सामग्री पर जाएँ

जटामांसी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटामांसी, स्त्री, (जटां जटाकृतिं मन्यते इति । मन + “मनेर्दीर्घश्च ।” उणां । ३ । ६४ । इति सो दीर्घश्च ।) सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः । नलदम् २ वह्निनी २ पेषी ४ मांसी ५ कृष्णजटा ६ जटी ७ किरातिनी ८ जटिला ९ लोमशा १० तपस्विनी ११ । इति रत्नमाला ॥ भूत- जटा १२ । इति भावप्रकाशः ॥ पेशी १३ क्रव्यादि १४ पिशिता १५ पिशी १६ पेशिनी १७ जटा १८ हिंस्रा १९ मांसिनी २० जटाला २१ नलदा २२ मेषी २३ तामसी २४ चक्र- वर्त्तिनी २५ माता २६ अमृतजटा २७ जननी २८ जटावती २९ मृगभक्ष्या ३० जडामांसी ३१ मिंसी ३२ मिसिः ३३ मिसी ३४ मिषिका- ३५ मिषिः ३६ । इति शब्दरत्नावली ॥ अस्या गुणाः । सुरभित्वम् । कषायत्वम् । कटुत्वम् । शीतलत्वम् । कफभूतदाहपित्तनाशित्वम् । कान्ति- मोदकारित्वञ्च । इति राजनिर्घण्टः ॥ तिक्तत्वम् । मेध्यत्वम् । बलप्रदत्वम् । स्वादुत्वम् । त्रिदोषास्र- वीसर्पकुष्ठनाशित्वञ्च । इति भावप्रकाशः ॥ अनु- लेपनेन ज्वररूक्षतानाशित्वम् । इति राज- वल्लभः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटामांसी¦ स्त्री जटां मन्यते मन--स दीर्घश्च। स्वनामख्यातेगन्धद्रव्यभेदे।
“जटामांसी भूतजटा जटिला च तप-स्विनी। मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा। स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत्” भावप्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटामांसी¦ f. (-सी) Indian spikenard, (Valeriana jatamansi.) E. जटा entan- gled hair or root, and मांसी the same plant. जटां मन्यते |

"https://sa.wiktionary.org/w/index.php?title=जटामांसी&oldid=376549" इत्यस्माद् प्रतिप्राप्तम्