जन्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जन्म, [न्] क्ली, (जायते इति । जन + “सर्व्वधातुभ्यो मनिन् ।” उणां । ४ । १४४ । इति मनिन् ।) उत्पत्तिः । आद्यक्षणसम्बन्धः । इति तिथि- तत्त्वेऽमावस्याप्रकरणे व्याख्यातम् ॥ तथा च । “अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्म्मता ।” इति सामान्यलक्षणाग्रन्थे शिरोमणिधृतोदय- नाचार्य्यकारिका ॥ तत्पर्य्यायः । जनुः २ जन- नम् ३ जनिः ४ उद्भवः ५ । इत्यमरः । १ । ४ । ३० ॥ जन्मम् ६ जनी ७ । इति भरतः ॥ प्रभवः ८ भावः ९ भवः १० सम्भवः ११ जनूः १२ प्रज- ननम् १३ । इति शब्दरत्नावली ॥ जातिः १४ । इति जटाधरः ॥ तच्च शुभाशुभकर्म्मणा भवति । यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । “शुभानामशुभानाञ्च कर्म्मणा जन्म जायते । पुण्यक्षेत्रे च सर्व्वत्र नान्यत्र भुञ्जते जनाः ॥” * ॥ तस्य क्रमो यथा, -- “ऋतौ विकाशे भवति योनिः कमलवत् सदा । गर्भाशयस्ततः शुक्रं धत्ते रक्तसमन्वितः ॥ अन्यत्र काले मुकुला योनिर्भवति योषिताम् । स्पृष्टं शुक्रमतो योनौ नैति गर्भाशयं शनैः ॥ ऋतावपि च योनिश्चेद्बातपित्तकफावृता । भवेत्तदा विशेषत्वं नैव तस्यां प्रजायते ॥ ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् । तदा तद्बायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥ निषेकं मानवं स्त्रीणां बीजं प्राप्तं रजस्यथ । मुक्तमात्रोऽपि नरकात् स्वर्गाद्बापि प्रपद्यते ॥ विसर्गकाले शुक्रस्य जीवः करणसंवृतः । धृत्या प्रविशते योनिं कर्म्मभिः स्वैर्नियोजितः ॥ तच्छुक्ररक्तमेकस्थमेकाहात् कलनं भवेत् । पञ्चरात्रेण कलनं बुद्बुदाकारतां व्रजेत् ॥ कण्डूयनेऽपि चाशक्तः परिवर्त्तेऽप्यनीश्वरः । स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ अशुचिः संस्तरे सूक्ष्मकीटदंशादिभिस्तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ केन बन्धनबद्धोऽहं कारणं किमकारणम् । किं कार्य्यं किमकार्य्यं वाकिं वाच्यं किञ्च नोच्यते ॥ कोऽधर्म्मः कश्च वै धर्म्मः कस्मिन् वा वर्त्तते कथम् । किं कर्त्तव्यमकर्त्तव्यं किं वा किं गुणदोषवत् ॥ संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः । रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ॥ रक्तो मूढश्च लोकोऽयमकार्य्ये सम्प्रवर्त्तते । देही देहं परित्यज्य नेन्द्रस्थानमपीच्छति ॥ तस्मात् कीटोऽपि जन्तूनां सुमूढो जायते भृशम् । न चात्मानं विजानाति न परं न च दैवतम् ॥ न शृणोति परं श्रेयः सति चक्षुषि नेक्षते । बुद्धौ सत्यां न जानाति बुध्यमानो बुधैरपि ॥ संसारे क्लिश्यते तेन रागलोभवशानुगः ॥” इति सुखबोधः ॥
जन्मम्, क्ली, (जायते इति । जन + बाहुलकात् मन् ।) उत्पत्तिः । “अनन्तरं नाम्नीति मप्रत्यये जन्म मदन्तञ्च । जन्ममदन्तमपीत्युणादाविति मुकुटः । जन्मे पञ्चनवस्थिते कलहरिपुभयमिति ज्योतिषे ।” इत्यमरटीकायां भरतः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जन्म¦ न॰ जन--बा॰ मन्। जन्मनि भरतः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जन्म¦ mn. (-न्मः-न्मं) Birth: see जन्मन्। E. जन-वा-मन् | जन्मनि |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जन्मम् [janmam], Birth.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जन्म in comp. for न्मन्
जन्म n. birth L. Sch.
जन्म न्मन्, etc. See. जन्.
जन्म ind. 77106
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a दनायुष. वा. ६८. ३०.