जतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतु, क्ली, (जायते वृक्षादिभ्य इति । जन + “फलि- पाटिनमिमनिजनामिति ।” उणां १ । १९ । इति उः तोऽन्तादेशश्च ।) वृक्षनिर्य्यासविशेषः । जौ इति ला इति च भाषा ॥ तत्पर्य्यायः । राक्षा २ लाक्षा ३ यावः ४ अलक्तः ५ द्रुमा- मयः ६ । इत्यमरः । ६ । २ । १२५ ॥ रक्षा ७ । इति रभसः ॥ कीटजा ८ क्रिमिजा ९ जतुका १० जन्तुका ११ गवाषिका १२ । इति रत्नमाला ॥ जतुकम् १३ यावकः १४ अलक्तकः १५ रक्तः १६ । इति शब्दरत्नावली ॥ पलङ्कषा १७ कृमिः १८ वरवर्णिनी १९ । इति जटाधरः ॥ (यथा, महा भारते । १ । १४७ । १३ । “जिघ्रन् सोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतु नपुं।

लाक्षा

समानार्थक:लाक्षा,राक्षा,जतु,याव,अलक्त,द्रुमामय

2।6।125।1।3

लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः। लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतु¦ न॰ जन--ड तोऽन्तादेशः।

१ अलक्ते,

२ लाक्षायाञ्च। स्वार्थे क। तत्रार्थे मेदि॰।
“शणं तैलं घृतञ्चैव जतु-दारूनि चैव हि” भा॰ आ॰

१४

४ अ॰।
“अप्राज्ञमधिकंपापं श्लिष्यते जतुकाष्ठवत्” भा॰ शा॰

३०

० अ॰।

३ चर्म्म-चटिकायां स्त्री
“सन्धिभ्यो जतूः” यजु॰

२४ ।

२५ ।
“जतूः पत्राख्याः पक्षिणीः” मेदि॰। तस्य विकारः
“त्रपुजतुनोः सुक् च” पा॰ अण् सुक् च। जातुष तद्वि-कारे (कड चुडि) प्रभृतौ आभरणे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतु [jatu], n. [जन्-ड तो$न्तादेशः Uṇ.1.18]

Lac; Pt.1.17.

A kind of red dye. -तुः, -तूः f. A bat. -Comp. -अश्मकम् red arsenic. -गृहम् a house made of lac (such as was built by Duryodhana in order to burn up the Pāṇḍavas). -पुत्रकः a man at chess. -मणिः a mole, a natural mark on the body. -रसः lac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतु n. lac , gum Kaus3. 13 MBh. i , xii Sus3r.

जतु f( ऊस्). ( Pa1n2. 4-1 , 71 Pat. )a bat VS. xxiv , 25 and 36 AV. ix , 2 , 22 ; ([ cf. Lat. bitumen ; Germ. Kitt.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Sudhanvan (Jantu.). Vi. IV. १९. ८२.

"https://sa.wiktionary.org/w/index.php?title=जतु&oldid=429773" इत्यस्माद् प्रतिप्राप्तम्