जनकः
संस्कृतम्
[सम्पाद्यताम्]- जनकः, पिता, तातः, जनयित्नुः, जनयितृः, जन्मकीलः, जन्यः, देहकरः, शरीरकर्तृः, शरीरप्रभवः, जः, वप्रः।
नामः
[सम्पाद्यताम्]- जनकः नाम जनयिता, पिता, तातः।
अनुवादाः
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जनकः, पुं, (जनयतीति । जन + णिच् + ण्वुल् ।) पिता । राजभेदः । स तु मिथिलाधिपतिः । इति मेदिनी । के, ९० ॥ इक्ष्वाकुराजपुत्त्रो निमिर्वशिष्ठं त्यक्त्वा यज्ञं कृतवान् वशिष्ठस्तद्- यज्ञस्थानमागत्य राजानं आह्वयामास राजा तदा निद्रित आसीत् । मुनिस्तु क्रोधात् त्वं विदेहो भव इत्युक्त्रा तमभिशशाप । ततः, -- “दृष्ट्वा विदेहं राजानमृषयः सर्व्व एव ते । तञ्च ते याजयामासुर्यावद्दीक्षां मनीषिणः ॥ नरेन्द्रस्यापि तं देहमरक्षन्नृषिपुङ्गवाः । वस्त्रैर्माल्यैश्च गन्धैश्च पूज्यमानं मुहुर्मुहुः ॥ ऋषयोऽपि महात्मानो निमिदेहं ममन्थिरे । अरणिन्तस्य देहात्तु मन्थानञ्चापि चक्रिरे ॥ मन्त्रहोमैर्महात्मानः पुत्त्रहेतोर्निमेस्तदा । अरण्यां मथ्यमानायां प्रादुर्भूतो यतश्च सः ॥ अतो मिथिरिति ख्यातो जननाज्जनकोऽभवत् । विदेहश्चाभवद्यस्मान्महात्मा स महातपाः ॥ तस्माद्विदेहाः प्रोच्यन्ते सर्व्वे तद्बंशजा नृपाः । एवं विदेहराजस्तु पूर्ब्बको जनकोऽभवत् ॥ मिथिर्नाम महावीर्य्यो येन सा मिथिलाभवत् ॥” इति रामायणम् ॥ (ऋषिविशेषः । स तु वैद्यसन्देहभञ्जनग्रन्थस्य प्रणेता । यथा, ब्रह्मवैवर्त्ते । १ । १६ । १९ । “चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥” शम्बरासुरस्य पुत्त्रविशेषः । यथा, हरिवंशे । १६१ । ४४ । “श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह । सन्नद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाम्यया ॥” इत्युपक्रम्याह । “सेनस्कन्धोऽतिसेनश्च सेनको जनकस्ततः ॥”) उत्पादके, त्रि ॥ (यथा, ब्रह्मवैवर्त्ते । १ । १६ । २७ । “जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः ॥”)