जन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्यम्, क्ली, (जन्यते इति । जनि + “तकिशसि- चतियतिजनिभ्यो यद्बाच्यः ।” इति वार्त्ति- कोक्त्या यत् ।) हट्टः । परीवादः । संग्रामः । इति मेदिनी । ये, २५ ॥ (यथा, रघौ । ४ । ७७ । “तत्र जन्यं रघोर्घोरं पार्व्वतीयैर्गणैरभूत् ॥”)

जन्यः, पुं, (जायते जनयति वा । जन + “भव्य- गेयेति ।” ३ । ४ । ६८ । इति कर्त्तरि यत् ।) जनकः । इति मेदिनी । ये, २६ ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ५६ । “उग्रतेजा महातेजा जन्यो विजयकालवित् ॥” देहः । यथा, भागवते । १ । ९ । ३१ । “निवृत्तसर्व्वेन्द्रियवृत्तिविभ्रम- स्तुष्टाव जन्यं विसृजन् जनार्द्दनम् ॥” जनस्य जल्पः । जन + “मतजनहलादिति ।” ४ । ४ । ९७ । इति यत् । जनजल्पः । इति सिद्धान्तकौमुदी ॥)

जन्यः, त्रि, (जन्यते इति । जन् + णिच् + कर्म्मणि यत् ।) उत्पाद्यः । यथा, -- “जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् । यथा श्रीकृष्णपादाङ्कं कालीयवंशमस्तके ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (“जन्यानां जनकः कालो जगतामाश्रयो मतः ॥” इति च भाषापरिच्छेदे ४५ ॥) जनयिता । (जनीं बधूं वहति प्रापयति वा । संज्ञायामिति साधुः ।) नवोढाज्ञातिः । नवोढा- भृत्यः । वरस्य स्निग्धः । स तु जामातृवत्सलः । इति मेदिनी । ये, २६ ॥ (जनाय हितः । यत् ।) जनहितः । इति व्याकरणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्य पुं।

वरपक्षीयः

समानार्थक:जन्य

2।7।58।1।2

सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जन्य पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।103।2।3

वीरपानं तु यत्पानं वृत्ते भाविनि वारणे। युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्.।

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

जन्य वि।

जनवादः

समानार्थक:अवगीत,निर्वाद,जन्य

3।3।159।2।1

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः। जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्य¦ त्रि॰ जन-
“भव्यंगयेत्यादि” पा॰ कर्त्तरि यत्।

१ जायमाने। जन--णिच्--कर्म्मणि यत्।

२ उत्पाद्ये
“जन्यानां जन-कालः” भाषा॰। कर्त्तरि यत्।

३ जनके च मेदि॰। जनींवधूं वहति नयति वा यत्।

४ नवोढाज्ञातिमित्रभृत्य-[Page3031-a+ 38] स्निग्धेषु त्रि॰ मेदि॰।

५ हट्टे,

६ परीवादे,

७ युद्धे च न॰मेदि॰
“तत्र जन्यं रधोर्घोरं पार्वतीयजनैरभूत्” रघुः

८ देहे पु॰ शब्दचि॰। भावं यत्।

९ जनने भ॰।

१० भातृवयस्यायां स्त्री मेदि॰। जनाय हि तं यत्।

११ जनहिते त्रि॰।
“तुष्टाव जम्यं विसृजत् जनार्द्दनम्” भाग॰

१ ।

९ ।

३ जन्यशब्दात् उत्करा॰ चतुरर्थ्यां छ। जन्थीय तन्निर्वृत्ते त्रि॰।
“याहीति जन्यामवदत् कुमारी” रघुः।

१२ प्रीतौ स्त्री हेम॰। जनस्य जल्पः जन + जल्पेऽर्थे यत्।

१३ जनस्य जल्पे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्य¦ mfn. (-न्यः-न्या-न्यं)
1. To be born or produced.
2. Fit for or favourable to men. m. (-न्यः)
1. A father.
2. The friend, attendant, or companion of a bridegroom. f. (-न्या) The friend of a mother.
2. The relation or companion of a bride, a bride's maid, &c.
3. Pleasure, happiness.
4. Affection.
5. A mother. n. (-न्यं)
1. War, combat.
2. Rumour, report.
3. A market, a fair.
4. A portent, one occurring at birth. E. जन to be born, &c. affix णिच् कर्त्तरि यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्य [janya], a. [जन् कर्तरि यत्]

To be born or produced.

Born, produced.

(At the end of comp.) Born from, occasioned by.

Belonging to a race or family

Vulgar, common.

National.

Relating to, or fit for men.

न्यः A father.

A friend, attendant or relative of a bridegroom; Māl.6.2.

A common man.

A report, rumour.

न्या Mother's friend,

The relation of a bride, a bride's maid; याहीति जन्यामवदत् कुमारी R.6.3.

Pleasure, happiness.

Affection.

a market.

The world; जन्या तु मातृसख्यां च मदे हट्टे जने$पि च । लोके जन्तौ ... Nm.

न्यम् Birth, production, creation.

That which is born or created, a created thing, an effect (opp. जनक) जन्यानां जनकः कालः Bhāṣā. P.45; जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् Śabdak.

The body; तुष्टाव जन्यं विसृजञ्जनार्दनम् Bhāg.1.9.31.

A portent occurring at birth.

A market, a fair.

War, battle; तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणरभूत् R.4.77; चारुणा रमते जन्ये को$भीतो रसिताशिनि Ki.15.23.

Censure, abuse.

A community, nation.

People.

Report, rumour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्य mfn. ( जन्Pa1n2. iii , 4 , 68 ; iii , 1 , 97 Pat. )born , produced Bha1sha1p. 44 BrahmaP.

जन्य mfn. ifc. born or arising or produced from , occasioned by S3is3. Bha1sha1p. Tarkas. etc. (577121 -ताf. abstr. Veda7ntas. ; 577121.1 -त्वn. id. KapS. Sch. )

जन्य m. a father L.

जन्य n. the body BhP. i , 9 , 31

जन्य n. a portent occurring at birth L.

जन्य mfn. (fr. जन)belonging to a race or family or to the same country , national RV. ii , 37 , 6 and 39 , l ; x , 91 , 2 S3a1n3khS3r. xv , 13 , 3

जन्य mfn. belonging or relating to the people RV. iv , 55 , 5 ; ix , 49 , 2 TBr. i Ta1n2d2yaBr. Shad2vBr.

जन्य m. the friend or companion of a bridegroom RV. iv , 38 , 6 AV. xi , 8 , I f. Gobh. ii , 1 , 13 MBh. i , iii Katha1s.

जन्य m. a son-in-law Gal.

जन्य m. a common man TS. vi , 1 , 6 , 6 TBr. i , 7 , 8 , 7

जन्य m. N. of शिवMBh. xiii , 1170

जन्य m. v.l. for जान्यSee.

जन्य m. n. rumour , report Pa1n2. 4-4 , 97

जन्य n. people , community , nation RV. ii;x , 42 , 6 AV. xiii , 4 , 43 (oxyt.)

जन्य n. pl. inimical races or men AitBr. viii , 26

जन्य n. fighting , war , Gaut. MBh. v , 3195 Ragh. iv , 77 Das3.

जन्य n. a market L.

जन्य न्यीय, न्यु. See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janya has in the Rigveda (iv. 38, 6) and the Atharvaveda (xi. 8, 1) the special sense of bridesman.’
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्य वि.
(जन + यत्) जन (लोगों से सम्बद्ध, ऋ.वे. 4.55.5; 9.49.2 (जन्यास उप नो गृहम्) वर का मित्र अथवा साथी, ऋ.वे. 4.38.6 जो ‘दृढ जल’ (वह जल जो सूखता नहीं); आपूरित करना है और अन्य अंकुश अथवा शाटी (अजन) को पकड़े हुए अथवा लिये हुए अगिन् के पास खड़ा रहता है, गौ.गृ.सू. 2.1.13-14 (विवाह); (दीक्षित व्यक्ति के कुल) से बाहर का (मित्र), मा.श्रौ.सू. 9.1.3.21।

"https://sa.wiktionary.org/w/index.php?title=जन्य&oldid=499681" इत्यस्माद् प्रतिप्राप्तम्