जगलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगलः, पुं, (पुनःपुनरतिशयेन वा गलतीति । गल क्षरणे + यङ्लुगन्तात् अच् । संज्ञापूर्ब्बक- त्वात् “दीर्घोऽकितः ।” ७ । ४ । ८३ । इति न दीर्घः । यद्वा, जन् + डः । जः जातः सन् गलति निर्गच्छ- तीति । गल + अच् ।) सुराकल्कम् । मेया इति भाषा ॥ तत्पर्य्यायः । मेदकः २ । इत्य- मरः । २ । १० । ४२ ॥ (यथा, शार्ङ्गधरे मध्य- खण्डे दशमेऽध्याये । “तदधो जगलो ज्ञेयो मेदको जगलाद्घनः ॥”) मदनवृक्षः पिष्टमद्यम् । (तद्गुणा यथा, -- “शूलप्रवाहिकाटोपकफवातार्शसां हितः । जगलो ग्राहिरूक्षोष्णः शोफघ्नो भुक्तपाचनः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “ग्राह्युष्णो जगलः पक्ता रूक्षस्तृद्कफशोफहृत् । हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥) धूर्त्ते त्रि । इति मेदिनी । ले, ९१ ॥ कवचः । रलयोरैक्यात् ॥ गोमये, क्ली । इति रत्नमाला ॥ (यथा, वैद्यकरत्नमालायाम् । “गोमयं जगलं गोविट् गोहन्नं तच्च गोशकृत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=जगलः&oldid=135174" इत्यस्माद् प्रतिप्राप्तम्