जतुका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतुका, स्त्री, (जतु इव आकृत्या कायतीति । कै + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) जनीनामगन्धद्रव्यम् । इत्यमरटीकायां भरतः ॥ चर्म्मचटिका । इति शब्दरत्नावली ॥ (यथा, वैद्यकचक्रपाणिसंग्रहेऽपस्माराधिकारे । “जतुकाशकृता तद्बद्दग्धैर्व्वा वस्तरोमभिः । अपस्मारहरो लेपो मूत्रसिद्धार्थशिग्रुभिः ॥”) पर्पटी । इति भावप्रकाशः ॥ लताविशेषः । सा तु मालवे प्रसिद्धा । तस्याः पर्य्यायाः । जतु- कारी २ जननी ३ चक्रवर्त्तिनी ४ तिर्य्यक्फला ५ निशान्धा ६ बहुपुत्त्री ७ सुपुत्त्रिका ८ राज- वृक्षा ९ जनेष्टा १० कपिकच्छुफलोपमा ११ रञ्जनी १२ सूक्ष्मवल्ली १३ भ्रमरी १४ कृष्ण- वल्लिका १५ विज्जुलिका १६ कृष्णरुहा १७ ग्रन्थिपर्णा १८ सुवर्च्चिका १९ तरुवल्ली २० दीर्घफला २१ । अस्या गुणाः । शिशिरत्वम् । तिक्तत्वम् । रक्तपित्तकफदाहतृष्णाविषनाशि- त्वम् । रुचिकारित्वम् । दीपनत्वञ्च । इति राज- निर्घण्टः ॥ जन्तुकापि पाठः । निशान्धाकृष्ण- रुहयोरित्यत्र क्रमेण निशाह्वा वृक्षरुहा च पाठः ॥ (लाक्षा । तत्पर्य्याया यथा, -- “कीटजा क्रिमिजा लाक्षा जतुका च गवायिका ॥” इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतुका स्त्री।

जतुका

समानार्थक:जतुका,अजिनपत्रा

2।5।26।1।1

जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका। वर्वणा मक्षिका नीला सरघा मधुमक्षिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतुका [jatukā], 1 Lac.

A bat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जतुका f. lac L.

जतुका f. = तु-कृत्Bhpr. v , 2 , 127

जतुका f. = तूL.

"https://sa.wiktionary.org/w/index.php?title=जतुका&oldid=499656" इत्यस्माद् प्रतिप्राप्तम्