जङ्गमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गमः, त्रि, (पुनः पुनर्गच्छतीति । गम् + यङ् + अच् ।) अस्थावरः । गतिशक्तिविशिष्टः । तत्- पर्य्यायः । चरिष्णुः २ चरः ३ त्रसः ४ इङ्गः ५ चराचरः ६ । इत्यमरः । ३ । १ । ७४ ॥ (यथा, रघौ । २ । ४४ । “मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ॥” “ओषधयस्तावद्बिविधाः स्थावरा जङ्गमाश्च ।” “जङ्गमास्त्वपि चतुर्व्विधा जरायुजाण्डजस्वेद- जोद्भिज्जाः । तत्र पशु-मनुष्य-व्यालादयो जरा- युजाः । खग-सर्प-सरीसृप-प्रभृतयोऽण्डजाः । कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः । इन्द्र- गोपमण्डूकभृतय उद्भिज्जाः ॥” इति सुश्रुते सूत्रस्थाने प्रथमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=जङ्गमः&oldid=135194" इत्यस्माद् प्रतिप्राप्तम्