सामग्री पर जाएँ

जन्माष्टमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्माष्टमी, स्त्री, (जन्मनः श्रीकृष्णोत्पत्तेरष्टमी तिथिः ।) भाद्रकृष्णाष्टमी । सा च श्रीकृष्णस्य जन्मतिथिः । सा तु मुख्यचान्द्रेण श्रावणस्य कृष्णाष्टमी गौणचान्द्रेण भाद्रस्य । तत्र श्रीकृष्णस्य जन्मकालो यथा, ब्रह्मपुराणे । “अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे । अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः ॥” विष्णुपुराणे महामायां प्रति भगवद्बाक्यम् । “प्रावृट्काले च नभसि कृष्णाष्टम्यां महानिशि । उत्पत्स्यामि नवम्यान्तु प्रसूतिं त्वमवाप्म्यसि ॥ श्रावणे वा नभस्ये वा रोहिणीसहिताष्टमी । यदा कृष्णे नरैर्लब्धा सा जयन्ती प्रकीर्त्रिता ॥” तत्रातिष्ठज्जगन्नाथः कंसारिः सुरकृत्यकृत् । क्रीडित्वा बालभावेन कंसध्वंसे मनो दधौ ॥ प्राप्तिमात्रेण तं कंसं जघान जगदीश्वरः । एतत्ते कथितं राजन् ! कृष्णजन्माष्टमीव्रतम् ॥ य इदं कुरुते राजन् ! या च नारी हरेर्व्रतम् । प्राप्नोत्यैश्वर्य्यमतुलमिह लोके यथेप्सितम् ॥ अन्तकाले हरेः स्थानं दुर्ल्लभञ्च गमिष्यति । एकेनैवोपवासेन कृतेन कुरुनन्दन ! ॥ सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः । वत्सरद्वादशे चैव यत् पुण्यं समुपार्ज्जितम् ॥ विफलं तद्भवेत् सर्व्वं पुरा व्यासेन भाषितम् । न द्रष्टव्यं सुखं तेषां नराणां न च योषिताम् ॥ जयन्ती न कृता यैस्तु जागरादिसमन्विता । श्वानश्चैते तु विज्ञेया जयन्तीविमुखा नराः ॥ योषितश्च न सन्देहः सत्योक्तं तव सुव्रते ! ॥” इति भविष्यपुराणे वशिष्ठदिलीपसंवादे श्रीकृष्णजन्माष्टमीव्रतकथा समाप्ता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्माष्टमी¦ स्त्री कृष्णस्य जन्माधारोऽष्टमो। कृष्णजन्पाष्टम्याम्कृष्णाष्टमी शब्दे

२२

२० पृ॰ विवृतिः। हरिभक्तिविलास-मते तु तत्रत्यव्रतकालव्यवस्था यथा
“जन्माष्टमी पूर्वविद्धा न कर्त्तव्या कदाचन। पलवेधेतु विप्रेन्द्र! सप्तम्या चाष्टमीं त्यजेत्। सुराया विन्दुनास्पृष्टं गङ्गाम्भःकलसं यथा। विना ऋक्षेण कर्त्तव्यानवमी संयुताष्टमी। सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी। तस्मात् सर्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः। वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा। यच्च वह्नि-पुराणादौ प्रोक्तं विद्धाष्टमीव्रतम्। अवैष्णवपरं तच्चकृतं वा देवमायया”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्माष्टमी¦ f. (-मी) The eighth lunation or dark half of Bhadra, the birth day of KRISHNA. E. जन्म, and अष्टमी eighth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्माष्टमी/ जन्मा f. कृष्ण's birthday (the 8th day in the dark half of month स्रावणor भाद्र)

"https://sa.wiktionary.org/w/index.php?title=जन्माष्टमी&oldid=378587" इत्यस्माद् प्रतिप्राप्तम्