जङ्घालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घालः, त्रि, (प्रशस्ता वेगवतीत्यर्थः जङ्घास्त्य- स्येति । जङ्घा + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् । जङ्घाबलेनैव वेगस्य जननात्तथात्वम् ।) अतिवेगवान् । तत्पर्य्यायः । अविजवः २ । इत्य- मरः । २ । ८ । ७३ ॥ (यथा, काशीखण्डे गङ्गामाहात्म्ये । २९ । ६४ । “जाह्नवीज्या जगन्माता जप्या जङ्घाल- वीचिका ॥”) हरिण । एणः । कुरङ्गः । ऋष्यः । पृषतः । न्यङ्कुः । शम्बरः । राजीवः । मुण्डी । (यथा, -- “एणहरिणर्ष्यकुरङ्गकरालकृतमालशरभ- श्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्त- हरास्तीक्ष्णा हृद्या वस्तिशोधनाश्च ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥) एषां मांसगुणाः । “जङ्घालाः प्रायशः सर्व्वे पित्तश्लेष्महराः स्मृताः । किञ्चिद्वातकराश्चापि लघवो बलवर्द्वनाः ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=जङ्घालः&oldid=135207" इत्यस्माद् प्रतिप्राप्तम्