऊर्द्घभवति तथा तथा छायाह्रासाद्यत्र छाया वृत्तपरिधौयदा प्रविशति तत्स्थानात्{??}लिको वक्ष्यमाणभुजोव्यस्तोऽर्धज्याकारेण देय{??}ज्यत्र परिधिप्रदेशेलगति तत्र शङ्कुस्यानस्य पश्चिमा। छायाग्रस्य पूर्वापरसूत्राद्भुजान्तरेण याम्योत्तरपतनात् सूर्य्यापरदिशिछायापतनाच्च। एवं दिनापरार्धे सूर्य्यो यथा यथाधःसञ्चरति तथा तथा छायावृद्धः शङ्कच्छायावृत्तपरिध{??}यत्र यदा निर्गच्छति तात्कालिको वक्ष्यमाणभुजो व्यस्तो-[Page2988-b+ 38] ऽर्द्धज्याकारेण तत्स्थाने देयस्तदुत्क्रमज्या यत्र परिधि-प्रदेशे लगति तत्र शङ्कुस्थानस्य पूर्वा। तत्सूत्रं पूर्वापर-सूत्रम्। इदं शङ्कोरुपलक्षणत्वेन ज्ञानं तथा छायोप-लक्षणेनापि प्रदेशस्य पूर्वापरसूत्रज्ञानम्। तथा हि। यत्र छायाग्रं विशति तत्रापरा, छायाग्रं यतो निर्गच्छतितत्र पूर्वा। तत्रापि प्रवेशनिर्गमयोरेककालत्वासम्भवा-द्यत्कालिकः प्रवेशस्तत्काले छायायाः पाश्चमत्वं तत्र वस्त-भूतं तत्काले निर्गमनस्य पूर्वत्वासम्भवः। एवं निर्गम-काले निर्गमस्थानस्य पूर्वत्वं वस्तुभूतं तत्काले प्रवेशस्यपश्चिमत्वासम्भवः। एककालिकसिद्ध्यर्थमुमयोरेकतरचिह्नं चाल्यं तात्कालिकभुजयोरन्तरेण तत्र पूर्वचिह्नंभुजान्तराङ्गुलैरयनदिशि चाल्यम्। पश्चिमचिह्नं वात्यस्तायनदिशि चाल्यम्। तत्सूत्रं सूत्रमध्यदेशस्य पूर्वा-परसूत्रम्। एतन्मध्ये स्थापितशङ्कोश्छायाग्रप्रवेशनिर्गम-चिह्नाभ्यां यथोक्तरीत्या मुजदानेन सिद्धपूर्वापरसूत्रेणा-भिन्नत्वात्। तदुक्तं सिद्धान्तशिरोमणौ
“तत्काला-पमजीवयोस्तु विवराद्भाकर्णमित्या हतात् लम्बज्याप्त-मिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता” इति। तदेतद्भगवता लोकानुकम्पया खल्पान्तरत्वादेकतरवि न्दु-चालनं नोक्तं सुखार्थं किञ्चित्स्थूलावेव निर्गभप्रवेश-विन्दू पूर्वापराभिधावुक्तौ। एवञ्चाभीष्टस्थानं प्रवेश-निर्गमसूत्रमध्ये यथा भवति तथानेन प्रकारेण मण्डल-केन्द्रशङ्कुस्थापनादिनाऽभीष्टप्रदेशे पूर्वापरदिशे साध्येइति। तन्मध्ये दक्षिणोत्तररेखाविन्दुद्वयोत्पन्नमध्य-मत्स्यरेखैवेति। याम्योत्तरमध्ये पूर्वापरा रेखा तद्दिङ्मध्यमत्स्येनेति याम्योत्तरदिशोरित्यादि सम्यगुक्तम्ननु पूर्वापरविन्दुभ्यां मत्स्येन या दक्षिणोत्तररेखा तद-ग्राभ्यां मत्स्येन रेखा पूर्वापरविन्दुस्पृष्टैवेति पूर्वंतस्या एव विन्द्वन्तरत्वेन सिद्धत्वात् पुनं साधनं व्यर्थ-मन्यथा दक्षिणोत्तररेखाया अप्यसङ्गतत्वापत्तेरिति चेत्सत्यम्। दक्षिणोत्तररेखाशुद्ध्यर्थमेव पूर्वापरविन्दुस्पृष्ट-रेखायाः पुनः साधनमिति केचित्। वस्तुतस्तु दक्षि-णोत्तरपूर्वापरसूत्रसगातरूपाभीष्टस्थानात् केन्द्रात् प्रा-गुक्तवृत्तस्य वक्ष्यमाणोपयोगित्वेनावश्यकत्वात् तस्य चपूर्वापरविन्द्वन्तरख्यत्राधिकव्याससूत्रत्वाद्विन्द्वन्तररेखा मूलाग्रयोर्बर्धनीया सा तत्र वृत्ते पूर्वापररेखा भवति। तस्या विन्दोरुपर्यधश्च वक्रत्वं कदाचित् स्यादतः प्रथम-मेव पूर्णरेखासिद्ध्यर्थ विन्द्वन्तरसिद्धमत्स्यमुखपुच्छगत-[Page2989-a+ 38] रेखाया विन्द्वतराधिकत्वेन तदुत्पन्नमत्स्यरेखाया ऋज्व्याःसुतरामधिकत्वेन पुनः पूर्वापररेखासाधनं युक्ततरमितितत्त्वम्। एवमेवाव्यवहितदिग्द्वयान्तरोत्पन्नलघुमत्स्यै-श्चतुर्मिः सूत्रैर्वृत्ते कोणदिशः। तदिदमभीष्टस्थान-केन्द्रकमण्डले दिगष्टकं सिद्धम्॥ अथ दिक्सूत्रसम्पात-रूपाभीष्टस्थानात् तात्कालिकच्छायाग्रस्थानमाह” र॰ ना॰
“चतुरश्रं बहिः कुर्य्यात् सूत्रैर्मध्याद्विनिर्गतैः। भुज-सूत्राङ्गुलैस्तत्र दत्तै{??}ष्टप्रभा स्मृता” सू॰ मि॰।
“मध्यादभीष्टस्थानाद्दिग्रेखा सम्पातरूपाद्विनिर्गतैर्निः-सृतैरष्टदिग्रेखारूपैः। बहिर्दिक्सूत्रसम्पातकेन्द्रवृत्ताद्ब-हिः। अनेनैव वृत्तकरणं पूर्वमनुक्तं द्योतितम्। अन्यथाबहिरित्यस्यानुपपत्तेः। पूर्ववृत्तग्रहणे तु दिग्रेखा-सम्पातस्य मध्यत्वानुपपत्तेः। चतुरश्रं कोणरेखाधिक-सूत्रकर्णद्वयतुल्यं समचतुर्भुजं कुर्य्यात्। यथा च तद्द-र्शनम्। तत्र चतुरश्रे भुजसूत्राङ्गुलैर्वक्ष्यमाणभुजमित-सूत्रस्याङ्गुलैर्निर्गमप्रवेशकालिकैर्दत्तैः पूर्वापरसूत्रादर्धज्या-वद्दीयमानैस्तत्र वृत्ते यस्मिन् प्रदेशे भुजाग्रं ततप्रदेशेइष्टप्रभा निर्गमप्रवेशान्यतरकालिकच्छायाग्रमुक्तम्। प्रती-तिस्तु दिक्सूत्रसम्पातस्थशङ्कुना ज्ञेया। अत्रोपपत्तिः। वक्ष्यमाणभुजस्य छायाग्रपूर्वापरसूत्रान्तरत्वेन प्रतिपादि-तत्वादिष्टच्छायाग्रमुक्तदिशा ज्ञातं सम्यक्। चतुरश्रकरणं वक्ष्यमाणाग्रसाधकप्राच्यपररेखानुकाररेखायावृत्तान्तस्तद्बहिर्वा ऋजुत्वसिद्ध्यर्थमिति। अथ पूर्वा-पररेखायाः सञज्ञान्तरसाह” र॰ ना॰।
“प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम्। उन्म-ण्डलं च विषुवन्मण्डलं परिकीर्त्यते” सू॰ सि॰। (
“प्राक्पश्चिमाश्रिता पूर्वपश्चिमसम्बद्धा साधिता रेखासमवृत्तमुच्यते। सैव रेखोन्मण्डलं विषुवन्मण्डलम्। चःसमुच्चये। उभयसञ्ज्ञकं कथ्यते। अत्रीपपत्तिः। क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरे तत्सूत्रं पूर्वापर-सूत्रमिति। पूर्वापरवृत्तस्य भूमावूर्ध्वाधरानुकारिवृत्तत्वेना-दर्शनाद्रेखाकारंतयैव दर्शनाच्च पूर्वापरवृत्तमपि तत्-सूत्रम्। पूर्वापरवृत्तस्य सममण्डलत्वेनाभिधानात्तद्रेखासममण्डलसञ्ज्ञोक्ता। अथ स्वनिरक्षदेशक्षितिज-वृत्तस्योन्मण्डलाख्यस्य तत्संयीगयोः संलग्नत्वात् तन्मध्य-सूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात् पूर्वापरसूत्रमुन्म-ण्डलसञ्ज्ञम्। एतेनान्यदेशक्षितिजसञ्ज्ञया स्वदेश-क्षितिजसञज्ञा स्तुतरां सिद्धेति पूर्वापरसूत्रस्य क्षिति-[Page2989-b+ 38] जवृत्तसञ्ज्ञा द्योतिता। पूर्वापरस्थानयोः क्षितिजवृत्त{??}संलग्नत्वादुल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च। एवंनिरक्षदेशपूर्वापरवृत्तं विषुवन्मण्डलाख्यं पूर्वापरस्थानयोःसंलग्नमिति तन्मध्यसूत्रत्वेनापि पूर्वापरसूत्रस्य सिद्धत्वात्पूर्वापरसूत्रं विषुवन्मण्डलसञ्ज्ञं क्रान्तिवृत्तस्य दृग्वृत्तस्यच चलत्वात् कादाचित्कत्वेन पूर्वापरस्थानसंलग्नत्वात्तत्सञ्ज्ञा नोक्तेति ध्येयम् अथाग्राज्ञानमाह” र॰ ना॰।
“रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा। इष्ट-च्छायाविषुवतोर्मध्यमग्राऽभिधीयते” सू॰ सि॰।
“तस्मिंश्चतुरश्रे पूर्वापररेखात उत्तरभागे विषुवद्भाग्र-गाऽक्षभाग्रप्रदेशस्थाक्षमाङ्गुलान्तरितेत्यर्थः। प्राच्यपरा रेखापूर्वापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण यथे-ष्टच्छायाग्ररेखाभुजान्तरेण तथाक्षभान्तरेण कार्या। अनन्तरमिष्टच्छायाविषुवतोरिष्टच्छायाग्ररेखाक्षभाग्ररेखयो-रित्यर्थः। मध्यं चतुरश्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तु-ल्यम्। अग्रा कर्णवृत्ताग्रोच्यते। अत्रोपपत्तिः। भुजस्यकर्णवृत्ताग्रा पलभासंस्कारेणाग्रे उक्तत्वद्दक्षिणगोले पल-भाधिकोत्तरभुजसद्भावेन पलभोनो भुजोऽग्रेति, प्राच्यप-रसूत्रादुत्तरभागेऽक्षभाग्ररेखा भुजमध्ये भवतीति द्वयोरेखयोरन्तरमग्रा पलभोनभुजरूपा। एवमुतरगीलेउत्तरभुजस्य पलभाल्पत्वाद्धुजोनपलभाग्रेति पलभारेखाप्राच्यपरसूत्रादुत्तरभागस्था भुजरेखातोऽप्यग्रान्तरेणोत्त-रदिशीति द्वयो रेखयोरन्तरं भुजोनपलभारूपं कर्ण-वृत्ताग्रा। एवं दक्षिणभुजस्य पलभोनाग्रात्वात् पलमा-युतो मुजोऽग्रति प्राच्यपरसूत्राद्भु जाग्रपलभारारेखयोःक्रमेण याभ्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्यरूप-मग्रा, पलभायाः शङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छायामम्बुन्धाद्युक्तम् गोले शङ्कुतलस्य दक्षिणत्वाद्ग्रहाप-रदिशि छायासद्भावाच्च। अतएव प्राच्यपरसूत्राद्दक्षिण-भागे दक्षिणभुजवशादक्षभाग्ररेखाकल्पने उक्तानुपपत्त्यासम्यगुत्तरभागे पूर्वापरसूत्रादिति विषुवडाग्रगेत्यत्र व्याख्या-तम्” अथ प्रसङ्गाज्ज्ञातच्छायातः कर्णज्ञानं तच्छुद्धिंचाह र॰ ना॰।
“शङ्कुच्छायाकृतियुतेर्मलं कर्णोऽस्य वर्गतः। प्रोज्झ्यशङ्कु कृतिं मूलं छाया शङ्कुर्विपर्ययात्” सू॰ सि॰
“हादशाङ्गुलशङ्कुच्छाययोर्वर्गयोगात पदं छायाकर्णःस्यात्। अथास्य शुद्धिरूपं छायासाधनमाह। अ-स्येति। छायाकर्णस्य वर्गात{??} वर्गं चतुश्चत्वारिंशु-[Page2990-a+ 38] दधिकं शतं विशीध्य मूल छाया। प्रकारान्तरेण छा-याकर्णशुद्धिमाह। शङ्कुरिति। विपर्ययाच्छायासाधनवैप-रीत्यावछायाकर्ण्णवर्गाच्छायावर्गं विशोध्य मूलमित्यर्थः। शङ्कुर्द्वादशाङ्गुलमितः स्यात्। अत्रोपपत्तिः। द्वादशा-ङ्गुलशङ्कुः कोटिरक्षभा भुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्ष-कर्णः कर्ण इत्याद्यक्षक्षेत्राद्युक्तरीत्योपपन्नम्। ननु दिक्-साधनोत्तरमिष्टप्रभाग्राकर्णसाधनं भगवता सर्वज्ञेनकिमर्थमुक्तमग्रेऽग्रादीनां स्वतन्त्रतयोक्तत्वात्। न च वि-ना गणितश्रममग्राज्ञानार्थमिदं युक्तमुक्तमिति वाच्यम्। वक्ष्यमाणभुजज्ञानस्याग्रोपजीव्यत्वेन तस्याश्च भुजीपजीव्य-त्वेनान्योत्याश्रयात् गणितज्ञाताग्रायाः पुनः साध-नस्य व्यर्थत्वाच्च। न च भुजसूत्राङ्गुलैर्दत्तैरित्यनेनेष्टच्छा-याग्रं ज्ञातमिति न, किन्त्वेतदुक्त्या दिक्सूत्रसम्पातस्थश-ङ्कोर्वृत्तपरिधौ छायाग्रज्ञानात् तत्पूर्वापरसूत्रान्तरे भु-जसद्भावाद्विना गणितं भुजोऽपि ज्ञात इति नान्योन्या-श्रय इति वाच्यम्। तथापि भगवतः सर्वज्ञस्य निष्प्र-योजनत्वोक्तेरनुचितत्वात्। विना प्रयोजनं मन्दोक्तेरष्व-भावाच्च। न हि दिक्साधनेऽग्राभुजादिकमावश्यर्कयेन तदुक्तिर्युक्ता। किञ्च कर्णसाधनस्य गणितोक्त्यावक्ष्यमाणकर्णसाधनतुल्यत्वेनात्र कथनमनुचितम्। नहि दिक्साधनार्थं
“भाकर्णमित्या हतादिति” सिद्धान्त-शिरोमण्युक्तिवदत्र छायाकर्ण उपयुक्तो येन तदुक्ति-र्युक्तेति चतुरश्रमित्यादिश्लोकचतुष्टयमन्येन मन्दबुद्धिनाक्षिप्तं न भगवतोक्तामति चेन्मैवम्। भुजसाधनोप-जीव्याग्राया एतदुक्तप्रकारेण सिद्धौ दिशः सम्यक् सिद्धाइति दिक्साधनशुद्ध्व्ययमग्रासाधनम्। प्रकारान्तरेणापिवक्ष्यमाणत्रिज्यावृत्तीयाग्रया त्रिज्या लभ्यते तदानया-गतया केव्यनुपातेन साधितकर्णसंवादेन शुद्ध्यवगमार्थंकर्णसाधनं चोक्तम्। अनयाग्रया कर्णस्तदा त्रिज्या-वृत्तीयाग्रया क इति फलस्य त्रिज्यातुल्यस्यातयनार्थं वाकर्णसाधनमिति केचित्। वस्तुतस्तु मण्डले छायाप्र-वेशनिर्गसस्थानस्थितपूर्वापरविन्द्वोः प्रत्येकं रेखेतिरेखाद्वयं सर्वतस्तुल्यान्तरं कार्यं तेनान्तरेणान्यतरोविन्दुबाल्यस्तो पूर्वापरविन्यू तद्रेखामध्यस्थानस्य पूर्वा-पररेखेति। तत्रोभयविन्दुरेखयोरन्तराङ्गुलमानंस्वल्पत्वाद्गणयितुमशक्यमतः प्रत्येक{??}ख प्राच्यपररेखेप्रकल्प्य तन्मध्यकेन्द्रात् पूर्ववृत्तं प्रत्यकमिति वृत्तद्वयंकुर्यात्। तत्र स्वस्वेवृत्त खखपाच्यपररेखास्पृष्टा[Page2990-b+ 38] कार्या ताभ्यां स्वस्वकालिकौ भुजौ स्वस्ववृत्ते देयौ तदग्रेछायाग्ररेखे स्वस्ववृत्ते कार्ये स्वस्वप्राच्यपरसूत्रत् स्वस्व-वृत्ते उत्तरभागेऽक्षभाङ्गुलान्तरेण रेखे कार्ये ततःस्वस्ववृत्ते स्वस्वतद्रेखयोरन्तरं स्वस्ववृत्ते उभयकालिककर्ण-वृत्ताग्रे बहुत्वेन गणयितुं शक्ये तदन्तरं पूर्वविन्द्वोर्या-म्योत्तरमन्तरं कर्णवृत्ताग्रासाधनकथनेनानीतं भुजान्तरस्यविन्द्वन्तरत्वात् तस्य चाग्रान्तरत्वेन फलितत्वात्। विषु-वद्दिने गोलमेदे तु भुजान्तरमग्रायोग इति विन्द्वोर्या-म्योत्तरमग्रायोग इति। तेनोक्तरीत्या विन्दुश्चाल्यस्तत्सूत्रंपूर्वापरसूत्रं स्फुटमित्याशयेन मगवताग्रा निरूपितातस्याः शुद्ध्यर्थं कर्णोऽपि साधित इति तत्त्वम्” र॰ ना॰। अतः परं
“त्रिंशत्कृत्यो युगे भानामित्यादिः” ग्रन्थः। स चंअयनशब्दे

३३

६ ।

३३

७ पृ॰ दर्शितः। सोऽत्रानुसन्धेयः। (
“स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये। प्राक्चक्रं चलितं हीने छायार्कात् करणागते। अन्तरांशैर-थावृव्य पश्चाच्छेषैस्तथाधिके” सू॰ सि॰। (
“अयने दक्षिणोत्तरावणसन्धौ विषुवद्वये गोलसन्धौचलितं चक्रं दृक्तुल्यतां दृष्टिगोचरतां स्फुटमनायासंगच्छेत्। तत्र प्रत्यक्षतस्तन्मितमन्तरं दृश्यत इत्यर्थः। तथा च सृष्ट्यादिकाले रेवतीयोगतारासन्नावधि मेषतु-लाद्योः कर्कमकराद्योर्विषुवायनप्रवृत्तेरिदानीं त्वन्यत्रतत्स्वरूपे प्रत्यक्षे इति क्रान्तिवृत्तं चलितमन्यथा तदनु-पपसेरिति भावः। ननु पूर्वतोऽपरत्र वा चलितमितिकथं ज्ञेयमित्यत आह। प्रागिति। छायार्काद्यद्दिनेसूर्यस्यायनदिक्परावर्तनमुदये प्राच्यपरसूत्रस्थत्रं वा त-स्मिन् दिनेऽन्यस्मिन् दिमे वा मध्याह्नच्छायातो वक्ष्यमा-णप्रकारेण सूर्यः साध्यस्तस्मादित्यर्थः। करणागते प्रागु-क्तप्रकारेणानीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः। न्यूनेसति। अन्तरांशैः सूर्ययोरन्तरांशैश्चक्रं क्रान्तिवृत्तंप्राक् पूर्वस्मित् चलितमिति ज्ञेयम्। अथ यद्यविकेसति शेषैः सूर्वयोरन्तरांशैश्चक्रमावृत्य परिवृत्य पश्चात्पश्चिमाभिमुखं तथा चलितमिति ज्ञेयम। अत्रोपप-त्तिः। छायातो वक्ष्यमाणप्रकारेण सूर्यो वर्त्तमानस-म्पानाद्गणितागतस्तु रेवतीयोगतारासन्नाद्यवधितोऽत-स्तयोरन्तरमयनांशास्तत्र क्रान्तिवृत्तस्य पूर्व्वचलने गणि-तागतार्काच्छायार्कोऽधिको बबति। पश्चिमचणने तुन्यूनो भवतीति सम्यगुपपन्नम। अथ चराद्युपजीव्यां पलभामाह” र॰ ना॰। [Page2991-a+ 38] एवं विषुवती छाया स्वदेशे या दिनार्धजा।
“दक्षिणी-तारेखायां सा तत्र विषुवत्प्रभा” सू॰ सि॰। (
“स्वाभीष्टदेशे एवं विषुवती चलितविषुवद्दिनसम्बद्धारेवत्यासन्नस्याप्युपचाराद्विषुवत्सञ्ज्ञा तद्व्यावर्तकमेवमिति। दिनार्धजा माध्याह्निकी या यन्मिता द्वादशाङ्गुलशङ्को-श्छाया दक्षिणोत्तररेखायां निरक्षोत्तरदक्षिणदेशक्र-मेणोत्तरस्यां दक्षिणस्यां प्रमायाः दक्षिणोत्तररेखास्थत्वंविना मध्याह्नासम्भवात् सा तन्मिता तत्र तस्मिन्नभीष्टदेशेविषुवत्प्रभाऽक्षभा भवति। एतेन द्वादशाङ्गुलशङ्कुःकोटिः पलभा भुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णःकर्ण इत्यक्षक्षेत्रं वक्ष्यमाणोपयुक्तं प्रदर्शितम्। तदासूर्य्यस्य विषुवद्वृत्तस्थत्वाद्विषुवत्प्रभेति सन्ज्ञोक्ता। अथलम्बाक्षयोरानयनमाह” र॰ ना॰। (
“शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते। लम्बा-क्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा” सू॰ सि॰।
“त्रिज्येद्विस्थानस्थे शङ्कुच्छायाहते एकत्र द्वादशगुणिता-परत्र प्रागुक्तया विषुवत्प्रभया गुणिता विषुवत्कर्णभाजि-तोभयत्राक्षकर्णेन भक्ता फले क्रमेण लम्बज्याक्षज्ये तयो-र्ज्ययोर्धनुषी क्रमण लम्बाक्षौ सदाभयगोले दक्षिणदिक्स्थौभवतः। अत्रोपपात्तिः। याम्योत्तरवृत्ते निरक्षस्वदेश-पूर्वापरवृत्तयोर्यदन्तरं तदक्षः। याम्योत्तरवृत्ते दक्षि-णक्षितिजप्रदेशाद्विषवद्वृत्तस्य यदन्तरं तल्लम्बः। उभा-वूर्द्ध्वगोले स्वपूर्वापरवृत्ताद्दक्षिणौ तज्ज्ये अक्षलम्बज्येभूजकोटी त्रिज्याकर्ण इत्यक्षक्षेत्रादक्षकर्णकर्णे द्वादशप-लभे कोटिभुजौ तदा त्रिज्याकर्णे कावित्यनुपाताभ्यांलम्बाक्षज्ये तद्धनुषो लम्बाक्षावित्युपपन्नम्। अथ म-ध्याह्नच्छायातोऽक्षानयनं श्लोकाभ्यामाह” र॰ ना॰(
“मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका। स्वक-र्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे। उत्तरा-श्चोत्तरे थाम्यास्ताः सूर्यक्रान्तिलिप्तिकाः। दिग्भेदेमिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः” सू॰ सि॰।
“अभीष्टदिन माध्याह्निका छाया भुजसञ्ज्ञा ज्ञेया। तेन भुजेन त्रिज्या गुणिता मध्याह्नच्छायाकर्णेन भक्ताफलस्य धनुःकला नता नतसञ्ज्ञास्ता नतकला दक्षिणेभुजे मध्याह्नच्छायारूपभुजे प्राच्यपरसूत्रमध्याद्दक्षिणदि-कस्थे सति, उत्तरदिक्का उत्तरे भुजे दक्षिणाः। चोविषयव्यवस्थार्थकः। ता नतकलाः सूर्यक्रान्तिकलाःप्रागुक्ताः दिगभेदे खदिशोर्भिन्नत्वे मिश्रिताः संयुक्ताः[Page2991-b+ 38] साम्येऽभिन्नदिक्त्वे विश्लिष्टा अन्तरिताः। चो विषय-व्यवस्थार्थकः। अक्षकला भवन्ति। अत्रानावश्यक-भुजसञ्ज्ञया भगवतोपपत्तिरुक्ता। तथाहि। द्वाद-शाङ्गुलशङ्कुकोटौ मध्याह्नच्छायाकर्णे वा मध्यच्छाया-भुजस्तथा स्वस्वस्तिकान्मध्याह्नकाले सूर्यस्य याम्योत्तरवृत्तेयदन्तरेण नतत्वं ता नतकलास्तज्ज्या नतांशज्या मध्या-ह्नोनतांशज्यारूपशङ्कौ त्रिज्याकर्णे वा भुज इति मध्या-ह्नच्छायाकर्णे कर्णे मध्याह्नच्छाया भुजस्तदा त्रिज्याक-र्णे को भुज इत्यनुपातेन नतज्या तद्धनुरत्र कलात्मक-त्वान्नतकलास्ता ग्रहसम्बद्धा इति च्छायादिग्विपरीत-दिक्काः। अथ क्रान्त्यंशाक्षांशयोरेकदिक्त्वे योगेन नतां-शा इति दक्षिणा नतकला दक्षिणक्रान्तिकलाभिर्हीनाअक्षांशा भवन्ति। क्रान्त्यंशाक्षांशयोर्मिन्नदिक्त्वेऽन्तरेणनतांशा यदि दक्षिणास्तदा क्रान्त्यूनाक्षांशस्य नतत्वा-दुत्तरक्रान्तियुता अक्षांशाः। यदि तूत्तरास्तदाक्षांन-क्रान्तेर्नतत्वान्नतोनोत्तरक्रान्तिरक्ष इति सम्यगुपपन्नम्। अथाक्षात् पलमानयनमाह” र॰ ना॰। (
“ताभ्योऽक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम्। लम्बज्यार्कगुणाक्षज्या विषुवद्भा थ लम्बया” सू॰ सि॰। (
“ताभ्योऽक्षकलाभ्योऽक्षज्या भवति। चः समुच्चये। अक्षज्यावर्गं त्रिज्याबर्गात् त्यक्त्वा शेषान्मूलं लम्बज्या। अनन्तरमक्षज्या द्वादशगुणा लम्बया लम्बज्यया गुणनस्यभजनसम्बन्धाद्भक्तेत्यर्थसिद्धम्। अक्षभा स्यात्। अ-त्रोपपत्तिः। अक्षकलानां याक्षज्या तस्यास्त्रिज्याकर्णेभुजत्वात् तद्वर्गोनात् त्रिज्यावर्गान्मूलं लम्बज्या कोटिः। तयाक्षज्या भुजस्तदा द्वादशकोटौ को भुज इत्यनुपातेनविषुवच्छायेति। अथाक्षज्ञाने नतभागेभ्यः क्रान्तिद्वारासूर्यसाधनं सार्धश्लोकाभ्यामाह” र॰ ना॰। (
“स्वाक्षार्कनतभागानां दिक्साम्येऽन्तरमन्यथा। दिग्-भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता। पर-मापक्रमज्याप्ता चापं मेषादिगो रविः। कर्कादौ प्रो-ज्झ्य चक्रार्धात् तुलादौ भार्धसंयुतात्। मृगादौ प्रो-ज्झ्यभगणान्मध्याह्नेऽर्कःस्फुटीभवेत्” सू॰ सि॰।
“स्वदेशाक्षांशेष्टदिनीयमध्याह्नसूर्य्यनतांशयोर्भागाना बहु-त्वाद्बहुवचनम्। एकदिक्त्वेऽन्तरमन्यदिक्त्वेऽन्यथा योगःकार्य्यः। शेष उक्तसंस्कारसिद्धोऽङ्कः क्रान्तिः स्यात्। तस्यापक्रमस्य ज्या त्रिज्यया गुण्या परमक्रान्तिज्ययाप्रागुक्तया भक्ता फलस्य धनुर्भागादिकं मेषादिगो मेषादि-[Page2992-a+ 38] राशित्रितयान्तर्गतोऽर्कः स्यात्। कर्कादित्रयेऽर्के चक्रा-र्धात षड्राशित आगतार्कं त्यक्त्वा शेषं मध्याह्नकाले स्फु-टोऽर्कः स्यात्। तुलादित्रितये षड्भयुतादागतार्कात्स्फुटोऽर्कोज्ञेयः। आगतोऽर्कः षड्मयुतः स्फुटोऽर्कःस्यादित्यर्थः। मकरादित्रयेऽर्के द्वादशराशिभ्य आगतार्कंत्यक्त्वा शेषमयनांशसंस्कृतः स्फुटोऽर्कः स्यात्। करणाग-तज्ञानार्थं व्यस्तायनांशसंस्कृत इत्यर्थसिद्धम्। पूर्वं तत्-संस्कृतग्रहात् क्रान्तिः साध्येत्यर्थस्योक्तेः। अत्रोप-पत्तिः। एकदिशि क्रान्त्यक्षयोगान्नतं दक्षिणमतोऽक्षोनंक्रान्तिर्दक्षिणा। भिन्नदिशि क्रान्त्यूनाक्षो नतं दक्षि-णमनेनाक्षो हीनः क्रान्तिरुत्तरा। अक्षोनक्रान्तिर्नतंतूत्तरमतोऽक्षयुतं क्रान्तिरुत्तरा। अस्या ज्या क्रान्तिरर्कज्या। यदि परमक्रान्तिज्यया त्रिज्याभुजः स्यात् तदानयाकेतीष्टा सायनार्कभुजज्या वद्धनुः सायनार्कभुज। भुज-स्य चतुर्षु पदेषु तुल्यत्वात् प्रथमपदे मेषादित्रये सूर्य्य-स्यैव भुजत्वाद्भुज एव सूर्य्यः। कर्कादित्रये द्वितीयपदेषडभादूनस्यार्कस्य भुजत्वाद्भुजोनषड्भमर्कः। एवं तृती-यपदे तलादित्रये षड्भेन हीनार्कस्य भुजत्वात् षड्युतोभुजोऽर्कः। चतुर्थपदे मकरादित्रये सूर्योनभगणस्यभुजत्वात् सर्य्योनभगणोऽर्क इति सर्वं वैपरीत्यात् सुगम-तरम्। अथागतस्फुटसूर्य्यस्य करणागतस्फुटतुल्यत्वज्ञानमागतस्फुटसूर्य्यान्मध्यमस्य करणागतमध्यमार्कतुल्यत्वेनविशेषं वक्तुं श्लोकार्धेनाह र॰ ना॰।
“तन्मान्दमसकृद्वामं फलं मध्यो दिवाकरः”। सू॰ सि॰।
“तस्मादागतस्फुटसूर्य्यान्मान्दं फलं मन्दफलमसकृदनेक-वारं वामं व्यस्तं संस्कतं स्फुटसूर्य्योऽहर्गणानीतःस्फुटसूर्य्यः स्यात्। अयमर्थः। स्फुटसूर्य्यं मध्यमं प्र-कल्प्य पूर्व्वमन्दोच्चात् प्रागुक्तरीत्या मन्दफलं धनमृणमा-नीय स्फुटसूर्य्ये ऋणं धनं कार्य्यं मध्यमसूर्य्यः। अस्मा-दपि मन्दफलं स्पष्टसूर्य्ये व्यस्तं संस्कृतं मध्यमोऽस्मादपिमन्दफलं स्पष्टे व्यस्तं मध्यमार्क इति यावदविशेषस्ता-वदसकृत् साध्योऽर्को मध्योऽहर्गणानीती भवतीति। त-था च मध्यमार्कात् स्फुटार्कसाधनमेकवारं मन्दफल-संस्कारः स्फुटार्का{??}ध्यार्कसाधने त्वनेकवारं मन्दफल-व्यस्तसंस्कार इति विशेषोऽभिहितः। अत्रोपपत्तिः। मध्यमसूर्य्यादानीतमन्दफलेन संस्कृतो मध्यःस्फुटोऽर्कोभवति। अयं वा तेनैव मन्दफलेन व्यस्तं संस्कृतो मध्योभवति। अत्र स्फुटार्कान्मध्यार्कसाधने मध्यमज्ञानासम्भवात्[Page2992-b+ 38] तदानीतमन्दफलज्ञानमशक्यमतः स्फुटसूर्य्यं मध्यमं प्र-कल्प्यानीतमन्दफलेनाभिमतासन्नेन स्फुटोऽर्कोव्यस्तंसस्कृतो मध्यमासन्नः। अस्मादपि मन्दफलमभिमतास-न्नमपि पूर्व्वस्मात् सूक्ष्ममिति यावदविशेषे मध्यार्कसाधितमन्दफलं भवतीति निरवद्यं सर्वमुक्तम्। अथ मध्याह्नेछायाकर्णयोरानयनं विवक्षुः प्रथमं तात्कालिकनतांशज्ञानंकथयंस्तद्भुजकोटिज्ये कार्य्ये इत्याह” र॰ ना॰।
“स्वाक्षार्कापक्रमयुतिर्दिक्साम्येऽन्तरमन्यथा। शेषं नतांशाः सूर्य्यस्य तद्बाहुज्या च कोटिजा” सू॰ सि॰।
“दिकमाम्ये एकदिक्त्वे स्वदेशाक्षांशमध्याह्नकालिकसूर्य्यक्रान्त्यंशयोर्योगः। अन्यथा अत उक्तादेकदिक्त्वाद्वैपरीत्येभिन्नदिक्त्वे इत्यर्थः अक्षांशक्रान्त्यंशयोरन्तरं कार्य्यशेषं संस्कारोत्पन्नं सूर्य्यस्य मध्याह्ने नतांशास्तेषांनतांशानां भुजरूपाणां ज्या कोटिजा तदंशा नवतिशुद्धाः कोटिस्तत उत्पन्ना ज्या। चः समुच्चये। साध्या। अत्रोपपत्तिः। याम्योत्तरवृत्ते सूर्य्यस्य मध्याह्ने स्वस्वस्ति-कादनन्तरं नतांशा विषुवद्वृतपर्य्यन्तमत्तांशाः। विषु-वद्वृत्तसूर्य्ययोरन्तरं क्रान्त्यंशाः। अतो दक्षिणक्रान्तौक्रान्त्यक्षयोगो नतांशा उत्तरक्रान्तौ क्रान्त्यूनाक्षोऽक्षोन-क्रान्तिर्वा दक्षिणोत्तरनतांशास्तेषां ज्या दृग्ज्या भुजस्त-त्कोटिज्या महाशङ्कुः कोटिस्त्रिज्या कर्ण इतिछायाक्षेत्रे तदंशानां भुजत्वात” अथ छायाकर्णयो-रानयनमाह। र॰ ना॰।
“शङ्कुमानाङुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्। कोटि-ज्यया विभज्याप्ते छायाकर्णावहर्दले” सू॰ सि॰।
“भुजत्रिज्ये नतांशज्यात्रिज्ये इत्यथः। शङ्को प्रमा-णाङ्गुलानि द्वादश तैर्गुणिते कार्य्ये। उभयत्र कोटि-ज्यया नतांशीननवत्यंशानां ज्ययेत्यर्थः। भक्त्वा लब्धे-द्वे यथाक्रमं भुजज्यात्रिज्यास्थातीयफलक्रमेण मध्याह्नेछायातत्कर्णौ भवतः। अत्रोपपत्तिः। द्वादशाङ्गुलशङ्कोःकोटिरिष्टच्छायाभुजस्तत्कृत्योर्योगपदं कर्ण इति छाया-कर्णः कर्ण इति छायाक्षेत्रे। महाशङ्कुकोटौ दृग्ज्या-त्रिज्ये भुजकर्णौ तदा द्वादशाङ्गुलशङ्कुकोटौ कावित्य-नुपातेन मध्याह्नकाले छायातत्कर्णौ भवतः। साधक-योस्तात्कालिकत्वादित्युपपन्नम” र॰ ना॰। अथ भुजमाधनं विवक्षुः प्रथममग्रा कर्णाग्रे आनयति।
“क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया। अर्काग्रास्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका” सू॰ सि॰। [Page2993-a+ 38] सूर्यक्रान्तिज्या अक्षकर्णगुणिता शङ्कुजीवया शङ्कुर्द्वादशा-ङ्गुलस्तद्रूपा ज्या तयेत्यर्थः। द्वादशभिरिति फलितम्। भक्ता फलं सूर्यस्याग्रा। उपलक्षणाद्ग्रहस्यापि। इय-मग्रा स्वाभिमतकालिकच्छायाकर्णेन गुणिता मध्य-कर्णोद्धृता कर्ण्णस्य व्यासस्य मध्यमर्धमिति मध्यकर्णोव्या-सार्द्धं त्रिज्या तयेत्यर्थः। भक्ता फलं स्वका स्वकर्णाग्रास्यात्। अत्रोपपत्तिः। क्रान्तिज्योन्मण्डले कोटिरग्राक्षितिजे कर्णः कुज्या भुज इत्यक्षक्षेत्रे द्वादशकोटावक्षकर्णः कर्णस्तदा क्रान्तिज्याकोटौ क कर्ण इत्यनुपाते-नाग्रा। त्रिज्यावृत्ते इयं कर्णवृत्ते केत्यनुपातेन कर्ण्ण-वृत्ताग्रेत्युपपन्नम्। अथ भुजानयनं श्लोकाभ्यामाह” र॰ ना॰। (
“विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः। विषु-वत्यां विशोध्योदग्गोले स्याद् बाहुरुत्तरः। विपर्यया-द्भुजो याम्यो भवेत् प्राच्यपरान्तरे। माध्याह्निको भुजोनित्यं छाया माध्याह्निकी स्मृता” सू॰ सि॰।
“अर्काग्रा सूर्य्यस्याभीषकालिककर्णाग्रा याम्ये दक्षिण-गोले विषुवद्भायुताक्षच्छायया युक्तोत्तरदिक्को भुजःस्या-तु। उत्तरगोले विषुवत्यां पलभायां कर्णाग्रां विशोध्यन्यूनीकृत्य शेषमुत्तरदिक्को भुजः स्यात्। ननु कर्णाग्रापलभायां यदा न शुध्यति तदा कथं भुजः साध्य इत्यतआह। विपर्ययादिति। अक्षभां कर्णाग्रायां विशोध्यशेषं दक्षिणो भुजः स्यात्। ननु भुजस्य याम्यत्वमुत्त-रत्वं वा कस्मादित्यत आह प्राच्यपरान्तर इति। पूर्वापरसूत्रादन्तरालपदेशे याम्ये उत्तरो वा भुजः स्या-दित्यर्थः। ननु तथापि द्वितीयावधेरनुक्तत्वादन्तरस्याप्र-सिद्धेः पूर्वापरसूत्रात् कम्यान्तरं भुज इत्याशङ्कायाउत्तरं मध्याह्नच्छायास्वरूपकथनच्छलेनाह माध्याह्निकइति मध्याह्नकालिको भुजः सदा माध्याह्निकी मध्याह्न-कालिकी छायोक्ता। तथा च छायाग्रं प्राच्यपरसूत्रा-द्याम्यमुत्तरं वा यदन्तरेण स भज इति व्यक्ती-कृतम्। अत्रोपपत्तिः। शङ्कमूलं प्राच्यपरसूत्रा-द्याम्यमुत्तरं वा यदन्तरेण स याम्योत्तरो भुजोग्रहस्य। शङ्गुस्तु ग्रहादवलम्बसूत्रं क्षितिजसम-सूत्रावधि तत्रायं भुजः शङ्कुतलाग्रयोः संस्का-रजः। शङ्कुतलं तु स्वाहोरात्रवृत्तस्थितोदयास्त-सूत्राच्छङ्कुमूलं यदन्तरेण तद्दक्षिणम्। अग्रा तुपूर्वापरसूत्राददयास्तगूत्रावध्यन्तरसुत्तरदक्षिणगोलक्रमेणो-[Page2993-b+ 38] त्तरदक्षिणा। तत्र ग्रहापरदिशि षड्भान्तरेऽस्मा-द्व्यस्तमिति शङ्कुतलमुत्तरमग्रापि व्यस्तदिक्केतितत्संस्कारो भुजो गोले प्रत्यक्षः। स महाशङ्कोरितियदि महाशङ्कोरयं तदा द्वादशाङ्गुलशङ्कोः क इत्यनुपातेनभुजः पूर्वापरसूत्राच्छायाग्रावधिः। तत्र शङ्कुतलाग्रेद्वादशाङ्गुलशङ्कोः साधिते तत्संस्कारेण भुजः स एव। तत्राप्यग्रा पूर्वं साधिता शङ्कुतलं तु द्वादशाङ्गुलशङ्कोःपलभा महाशङ्कुः कोटिः शङ्कुतलं भुजो हृतिः कर्णइत्यक्षक्षेत्रे द्वादशकोटौ पलभा भुजस्तदा महाशङ्कुकोटौको भुज इत्यनुपातेन शङ्कुतलमानीय महाशङ्कोरियंद्वादशाङ्गुलशङ्कोः किमित्यनुपातेन गुणहरयोस्तुल्यत्वा-न्नाशेन पलभाया एवावशिष्टत्वात्। सा तूत्तरा दक्षिण-गोलेऽग्राया उत्तरत्वादेकदिक्त्रेन पलभाग्रयोर्योगे उत्तरोभुजः। उत्तरगोलेऽग्राया दक्षिणत्वेन भिन्नदिक्त्रात्पलभाग्रयोरन्तरं भुजस्तत्र पलभायाः शेषमुत्तरो भुजो-ऽग्रायाः शेषं दक्षिणो भुजः। मध्याह्ने छायायाभुजरूपत्वान्मध्याह्नकालिको भुजो मध्याह्नच्छायेति सर्वंयुक्तम्। अथ याम्योत्तरवृत्तस्थच्छायाकर्णमुक्त्वा पूर्वापर-वृत्तस्थच्छायाकर्णं प्रकारद्वयेनाह” र॰ ना॰।
“लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे। क्रान्तिज्याप्तेतु तौ कर्णौ सममण्डलगे रवौ” सू॰ सि॰।
“लम्बज्याक्षज्ये क्रमेणाक्षभाद्वादशभ्यां गुणिते उभयत्रक्रान्तिज्यया भक्ते तुकारात् फले, समवृतस्थेऽर्के तौदृग्योग्यच्छायासम्बद्धौ कर्णौ भवत उभयत्र छायाकर्णःस्यात्। अत्रोपपत्तिः। स्वमस्तकोपरि पूर्वापरानुका-रेण यद्वृत्तं तत्सममण्डलसञ्ज्ञम्। तत्रस्थस्य छाया-कर्णानयनम्। पलमाभुजेऽक्षकर्णः कर्णस्तदा क्रान्ति-ज्याभुजे कः कर्ण इति, समशङ्कुः क्रान्तिज्याभुजे समशङ्कुकुजपोनतद्धृत्योः क्रमेण कर्णकोटित्वात्। अस्माच्छङ्गुमानाङ्गुलाम्यस्ते इत्यादिना त्रिज्या द्वादशगुणितानेनभक्ता तत्र।
“छेदं लघं च परिवर्त्य हरस्य शेषः कार्योऽत्र भागहरणे गुणानाविधिश्च” इत्युक्तेः। पलभयापि गुण्याक्रान्तिज्याक्षकर्णाभ्यां भक्ता। तत्र त्रिज्या द्वादशगुणि-ता अक्षकर्णभक्ता लम्बज्यैव सिद्धातो लम्बज्या पलभागुणि-ता क्रान्तिज्याभक्ता फलं समवृत्तगतच्छायाकर्णः। अथात्रैवपलभाभुजे द्वादशकोटिरक्षज्याभुजे का कोटिरिति लम्बज्याग्रहणे पलभयोस्तल्यत्वान्नाशादक्षज्या द्वादशगुण[Page2994-a+ 38] क्रान्तिज्या भक्ता छायाकणः सममण्डलगतः। क्रान्ति-ज्यायाः सदायं कर्णः सिद्ध्येन्न हि सर्वदा समवृहगतोग्रह इति समवृत्तगतग्रहस्यैव कर्णः साध्यो नान्यदेतिसूचनार्थं सममण्डलगे रवावित्युक्तम्”। तनु ग्रहाधिष्ठिताहोरात्रपूर्वापरवृत्तसम्पातादवलम्बरूप-समशङ्कोर्गोले प्रत्यक्षसिद्धस्य साधनार्थं समवृत्तस्थात्वाभावे-ऽपि छायाकर्णः साध्यः। सममण्डलगे रवावित्युक्तिस्तुस्वाधिष्ठिताहोरात्रवृत्तपरा न त्वन्यदा न साध्योऽन्यथा-लक्ष्यत्वेन प्रकारस्यातिप्रसङ्गापत्तेः। न हि प्रकारेतद्व्यावर्तकं विशेषणं प्रसिद्धं येन नातिप्रसङ्गः। परन्तुयदा सममण्डलेऽक्षांशाधिकक्रान्त्या ग्रहाधिष्ठितद्युरात्र-वृत्तानामसम्बन्धस्तदा गोले समशङ्कोरदर्शनात् तत्र कथंतत्साधनमनिवारितमित्यतः सममण्डलगे रवावित्यस्यपूर्वोक्त एवार्थ इत्यभिप्रायं सममण्डलकर्णानयनप्रका-रान्तरकथनच्छलेनाह” र॰ ना॰। (
“सौम्याक्षोना यदा क्रान्तिः स्यात्तदा द्युदलश्रवः। विषुवच्छाययाभ्यस्तः कर्णो मध्यगुग्रयोद्धृतः” सू॰ सि॰(
“यदोत्तरा क्रान्तिरक्षादल्पा स्यात् तदा द्युदलश्रवःसमवृत्तस्थार्कक्रान्तिसाधितमध्याह्नकर्णः। न तु मध्या-ह्नकालिकः। अक्षमया गुणितो मध्याग्रया गृहीत-मध्याह्नकर्णाग्रया भक्तः फलं सममण्डलगतग्रह-विम्बस्य छायाकर्णः स्यात्। अत्र सौम्येत्यनेनदक्षिणक्रान्तौ तदसाधनं सममण्डलगतग्रहविम्ब-स्यादर्शनादिति स्फुटमुक्तम् अन्यथाक्षाल्पक्रान्तौदक्षिणगोले समशङ्कोः प्रत्यक्षत्वात् तन्निवारणानुपपत्तेः। अत्रोपपत्तिः। सममण्डलप्रवेशकालिकमध्याह्नच्छाया-कर्णादवस्तुभूतात् कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्या-कर्णेन क इति मध्यशङ्कुस्तात्कालिकः। द्वादशकोटा-वक्षभा भुजस्तदा महाशङ्कुकोटौ क इति शङ्कुतलम्। द्वादशनाशात् पलभात्रिज्या{??}तो मध्यकर्णभक्त इति। अनेन भुजेन मध्यशङ्कुस्तदाऽग्राभुजेन क इति समशङ्कु-र्द्वादशाग्रामध्यकर्णघाती मध्यकर्णपलभाभ्यां भक्तोऽग्राभुजेसमशङ्कुतद्धृत्योः कोटिकर्णत्वात्। अस्मात् पूर्वप्रका-रेण छायाकर्णानयने द्वादशनाशान्मध्यकर्णपलभात्रि-ज्याघातोऽग्रामध्यकर्णाभ्यां भक्त इति तुल्ययोर्मध्य-कर्णमितगुणहरयोर्नाशाकरणेन सिद्धम् स्वतन्त्रेच्छस्यनियोक्तुमशक्यत्वात्। तत्रापि भाज्यहरौ त्रिज्यया-ऽपवर्त्य हरस्थाने मध्यकर्णगुणिताग्रा त्रिज्याभक्तेति[Page2994-b+ 38] भध्यकर्णाग्रा सिद्धातो मध्याग्रयोद्धृत इत्युक्तम्। भाजास्थाने तु मध्यकर्णपलभाधात इति दक्षिणगोलेग्रहादर्शनान्न साधितः। उत्तरगोलेऽपि क्रान्तिरक्षा-धिका तदा सममण्डलप्रवेशासम्भवान्न साधितः सम-मण्डलावध्यक्षांशत्वात्। अल्पक्रान्तौ तत्सम्मवात्साधितः। नह्यसिद्धं गोले गणितसाध्यं मानाभावादित्युपपन्नं सौम्येत्यादि। भास्कराचार्यैस्तु
“भार्तण्डःसममण्डलं प्रविशति स्वल्पेऽपमे स्वात् पलात् दृश्योह्युत्तरगोल एव स विशन् साध्या तदैवास्य भा। अप्रा-प्तेऽपि समाख्यमण्डलमिनेयः शङ्कुरुत्पद्यते नूनं सोऽपिपरानुपातविधये नैवं क्वचिद्दुष्यति” इत्यनेन तत्रापिसाधितः। अथ स्वाभिमतकर्णेन स्वस्वकाकाले भुजार्थंकर्णवृत्ताग्रा साध्येति सूचनार्थं कर्णाग्रामुक्तप्रकारेणपुनरपि मध्यकर्ण इति प्रागुक्तस्य स्फुटीकरणार्थंचाह” र॰ ना॰। (
“स्वक्रान्तिज्यात्रिजीवाघ्नी लम्बज्याप्ताऽग्रा मौर्विका। स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका” सू॰ सि॰
“स्वाभिमतकालिकक्रान्तिज्या त्रिज्यया गुणिता लम्ब-ज्यया भक्ता फलमग्रा ज्यारूपा। लम्बज्याकोटौ त्रि-ज्या कर्णः क्रान्तिज्याकोटौ कः कर्ण इत्यग्रेत्युपपत्तिः। उत्तरार्धं पुनरुक्तं व्याख्यातप्रायम्। यदि तु पूर्वोक्तकर्ण-वृत्ताग्रानयनश्लोके शङ्कुजीवयेत्यस्य शङ्कोः कोटिरूपत्वात्पूर्वसाधितनतांशभुजकोटिज्ययेत्यर्थो मध्यकर्ण इत्यस्य चतात्कालिकमध्याह्नच्छायायाः कर्णस्तदा न पुनरुक्तम्। परन्त्वर्काग्रेत्यस्य तात्कालिकमध्याह्नकालिककर्णाग्रार्थःस्वकेत्यस्य च स्वाभीष्टकालिककर्णाग्रार्थो बोध्यः। एतदुपपत्तिस्तु द्वादशकोटावक्षकर्णः कर्णस्तदा क्रान्ति-ज्याकोटौ कः कर्ण इति स्वकालिकाग्रा। त्रिज्यावृत्तेइयं तदा तात्कालिकमध्याह्नकालिकच्छायाकर्णेन नतां-शकोटिज्याभक्तद्वादशत्रिज्याधातात्मकेन केति द्वादश-त्रिज्याघातयोर्गुणहरत्वेन तुल्ययोर्नाशादक्षकर्णगुणित-क्रान्तिज्या तात्कालिकमध्याह्ननतांशकोटिज्यया भक्तेति। तात्कालिकमध्याह्नच्छायाकर्णेनेयं कर्णाग्रा तदा स्वाभीष्ट-कालिकच्छायाकर्णेन केति स्वकालिकी कर्णाग्रेत्युपपन्ना। सूर्याधिष्ठिताहोरात्रवृत्तयाम्योत्तरवृत्तोर्ध्वस-म्पातस्तात्कालिकुमध्याह्न परानुपातार्थं बोध्यम्। अथ( कोणच्छायाकर्णसाधनार्थं कोणशङ्कुदृग्ज्ये श्लोकपञ्चकेनाह” र॰ ना॰। [Page2995-a+ 38](
“त्रिज्यावर्गार्धतोऽग्रज्या वर्गोनाद्द्वादशाहतात्। पुनर्द्दादशनिघ्नाच्च लभ्यते यत् फलं बुधैः। शङ्कुवर्गार्ध-संयुक्तविषुवद्वर्गभाजितात्। तदेव करणीनाम तां पृथक्स्थापयेद्बुधः। अर्कघ्नी विषुवच्छायाऽग्रज्यया गुणितातथा। भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्। फलेनहीनसंयुक्तं दक्षिणोत्तरगोलयोः। याम्ययोर्विदिशोःशङ्कुरेवं याम्योत्तरे रवौ। परिभ्रमति शङ्कोस्तु शङ्कु-रुत्तरयोस्तु सः। तत्त्रिज्यावर्गविश्लेषान्मूलं दृगज्याभि-धीयत” सू॰ सि॰।
“पूर्वप्रकारानीतैस्तात्कालिकाग्रज्याया न तु कर्णा-ग्रायाः पूर्वं कर्णस्यैवासिद्धेः। वर्गेण हीनात् त्रिज्या-वर्गार्धाद्द्वादशगुणात् पुनर्द्वितीयवारं द्वादशगुणात्। चः समुच्चये। तेन द्वादशगुणितस्य द्विधा स्थापननिरासा-च्चतुश्चत्वारिंशदधिकशतगुणितादित्यर्थः। पृथक् गुणको-क्तिस्तु गुणनसुखार्थम्। शङ्कोर्द्वादशाङ्गुलात्मकस्य वर्गार्धेन द्विसप्तत्या युक्तेन पलभावर्गेण भाजिताद्बुधैर्गणितकर्तृभिर्यत्सङ्ख्यामितं फलं प्राप्यते तत्सङ्ख्यामितं करणीनामसञ्ज्ञया करणी। तां करणीं बुधो गणकः पृथ-गेकत्र स्थाने स्थापयेत्। ततो द्वादशगुणिता पलभाग्र-ज्यया पूर्वगृहीतया गुणिता तथा द्विसप्ततियुतेन पल-भावर्गेण भक्ता लब्धं फलसञ्ज्ञं तस्य फलस्य वर्गेणयुतायाः करण्या मूलं दक्षिणोत्तरगोलयोः क्रमेण फले-नोनयुतम्। एवमुक्तप्रकारेण सिद्धः शङ्कुः, शङ्कोर्ग-णितकर्तुः सकाशाद्दक्षिणोत्तरे सूर्ये परिभ्रमति सतितुकारः क्रमार्थे क्रमेण याम्ययोरुत्तरयोर्विटिशोराग्नेय-नैरृत्योरैशानीवायव्योः कोणयोरित्यर्थः। द्वितीयतु-कारः पूर्वापरदिने विभागक्रमार्थकत्वेन विदिशोरित्यत्रान्वेति तेन दिनपूर्वार्धे आग्नेयैशान्योर्दक्षिणोत्तरक्रमेण,दिनापरार्धे नैरृत्यवायव्योर्दक्षिणोत्तरक्रमेणेति फलि-तार्थः। स कोणसञ्ज्ञः शङ्कुः स्यात्। कोणशङ्कु-त्रिज्ययोर्वर्गान्तरान्मूलं दृग्ज्योच्यते” र॰ ना॰। अथैतच्छायाच्छायाकर्णयोरानयनमाह।
“स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते। छाया-कर्णौ त कोणेषु यथास्वं देशकालयोः” सू॰ सि॰।
“कोणीयदृग्ज्यात्रिज्ये द्वादशगुणे दृग्ज्यासम्बन्धिको-णशङ्कुना भक्त्वा लब्धे दृग्ज्यात्रिज्याक्रमेण छायाच्छा-याकर्णौ स्तः। तुकारादेवं कोणेषु चतुर्षु देशकालयोःयथाम्बं स्वमनतिक्रम्येति यथास्वं यथादेशं यथाकालं[Page2995-b+ 38] छायाच्छायाकर्णौ साध्यौ। अयमर्थः। क्वचिद्देशे चतुर्षु कोणेषु क्वचिच्च कोणद्वये क्वचिच्च दिनार्ध एवकोणद्वय इत्यादि देशकालानुरोधेन यथायोग्यमिति। अत्रोपपत्तिः प्रागुक्ता स्पष्टा च”। अथ दिक्प्रदेशसम्ब-न्धेन च्छायाकर्णावुक्त्वा कालसम्बर्न्धन सार्धश्लोकाभ्यामाह” र॰ ना॰।
“त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता। अन्त्यानतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा। विज्याभक्ताभवेच्छेदो लम्बज्याघ्नोऽथ भाजितः। त्रिभज्यया भवे-च्छङ्कुस्तद्वर्गं परिशोधयेत्। त्रिज्यावर्गात् पदं दृग्ज्याछायाकर्णौ तु पूर्ववत्”। मू॰ सि॰
“उत्तरगोले चरोत्पन्नया ज्यया चरज्ययेत्यर्थः। पूर्व-चरानयने चरज्यायाश्चरजेति सञ्ज्ञोक्तेः। युक्तात्रिज्याऽन्त्या स्यात्। याम्यगोले तया चरज्ययोनात्रिज्याऽन्त्या स्यात्। नतोत्क्रमज्योना सूर्योदयाहिन-गतघट्यो दिनशेषघट्यो वा दिनार्धान्तर्गता उन्नतसञ्ज्ञा-स्ताभिरूनं दिनार्धं नतकालो घट्यात्मकस्तस्यासुम्यो लि-प्तास्तत्त्वयमैरित्यादिविधिना, मुनयो रन्ध्रयमला इत्याद्यु-क्तोत्क्रमज्यापेण्डैर्ज्योत्क्रमज्या। पञ्चदशघट्यधिकनतेतु पञ्चदशघट्यूननतस्य क्रमज्याखण्डैः क्रमज्या तयायुक्ता त्रिज्योत्क्रमज्या भवति। तया हीनेत्यर्थः। स्वाहोरात्रार्धसङ्गुणा। गृहीतचरज्यासम्बन्ध्यहोरा-त्रवृत्तव्यामार्धं द्युज्या तया गुणिता त्रिज्यया भक्ताफलं छेदसञ्ज्ञं स्यात्। अथानन्तरं छेदो लम्बज्ययागुणितस्त्रिज्यया भाज्यः फलमिष्टकाले शङ्कुः स्यात्। तस्य शङ्कोर्वर्गं त्रिज्यावर्गाच्छोधयेत्। शेषस्य मूलंदृग्ज्या। आभ्यां छायाकर्णौ तु पूर्ववत्। पूर्वोक्त-रीत्या भवतः। अत्र च्छायाकर्णौ त्विति कोणच्छाया-कर्णसाधनश्लोकान्तर्भागम्य ग्रहणात् तच्छ्लोकोक्तरीत्या-ऽमीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ साध्यावित्युक्तम्। अत्रोपपत्तिः। याम्योत्तरवृत्तोर्द्धभागग्रहाधिष्ठितद्युरात्र-वृत्तसम्पातात् क्षितिजद्युरात्रवृत्तसम्पातद्वयबद्धोदयास्तसू-त्रक्षितिजसम्बद्धयाम्योत्तरवृत्तसूत्रसम्पातपर्यन्तमहोरात्रदृत्तेसूत्रं त्रिज्यानुरुद्धभन्त्या। सा तूत्तरगोले चरज्यायुतात्रिज्या दक्षिणगोले चरज्ययोना त्रिज्या। उन्मण्डलयाम्योत्तरसूत्रावध्यहोरात्रवृत्तव्यासार्धे त्रि-ज्यात्वात् उन्मण्डलस्योत्तरदक्षिणक्रमेण क्षितिजादू-र्ध्वाधःस्थत्वेन तद्याम्योत्तरसूत्रयोर्मध्ये चरज्यात्वाच्च। [Page2996-a+ 38] ग्रहाहोरात्रवृत्त याम्योत्तराऽहोरात्रवृत्तसम्पाता-दुभयत्र नतघट्यन्तरस्थाने तत्सूत्रं नतकालस्य सम्पूर्ण-ज्या। तन्मध्यादूर्ध्वसूत्रं शररूपं नतोत्क्रमज्या। तयाहीनान्त्या ग्रहस्थानादहोरात्रवृत्ते उदयास्तसूत्रपर्य-न्तमृजुसूत्रं त्रिज्यानुरुद्धमिष्टास्त्या। तत्तुल्या याम्योत्त-रोर्ध्वव्यासमूत्रान्तर्गता सा द्युज्याप्रमाणसाधितेष्टहृतिः। द्युज्यागुणा त्रिज्याभक्ता फलं छेदः। यदि तस्मात् त्रि-ज्याकर्णे लम्बज्या कोटिस्तदेष्टहृतिकर्णे का कोटिरि-त्यनुपातेनेष्टशङ्कुः। अस्माद्दृगज्या च्छाया तत्कर्णाउक्तरीत्या सिद्ध्यन्तीत्युक्तमुषपन्नम्। अथ श्लोकत्रयेणछायाकर्णाभ्यां नतकालानयनमाह” र॰ ना॰।
“अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता। दृग्-ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच्च यत् पदम्। शङ्कुःसत्रिभजीवाघ्नः स्वलम्बज्याविभाजितः। छेदः स त्रि-ज्यायाभ्यस्तः स्वाहोरात्रार्द्धभाजितः। उन्नतज्यातया हीना स्वान्त्या शेषस्य कार्मुकम्। उत्क्रमज्या-भिरेवं स्युः प्राक्पश्चार्धनतासवः”। सू॰ सि॰
“अभीष्टकालिकच्छायया गुणिता त्रिज्या गृहीतच्छा-यायाश्छायाकर्णेन भक्ता फलं दृग्ज्या दृग्ज्याया वर्गेणहीनात् त्रिज्यावर्गाद्यत्सङ्ख्यामितं मूलम्। चकारोयत्त-दोर्नित्यस{??}न्वात् तच्छब्दपरः। अभीष्टशङ्कुः। सइष्टशङ्कुस्त्रिज्यया गुणितः स्वदेशीयलम्बज्यया भक्तःफल छेदः। स छेदस्त्रिज्यया गुणितो द्युज्ययाभक्त उन्नतकालस्य ज्या विलक्षणा। यद्धनुरुन्नतकालोन भवति। तयानीतयोन्नतज्यया हीना स्वान्त्यास्वद्युज्यासम्बद्ध रज्यायावगतान्त्या। अवशेषस्योत्क्रमज्याभिः
“मुनयोरन्ध्रयमलाः” इत्याद्युक्तोत्कमज्या-पिण्ड्रैर्धनुः। अवशेषस्य त्रिज्याधिकत्वे तु यदधिकंतस्य क्रमज्यापिण्डैर्धनुश्चतुःपञ्चाशद्युक्तमुत्क्रमधनुर्भवति। एव प्रकारेण सिद्ध्वाङ्का दिनस्य पूर्वार्घापरार्धयोर्नतका-लासवो भवन्ति। अत्रोपपत्तिः। पूर्वोक्तव्यत्यासात्सुगमा। तत्र छेदस्त्रिज्यापरिणत इष्टान्त्या तस्याज्यात्वासम्भवः। अवध्युदयास्तसूत्रस्याहोरात्रवृत्तव्यास-सूत्रत्वाभावादित्युन्नतज्याकारेण स्वल्पान्तरत्वेन दर्शना-दुन्नतज्येत्युक्तम्। अत एव भास्कराचार्यैः
“इष्टान्त्य-कमून्नकालमौर्वीतुल्यां प्रकल्प्य” इत्याद्युक्तम्। तद्धनुर-मूनामुन्नतकालत्वापत्त्या तया होनेत्यादिभागस्य व्यर्थ-त्वापत्तेरिति दिक्” र॰ गा॰। [Page2996-b+ 38]
“इति त्रिप्रश्नाधिकारः” स॰ सि॰।
“दिग्देशकालानां प्रतिपादनमिदं परिपूर्तिमाप्तमित्यर्थः। तत्र दिशां साधनं शिलातल इत्यादि नियत, तत्सम्बन्धे{??}समकोणयाम्योत्तरशङ्कूनां साधनान्यपि दिगन्तर्गतान्यनियतानि। पलभालम्बाक्षादिसाधनं देशनिरूपणं नियतम्। अग्राचरादिसाधनमनियतम्। कालसाधनतद्वशाच्छायादिसाधनं च कालनिरूपणमिति विवेकः” र॰ ना॰। एवं शङ्कुच्छायया देशभेदेन सूक्ष्मं कालसाधने स्थितेवक्ष्यमाणछायापादेन कालज्ञानं स्थूलं किञ्चिद्देशविषयञ्चेत्यवधयम् छायाकर्णादिकं{??}सङ्गादत्रोक्तम्। तत्तदर्थेअतस्तद् विशिष्य नोक्तम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाया¦ f. (-या)
1. Shade.
2. Shadow, reflected image.
3. The wife of the sun.
4. Beauty, splendor, lustre.
5. Light.
6. Nourishing, cherish- ing.
7. A bribe.
8. A straight or continuous line.
9. A name of the goddess DURGA.
10. Darkness, obscurity.
11. The shadow of a Gnomon, especially as indicative of the position of the sun. E. छो to cut, (to cut off the light, &c.) and ण Unadi aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाया [chāyā], [छो-ण Uṇ.4.19]

Shade, shadow (changed at the end of Tat. comp. into छायम् when बाहुल्य or thickness of shade is meant; e. g. इक्षुच्छायनिषादिन्यः R.4.2; so 7.4;12.5; Mu.4.21); छायामधः सानुगतां निषेव्य Ku.1.5;6.46; अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् Ś.5.7; R.1.75;2.6;3.7; Me.67.

A reflected image, a reflection; छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा Ś.7.32.

Resemblance, likeness; क्षित्यादीनामिहार्थानां छाया न कतमापि हि Bhāg.7.15.59.

A shadowy fancy, hallucination; असता छाययोक्ताय सदाभासाय ते नमः Bhāg.8.3.14.

Blending of colours.

Lustre, light; भ्रष्टश्च स्वरयोगो मे छाया चापगता मन Rām.2.69.2. छायामण्डललक्ष्येण R.4.5; रत्न- च्छायाव्यतिकरः Me.15,35.

Colour; Māl.6.5.

Colour of the face, complexion; केवलं लावण्यमयी छाया त्वां न मुञ्चति Ś.3; मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी S. D.; Pt.5.88.

Beauty क्षामच्छायं भवनम् Me.8,14.

Protection.

A row, line.

Darkness; (metaphorically) Avidyā; छायातपौ यत्र न गृध्रपक्षौ Bhāg.8.5.27.

A bribe.

N. of Durgā.

The shadow of gnomon as indicating the sun's position.

The Sun.

Nightmare.

N. of a wife of the sun (she was but a shadow or likeness of संज्ञा, the wife of the sun; consequently when संज्ञा went to her father's house without the knowledge of her husband, she put छाया in her own place. छाया bore to the sun three children: two sons Sāvarṇi and Śani, and one daughter Tapanī).

A Sanskrit version of a Prākṛit text.

The Ganges; L. D. B.

Method; L. D. B.

A servant's chit; L. D. B. -यः One who grants shade. -Comp. -अङ्कः the moon. -आत्मन्m. a reflected image or form. -करः the bearer of an umbrella. -ग्रहः a mirror, or a sun-dial; प्रसन्नालापसंप्राप्तौ छायाग्रह इवापरः Rāj. T.3.154. -तनयः, -सुतः, -आत्मजः Saturn, son of छाया.

तरुः, द्रुमः a large umbrageous tree; स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु Me.1; Ś.4.11.

The Nameru tree; छायावृक्षो नमेरौ स्यात् । Nm.-द्वितीय a. 'accompanied only by one's shadow', alone. -पथः the galaxy, the atmosphere; R.13.2.-भृत m. the moon. (-नम्) a measure of shadow. -मित्रम् a parasol. -मृगधरः the moon.-यन्त्रम् a sun-dial; छायाम्बुयन्त्रसंविदिते Bṛi. S.2.3.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाया f. ? , shade , shadow , a shady place (" a covered place , house " Naigh. iii , 4 ) RV. i , 73 , 8 ; ii , 33 , 6 ; vi , 16 , 38 AV. VS. v , xv AitBr. vii , 12 S3Br. etc.

छाया See. य.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of विश्वकर्मन्, फलकम्:F1:  भा. VIII. १३. 8 and १०. M. ११. 5-9; २४८. ७३; वा. ८४. ३९-77.फलकम्:/F a servant- maid of सम्ज्ञा engaged by the latter for her husband. Hence [page१-619+ २९] wife of the sun God without his knowledge and mother of शनैश्चर and तपती during the absence of सम्ज्ञा as a horse. Her sons were श्रुतश्रव and श्रुतकर्म or सावर्णि Manu and Saturn respectively; illtreated सम्ज्ञा's children. Yama protested and was cursed to lose his legs. He reported to his father who said that they would be restored after some time. Then he asked छाया why she showed difference between her sons and she spoke the truth. The sun God flew into a rage and demanded त्वष्ता to give up his daughter. He showed the place where सर्वज्ञा was and त्वष्ता reduced his तेजस्। On seeing her, शुक्र came through his nostrils from which were born the अश्विन्स् or नासत्य and Dasra. फलकम्:F2:  Br. III. ५९. ३२-77; IV. ३५. ४७; भा. VI. 6. ४१.फलकम्:/F
(II)--the mind-born wife of सृष्टि and mother of five sons. भा. II. ३६. ९७-98.
(III)--the wife of पुष्टि and mother of five sons, प्राचीनगर्भ, वृषक, वृक, वृकल and धृति. वा. ६२. ८३.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CHĀYĀ : A substitute of Saṁjñā, daughter of Viśva- karmā. Saṁjñā got from Sūrya three children, Manu, Yama and Yamī. The heat of Sūrya, her husband, became unbearable to her and so she created a substitute in her exact form and leaving her to look after Sūrya, her husband, she left the place and went to her father. Sūrya did not know of this replacement and taking her to be Saṁjñā he produced three children by her, Śani, Sāvarṇamanu and Tapatī. Chāyā loved her sons more and this made Yama angry and he raised his legs to strike her when Chāyā cursed that Yama's legs would fall off from his body. Yama complained to his father and he amended the curse and said that only some flesh from his limbs would fall to the ground and that flesh would serve as food to the germs in the earth. Yama would escape from further injury. After consoling his son he turned towards Chāyā. The anger of Sūrya frightened her and she told him everything. Sūrya then divorced her and brought back Saṁjñā. For details see Saṁjñā. (Chapter 9 of Harivaṁśa; Chapter 2, Aṁśa 3, Viṣṇu- purāṇa).


_______________________________
*6th word in left half of page 182 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=छाया&oldid=454611" इत्यस्माद् पुनः प्राप्तिः