जघन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यः, त्रि, (कुटिलं हन्यते निन्द्यते इति । हन + यङन्तात् अचो यत् । अनित्यमागमशास्त्र- मिति नुगतोऽनुनासिकान्तस्येति न नुक् । यद्वा, जघनमिव । “शाखादिभ्यो यत् ।” ५ । ३ । १०३ । इति यत् ।) चरमः । (यथा, वैद्यकचक्र- पाणिसंग्रहे स्नेहाधिकारे । “उत्तमस्य पलं मात्रा त्रिभिरक्षैश्च मध्यमे । जघन्यस्य पलार्द्धेन स्नेहक्वाथ्यौषधेषु च ॥”) गर्हितः । (यथा, महाभारते । ३ । ३५ । १३ । “तत्र द्यूतमभवन्नो जघन्यं तस्मिन् जिताः प्रव्रजिताश्च सर्व्वे ॥” * ॥ जघने कटिदेशे भवम् । दिगादित्वात् यत् ।) मेहने, क्ली । इति मेदिनी । ये, ८३ ॥ पुं, शूद्रः । इति शब्दरत्नावली ॥ (हीनजातिमात्रम् । यथा, मनौ । ८ । ३६६ । “उत्तमां सेवमानस्तु जघन्यो वधमर्हति ॥” “हीनजातिरुत्कृष्टजातीयां कन्यामिच्छन्ती- मनिच्छन्तीं वा गच्छन् जात्यपेक्षयाऽङ्गच्छेदन- मारणात्मकं वधमर्हति ॥” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ पृष्ठभागः । यथा, रामा- यणे । २ । १०४ । २९ । “ततो जघन्यं सहितैः स्वमन्त्रिभिः पुरप्रधानैश्च तथैव सैनिकैः । जनेन धर्म्मज्ञतमेन धर्म्मवा- नुपोपविष्टो भरतस्तदाग्रजम् ॥” “जघन्यं जघनभागं पृष्ठभागमाश्रितः सन् ।” इति तट्टीकायां रामानुजः ॥ * ॥ राजानुचर- विशेषः । यथा, बृहत्संहितायाम् । ६९ । ३१, ३३ -- ३४ । “पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथ सामी । पूर्ब्बोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणु लक्षणैस्तान् ॥” “मालव्यसेवी तु जघन्यनामा खण्डेन्दुतुल्यश्रवणः सुगन्धिः । शुक्रेण सारः पिशुनः कविश्च रूक्षच्छविः स्थूलकराङ्गुलीकः ॥ क्रूरो धनी स्थूलमतिः प्रतीत- स्ताम्रच्छविः स्यात् परिहासशीलः । उरोऽङ्घ्रिहस्तेष्वसिशक्तिपाश- परश्वधाङ्कश्च जघन्यनामा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य वि।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।1।81।1।2

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

जघन्य वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।3।159।2।2

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः। जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य¦ त्रि॰ जघनमिव शाखा॰ यत् जघने भवः दिगा॰ यत्वा।

१ चरमे

२ गर्हिते
“धर्म्मार्थकामाः सममेव सेव्या-योह्येकसक्तः स जनोजघन्यः”

३ लक्षणयुक्ते नरे

४ अल्पे

५ शूद्रे च शब्दर॰।
“जघन्यं सेवमानान्तु संयतांवासयेद्गृहे। उत्तमां सेवमानस्तु जघन्योबधमर्हति” मनुःवर्ग्यादि॰ अकर्मधारये तत्पुरुषे अस्मात् उत्तरपद-स्याद्युदात्तता।

६ राजानुचरभेदे तल्लक्षणादि वृ॰ स॰

६९ अ॰उक्तं यथा
“पञ्चापरे वामनको जघन्यः” इत्यादिना। विभज्य
“मालव्यसेवी तु जघन्यनाद्या खण्डेन्दुतुल्यश्रवणःसुगन्धिः। शुक्रैणसारः पितुनः कबिश्च रूक्षच्छविः[Page3012-a+ 38] स्थूलकराङ्गुलीकः। क्रूरो धनी स्थूलमतिः प्रतीतस्ता-म्रच्छविः स्यात् परिहासशीलः, उरोऽङ्घ्रिहस्तेष्वसि-शक्तिपाशपरश्वधाङ्कश्च जघन्यनामा”।
“जघन्यगुण-वृत्तस्था अधो गच्छन्ति तामसाः” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य¦ mfn. (-न्यः-न्या-न्यं)
1. Last, hindmost.
2. Low, vile, base.
3. Worst, vilest, lowest. n. (-न्यं) The penis. m. (-न्यः) A Sudra or man of the fourth tribe. E. जघन tke loins, &c. and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य [jaghanya], a. [जघने भवः यत्]

Hindmost, last; Bg.14. 18; Ms.8.27. -मन्ये जघन्यस्य महीधरस्य शृङ्गाणि कालयस- निर्मितानि । Rām. Ch.4.16.

Worst, vilest, base, lowest, censurable; जघन्यगुणः Bhāg.14.18.

Of low origin or rank. -न्यः A Śudra. -न्यम् The penis. -Comp. -अवसायिन् a. What occurs later or afterwords. पूर्वाव- सायिनश्च बलीयांसो जघन्यावसायिभ्यः ŚB. on MS.12.2.34.

जः a younger brother; जघन्यजस्तक्षकश्र श्रुतसेनेति यः सुतः Mb.1.3.141; श्रुत्वा वचो वालिजघन्यजस्य Rām.4.24.24.

a Śūdra. विप्राश्च बाहुजास्तद्वद्दूरव्याश्च जघन्यजाः Śiva. B.31.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य mf( आ)n. ( g. दिग्-आदि; in comp. Pa1n2. 2-1 , 58 ; ifc. g. वर्ग्या-दि)hindmost , last , latest AV. vii , 74 , 2 VS. TBr. AitBr. etc.

जघन्य mf( आ)n. lowest , worst , vilest , least , least important MBh. etc.

जघन्य mf( आ)n. of low origin or rank , (m.) man of the lowest class Hariv. 5817 R. ii Pan5cat. BhP. vii , 11 , 17

जघन्य m. N. of the attendant of the model man मालव्यVarBr2S. lxix , 31 ff.

जघन्य n. the penis L.

जघन्य n. with कृ, to leave behind Hariv. 3087.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्य वि.
(जघने भवः, जघन + यत्) अन्तिम (बाण-प्रक्षेण) आप.श्रौ.सू. 18.3.15. (वाजपेय), शां.श्रौ.सू. 3.8.26; ऋत्विजों में अन्तिम (साथ-साथ पहला भी), आश्व.श्रौ.सू. 1.13.7, ‘संस्थिते जघन्य ऋत्विजां सर्वप्रायश्चित्तानि जुहुयात्, तम् इतरे अन्वालभेरन्’।

"https://sa.wiktionary.org/w/index.php?title=जघन्य&oldid=478396" इत्यस्माद् प्रतिप्राप्तम्